Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

शास्ता पञ्चाक्षर स्तोत्रम्

ओङ्कारमूर्तिमार्तिघ्नं देवं हरिहरात्मजम् ।
शबरीपीठनिलयं शास्तारं प्रणतोऽस्म्यहम् ॥ 1 ॥
नक्षत्रनाथवदनं नाथं त्रिभुवनावनम् ।
नमिताशेषभुवनं शास्तारं प्रणतोऽस्म्यहम् ॥ 2 ॥
मन्मथायुतसौन्दर्यं महाभूतनिषेवितम् ।
मृगयारसिकं शूरं शास्तारं प्रणतोऽस्म्यहम् ॥ 3 ॥
शिवप्रदायिनं भक्तदैवतं पाण्ड्यबालकम् ।
शार्दूलदुग्धहर्तारं शास्तारं प्रणतोऽस्म्यहम् ॥ 4 ॥
वारणेन्द्रसमारूढं विश्वत्राणपरायणम् ।
वेत्रोद्भासिकराम्भोजं शास्तारं प्रणतोऽस्म्यहम् ॥ 5 ॥
यक्षिण्यभिमतं पूर्णापुष्कलापरिसेवितम् ।
क्षिप्रप्रसादकं नित्यं शास्तारं प्रणतोऽस्म्यहम् ॥ 6 ॥
इति श्री शास्ता पञ्चाक्षर स्तोत्रम् ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits