Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

कालभैरव ककार अष्टोत्तरशतनाम स्तोत्रम्

अस्य श्रीशाक्तानन्दपीयूषस्य नाम श्रीकालभैरवाष्टोत्तरशतनाम स्तोत्र महामन्त्रस्य श्री आनन्दभैरव ऋषिः अनुष्टुप् छन्दः श्री कालभैरवो देवता ह्रीं बीजं ह्सौः शक्तिः क्ष्फ्रौं कीलकं श्रीकालभैरवप्रसादसिद्ध्यर्थे जपे विनियोगः ॥
ऋष्यादिन्यासाः –
श्रीआनन्दभैरव ऋषये नमः शिरसि ।
अनुष्टुप् छन्दसे नमो मुखे ।
श्रीकालभैरव देवतायै नमो हृदये ।
ह्रीं बीजाय नमो गुह्ये ।
ह्सौः शक्तये नमः पादयोः ।
क्ष्फ्रौं कीलकाय नमो नाभौ ।
विनियोगाय नमः सर्वाङ्गे ॥
करन्यासाः –
क्ष्फ्रां अङ्गुष्ठाभ्यां नमः ।
क्ष्फ्रीं तर्जनीभ्यां नमः ।
क्ष्फ्रूं मध्यमाभ्यां नमः ।
क्ष्फ्रैं अनामिकाभ्यां नमः ।
क्ष्फ्रौं कनिष्ठिकाभ्यां नमः ।
क्ष्फ्रः करतलकरपृष्ठाभ्यां नमः ॥
हृदयादिन्यासाः –
क्ष्फ्रां हृदयाय नमः ।
क्ष्फ्रीं शिरसे स्वाहा ।
क्ष्फ्रूं शिखायै वषट् ।
क्ष्फ्रैं कवचाय हुम् ।
क्ष्फ्रौं नेत्रत्रयाय वौषट् ।
क्ष्फ्रः अस्त्राय फट् ॥
ध्यानम् –
श्वस्थं त्रीक्षणशोभितं श्रितजनोद्धारं कृपासागरं
आम्नायास्यकरोटिखर्पकरं दण्डं धरन्तं सदा ।
श्रीकाशीपुरनायकं सकलमन्त्रर्षीश्वरं मोक्षदं
ध्यायेत्तं हृदि कालभैरवगुरुं कान्तासमेतं परम् ॥
स्तोत्रम् –
कालभैरवदेवः कालकालः कालदण्डधृक् ।
कालात्मा काममन्त्रात्मा काशिकापुरनायकः ॥ 1 ॥
करुणावारिधिः कान्तामिलितः कालिकातनुः ।
कालजः कुक्कुरारूढः कपाली कालनेमिहा ॥ 2 ॥
कालकण्ठः कटाक्षानुगृहीताखिलसेवकः ।
कपालखर्परोत्कृष्टभिक्षापात्रधरः कविः ॥ 3 ॥
कल्पान्तदहनाकारः कलानिधिकलाधरः ।
कपालमालिकाभूषः कालीकुलवरप्रदः ॥ 4 ॥
कालीकलावतीदीक्षासंस्कारोपासनप्रियः ।
कालिकादक्षपार्श्वस्थः कालीविद्यास्वरूपवान् ॥ 5 ॥
कालीकूर्चसमायुक्तभुवनाकूटभासुरः ।
कालीध्यानजपासक्तहृदगारनिवासकः ॥ 6 ॥
कालिकावरिवस्यादिप्रदानकल्पपादपः ।
काल्युग्रावासवब्राह्मीप्रमुखाचार्यनायकः ॥ 7 ॥
कङ्कालमालिकाधारी कमनीयजटाधरः ।
कोणरेखाष्टपत्रस्थप्रदेशबिन्दुपीठगः ॥ 8 ॥
कदलीकरवीरार्ककञ्जहोमार्चनप्रियः ।
कूर्मपीठादिशक्तीशः कलाकाष्ठादिपालकः ॥ 9 ॥
कटप्रूः कामसञ्चारी कामारिः कामरूपवान् ।
कण्ठादिसर्वचक्रस्थः क्रियादिकोटिदीपकः ॥ 10 ॥
कर्णहीनोपवीताभः कनकाचलदेहवान् ।
कन्दराकारदहराकाशभासुरमूर्तिमान् ॥ 11 ॥
कपालमोचनानन्दः कालराजः क्रियाप्रदः ।
करणाधिपतिः कर्मकारकः कर्तृनायकः ॥ 12 ॥
कण्ठाद्यखिलदेशाहिभूषणाढ्यः कलात्मकः ।
कर्मकाण्डाधिपः किल्बिषमोची कामकोष्ठकः ॥ 13 ॥
कलकण्ठारवानन्दी कर्मश्रद्धवरप्रदः ।
कुणपाकीर्णकान्तारसञ्चारी कौमुदीस्मितः ॥ 14 ॥
किङ्किणीमञ्जुनिक्वाणकटीसूत्रविराजितः ।
कल्याणकृत्कलिध्वंसी कर्मसाक्षी कृतज्ञपः ॥ 15 ॥
करालदंष्ट्रः कन्दर्पदर्पघ्नः कामभेदनः ।
कालागुरुविलिप्ताङ्गः कातरार्ताभयप्रदः ॥ 16 ॥
कलन्दिकाप्रदः कालीभक्तलोकवरप्रदः ।
कामिनीकाञ्चनाबद्धमोचकः कमलेक्षणः ॥ 17 ॥
कादम्बरीरसास्वादलोलुपः काङ्क्षितार्थदः ।
कबन्धनावः कामाख्याकाञ्च्यादिक्षेत्रपालकः ॥ 18 ॥
कैवल्यप्रदमन्दारः कोटिसूर्यसमप्रभः ।
क्रियेच्छाज्ञानशक्तिप्रदीपकानललोचनः ॥ 19 ॥
काम्यादिकर्मसर्वस्वफलदः कर्मपोषकः ।
कार्यकारणनिर्माता कारागृहविमोचकः ॥ 20 ॥
कालपर्यायमूलस्थः कार्यसिद्धिप्रदायकः ।
कालानुरूपकर्माङ्गमोषणभ्रान्तिनाशनः ॥ 21 ॥
कालचक्रप्रभेदी कालिम्मन्ययोगिनीप्रियः ।
काहलादिमहावाद्यतालतांडवलालसः ॥ 22 ॥
कुलकुण्डलिनीशाक्तयोगसिद्धिप्रदायकः ।
कालरात्रिमहारात्रिशिवारात्र्यादिकारकः ॥ 23 ॥
कोलाहलध्वनिः कोपी कौलमार्गप्रवर्तकः ।
कर्मकौशल्यसन्तोषी केलिभाषणलालसः ॥ 24 ॥
कृत्स्नप्रवृत्तिविश्वाण्डपञ्चकृत्यविधायकः ।
कालनाथपरः कारः कालधर्मप्रवर्तकः ॥ 25 ॥
कुलाचार्यः कुलाचाररतः कुह्वष्टमीप्रियः ।
कर्मबन्धाखिलच्छेदी कोष्ठस्थभैरवाग्रणीः ॥ 26 ॥
कठोरौजस्यभीष्माज्ञापालकिङ्करसेवितः ।
कालरुद्रः कालवेलाहोरांशमूर्तिमान् करः ॥ 27 ॥
इत्युक्तं गुरुनाथस्य नाम्नामष्टोत्तरं शतम् ।
श्रीकालभैरवस्येदं रहस्यमतिपावनम् ॥ 28 ॥
श्रीशाक्तानन्दपीयुषं मोक्षसाधनमुत्तमम् ।
विद्यासर्वस्वसाराढ्यं योगिनीहृदयङ्गमम् ॥ 29 ॥
पुण्यं सुदुर्लभं गोप्यं शमथप्रदमौषधम् ।
ककारमातृकाबृंहं गुर्वनुग्रहसिद्धिदम् ॥ 30 ॥
यो जपेत्परया भक्त्या प्रेमध्यानपरः सदा ।
गुरुप्रसादाल्लभते वरं सर्वमभीप्सितम् ॥ 31 ॥
इति श्री कालभैरव ककार अष्टोत्तरशतनाम स्तोत्रम् ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits