हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
भूतनाथ भुजङ्ग स्तोत्रम्
श्रितानन्द
चिन्तामणि
श्रीनिवासं
सदा
सच्चिदानन्द
पूर्णप्रकाशम्
।
उदारं
सुदारं
सुराधारमीशं
परं
ज्योतिरूपं
भजे
भूतनाथम्
॥
1
विभुं
वेदवेदान्तवेद्यं
वरिष्ठं
विभूतिप्रदं
विश्रुतं
ब्रह्मनिष्ठम्
।
विभास्वत्प्रभावप्रभं
पुष्कलेष्टं
परं
ज्योतिरूपं
भजे
भूतनाथम्
॥
2
परित्राणदक्षं
परब्रह्मसूत्रं
स्फुरच्चारुगात्रं
भवध्वान्तमित्रम्
।
परं
प्रेमपात्रं
पवित्रं
विचित्रं
परं
ज्योतिरूपं
भजे
भूतनाथम्
॥
3
परेशं
प्रभुं
पूर्णकारुण्यरूपं
गिरीशाधिपीठोज्ज्वलच्चारुदीपम्
।
सुरेशादिसंसेवितं
सुप्रतापं
परं
ज्योतिरूपं
भजे
भूतनाथम्
॥
4
हरीशानसंयुक्तशक्त्येकवीरं
किरातावतारं
कृपापाङ्गपूरम्
।
किरीटावतंसोज्ज्वलत्
पिञ्छभारं
परं
ज्योतिरूपं
भजे
भूतनाथम्
॥
5
गुरुं
पूर्णलावण्यपादादिकेशं
गरीयं
महाकोटिसूर्यप्रकाशम्
।
कराम्भोरुहन्यस्तवेत्रं
सुरेशं
परं
ज्योतिरूपं
भजे
भूतनाथम्
॥
6
महायोगपीठे
ज्वलन्तं
महान्तं
महावाक्यसारोपदेशं
सुशान्तम्
।
महर्षिप्रहर्षप्रदं
ज्ञानकन्दं
परं
ज्योतिरूपं
भजे
भूतनाथम्
॥
7
महारण्यमन्मानसान्तर्निवासान्
अहङ्कारदुर्वारहिंस्रा
मृगादीन्
।
हरन्तं
किरातावतारं
चरन्तं
परं
ज्योतिरूपं
भजे
भूतनाथम्
॥
8
पृथिव्यादिभूत
प्रपञ्चान्तरस्थं
पृथग्भूतचैतन्यजन्यं
प्रशस्तम्
।
प्रधानं
प्रमाणं
पुराणप्रसिद्धं
परं
ज्योतिरूपं
भजे
भूतनाथम्
॥
9
जगज्जीवनं
पावनं
भावनीयं
जगद्व्यापकं
दीपकं
मोहनीयम्
।
सुखाधारमाधारभूतं
तुरीयं
परं
ज्योतिरूपं
भजे
भूतनाथम्
॥
10
इहामुत्र
सत्सौख्यसम्पन्निधानं
महद्योनिमव्याहतात्माभिधानम्
।
अहः
पुण्डरीकाननं
दीप्यमानं
परं
ज्योतिरूपं
भजे
भूतनाथम्
॥
11
त्रिकालस्थितं
सुस्थिरं
ज्ञानसंस्थं
त्रिधाम
त्रिमूर्त्यात्मकं
ब्रह्मसंस्थम्
।
त्रयीमूर्तिमार्तिच्छिदं
शक्तियुक्तं
परं
ज्योतिरूपं
भजे
भूतनाथम्
॥
12
इडां
पिङ्गलां
सत्सुषुम्नां
विशन्तं
स्फुटं
ब्रह्मरन्ध्र
स्वतन्त्रं
सुशान्तम्
।
दृढं
नित्य
निर्वाणमुद्भासयन्तं
परं
ज्योतिरूपं
भजे
भूतनाथम्
॥
13
अणुब्रह्मपर्यन्त
जीवैक्यबिम्बं
गुणाकारमत्यन्तभक्तानुकम्पम्
।
अनर्घं
शुभोदर्कमात्मावलम्बं
परं
ज्योतिरूपं
भजे
भूतनाथम्
॥
14
इति
धर्मशास्ता
भुजङ्ग
स्तोत्रम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits