हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
महाशास्ता अनुग्रह कवचम्
श्रीदेव्युवाच
।
भगवन्
देवदेवेश
सर्वज्ञ
त्रिपुरान्तक
।
प्राप्ते
कलियुगे
घोरे
महाभूतैः
समावृते
॥
1
॥
महाव्याधि
महाव्याल
घोरराजैः
समावृते
।
दुःस्वप्नशोकसन्तापैः
दुर्विनीतैः
समावृते
॥
2
॥
स्वधर्मविरतेमार्गे
प्रवृत्ते
हृदि
सर्वदा
।
तेषां
सिद्धिं
च
मुक्तिं
च
त्वं
मे
ब्रूहि
वृषध्वज
॥
3
॥
ईश्वर
उवाच
।
शृणु
देवि
महाभागे
सर्वकल्याणकारणे
।
महाशास्तुश्च
देवेशि
कवचं
पुण्यवर्धनम्
॥
4
॥
अग्निस्तम्भ
जलस्तम्भ
सेनास्तम्भ
विधायकम्
।
महाभूतप्रशमनं
महाव्याधिनिवारणम्
॥
5
॥
महाज्ञानप्रदं
पुण्यं
विशेषात्
कलितापहम्
।
सर्वरक्षाकरं
दिव्यमायुरारोग्यवर्धनम्
॥
6
॥
किमतो
बहुनोक्तेन
यं
यं
कामयते
द्विजः
।
तं
तमाप्नोत्यसन्देहो
महाशास्तुः
प्रसादतः
॥
7
॥
कवचस्य
ऋषिर्ब्रह्मा
गायत्रीश्छन्द
उच्यते
।
देवता
श्रीमहाशास्ता
देवो
हरिहरात्मजः
॥
8
॥
षडङ्गमाचरेद्भक्त्या
मात्रया
जातियुक्तया
।
ध्यानमस्य
प्रवक्ष्यामि
शृणुष्वावहिता
प्रिये
॥
9
॥
अस्य
श्रीमहाशास्तुः
कवचस्तोत्र
महामन्त्रस्य
ब्रह्मा
ऋषिः,
गायत्री
छन्दः,
महाशास्ता
देवता,
ह्रां
बीजं,
ह्रीं
शक्तिः,
ह्रूं
कीलकं,
श्रीमहाशास्तुः
प्रसाद
सिद्ध्यर्थे
जपे
विनियोगः
॥
ह्रामित्यादि
षडङ्गन्यासः
॥
अथ
ध्यानम्
।
तेजोमण्डलमध्यगं
त्रिनयनं
दिव्याम्बरालङ्कृतं
देवं
पुष्पशरेक्षुकार्मुकलसन्माणिक्यपात्राऽभयम्
।
बिभ्राणं
करपङ्कजे
मदगजस्कन्धाधिरूढं
विभुं
शास्तारं
शरणं
व्रजामि
सततं
त्रैलोक्यसम्मोहनम्
॥
अथ
कवचम्
।
महाशास्ता
शिरः
पातु
फालं
हरिहरात्मजः
।
कामरूपी
दृशौ
पातु
सर्वज्ञो
मे
श्रुती
सदा
॥
1
॥
घ्राणं
पातु
कृपाध्यक्षो
मुखं
गौरीप्रियः
सदा
।
वेदाध्यायी
च
मे
जिह्वां
पातु
मे
चिबुकं
गुरुः
॥
2
॥
कण्ठं
पातु
विशुद्धात्मा
स्कन्धौ
पातु
सुरार्चितः
।
बाहू
पातु
विरूपाक्षः
करौ
तु
कमलाप्रियः
॥
3
॥
भूताधिपो
मे
हृदयं
मध्यं
पातु
महाबलः
।
नाभिं
पातु
महावीरः
कमलाक्षोऽवतात्कटिम्
॥
4
॥
अपानं
पातु
विश्वात्मा
गुह्यं
गुह्यार्थवित्तमः
।
ऊरू
पातु
गजारूढो
वज्रधारी
च
जानुनी
॥
5
॥
जङ्घे
पात्वङ्कुशधरः
पादौ
पातु
महामतिः
।
सर्वाङ्गं
पातु
मे
नित्यं
महामायाविशारदः
॥
6
॥
इतीदं
कवचं
पुण्यं
सर्वाघौघनिकृन्तनम्
।
महाव्याधिप्रशमनं
महापातकनाशनम्
॥
7
॥
ज्ञानवैराग्यदं
दिव्यमणिमादिविभूषितम्
।
आयुरारोग्यजननं
महावश्यकरं
परम्
॥
8
॥
यं
यं
कामयते
कामं
तं
तं
प्राप्नोत्यसंशयः
।
त्रिसन्ध्यं
यः
पठेद्विद्वान्
स
याति
परमां
गतिम्
॥
9
॥
इति
श्री
महाशास्ता
अनुग्रह
कवचम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits