Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

बटुक भैरव अष्टोत्तर शत नामावलिः

ओं भैरवाय नमः । ओं भूतनाथाय नमः । ओं भूतात्मने नमः । ओं भूतभावनाय नमः । ओं क्षेत्रदाय नमः । ओं क्षेत्रपालाय नमः । ओं क्षेत्रज्ञाय नमः । ओं क्षत्रियाय नमः । ओं विराजे नमः । ओं श्मशानवासिने नमः । 10 ओं मांसाशिने नमः । ओं खर्पराशिने नमः । ओं मखान्तकृते नमः । ओं रक्तपाय नमः । ओं प्राणपाय नमः । ओं सिद्धाय नमः । ओं सिद्धिदाय नमः । ओं सिद्धसेविताय नमः । ओं करालाय नमः । ओं कालशमनाय नमः । 20 ओं कलाकाष्ठातनवे नमः । ओं कवये नमः । ओं त्रिनेत्राय नमः । ओं बहुनेत्राय नमः । ओं पिङ्गललोचनाय नमः । ओं शूलपाणये नमः । ओं खड्गपाणये नमः । ओं कङ्कालिने नमः । ओं धूम्रलोचनाय नमः । ओं अभीरवे नमः । 30 ओं भैरवाय नमः । ओं भैरवीपतये नमः । ओं भूतपाय नमः । ओं योगिनीपतये नमः । ओं धनदाय नमः । ओं धनहारिणे नमः । ओं धनपाय नमः । ओं प्रतिभाववते नमः । ओं नागहाराय नमः । ओं नागकेशाय नमः । 40 ओं व्योमकेशाय नमः । ओं कपालभृते नमः । ओं कालाय नमः । ओं कपालमालिने नमः । ओं कमनीयाय नमः । ओं कलानिधये नमः । ओं त्रिलोचनाय नमः । ओं ज्वलन्नेत्राय नमः । ओं त्रिशिखिने नमः । ओं त्रिलोकभृते नमः । 50 ओं त्रिवृत्तनयनाय नमः । ओं डिम्भाय नमः । ओं शान्ताय नमः । ओं शान्तजनप्रियाय नमः । ओं वटुकाय नमः । ओं वटुकेशाय नमः । ओं खट्वाङ्गवरधारकाय नमः । ओं भूताध्यक्षाय नमः । ओं पशुपतये नमः । ओं भिक्षुकाय नमः । 60 ओं परिचारकाय नमः । ओं धूर्ताय नमः । ओं दिगम्बराय नमः । ओं सौरिणे नमः । ओं हरिणे नमः । ओं पाण्डुलोचनाय नमः । ओं प्रशान्ताय नमः । ओं शान्तिदाय नमः । ओं शुद्धाय नमः । ओं शङ्करप्रियबान्धवाय नमः । 70 ओं अष्टमूर्तये नमः । ओं निधीशाय नमः । ओं ज्ञानचक्षुषे नमः । ओं तमोमयाय नमः । ओं अष्टाधाराय नमः । ओं कलाधाराय नमः । ओं सर्पयुक्ताय नमः । ओं शशीशिखाय नमः । ओं भूधराय नमः । ओं भूधराधीशाय नमः । 80 ओं भूपतये नमः । ओं भूधरात्मकाय नमः । ओं कङ्कालधारिणे नमः । ओं मुण्डिने नमः । ओं व्यालयज्ञोपवीतवते नमः । ओं जृम्भणाय नमः । ओं मोहनाय नमः । ओं स्तम्भिने नमः । ओं मारणाय नमः । ओं क्षोभणाय नमः । 90 ओं शुद्धनीलाञ्जनप्रख्यदेहाय नमः । ओं मुण्डविभूषिताय नमः । ओं बलिभुजे नमः । ओं बलिभुतात्मने नमः । ओं कामिने नमः । ओं कामपराक्रमाय नमः । ओं सर्वापत्तारकाय नमः । ओं दुर्गाय नमः । ओं दुष्टभूतनिषेविताय नमः । ओं कामिने नमः । 100 ओं कलानिधये नमः । ओं कान्ताय नमः । ओं कामिनीवशकृते नमः । ओं वशिने नमः । ओं सर्वसिद्धिप्रदाय नमः । ओं वैद्याय नमः । ओं प्रभविष्णवे नमः । ओं प्रभाववते नमः । 108 इति श्री बटुकभैरवाष्टोत्तरशतनामावली ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits