Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

कालभैरव पञ्चरत्न स्तुतिः

खड्गं कपालं डमरुं त्रिशूलं
हस्ताम्बुजे सन्दधतं त्रिणेत्रम् ।
दिगम्बरं भस्मविभूषिताङ्गं
नमाम्यहं भैरवमिन्दुचूडम् ॥ 1 ॥
कवित्वदं सत्वरमेव मोदा-
-न्नतालये शम्भुमनोऽभिरामम् ।
नमामि यानीकृतसारमेयं
भवाब्धिपारं गमयन्तमाशु ॥ 2 ॥
जरादिदुःखौघविभेददक्षं
विरागिसंसेव्यपदारविन्दम् ।
नराधिपत्वप्रदमाशु नन्त्रे
सुराधिपं भैरवमानतोऽस्मि ॥ 3 ॥
शमादिसम्पत्प्रदमानतेभ्यो
रमाधवाद्यर्चितपादपद्मम् ।
समाधिनिष्ठैस्तरसाधिगम्यं
नमाम्यहं भैरवमादिनाथम् ॥ 4 ॥
गिरामगम्यं मनसोऽपि दूरं
चराचरस्य प्रभवादिहेतुम् ।
कराक्षिपच्छून्यमथापि रम्यं
परावरं भैरवमानतोऽस्मि ॥ 5 ॥
इति श्री कालभैरव पञ्चरत्न स्तुतिः ॥

Recite with devotion and pure heart

Regular practice brings spiritual benefits