हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
नारायणोपनिषत्
ओं
स॒ह
ना॑ववतु
।
स॒ह
नौ॑
भुनक्तु
।
स॒ह
वी॒र्यं॑
करवावहै
।
ते॒ज॒स्विना॒वधी॑तमस्तु॒
मा
वि॑द्विषा॒वहै᳚
॥
ओं
शान्ति॒:
शान्ति॒:
शान्ति॑:
॥
ओं
अथ
पुरुषो
ह
वै
नारायणोऽकामयत
प्रजाः
सृ॑जेये॒ति
।
ना॒रा॒य॒णात्प्रा॑णो
जा॒यते
।
मनः
सर्वेन्द्रि॑याणि॒
च
।
खं
वायुर्ज्योतिरापः
पृथिवी
विश्व॑स्य
धा॒रिणी
।
ना॒रा॒य॒णाद्ब्र॑ह्मा
जा॒यते
।
ना॒रा॒य॒णाद्रु॑द्रो
जा॒यते
।
ना॒रा॒य॒णादि॑न्द्रो
जा॒यते
।
ना॒रा॒य॒णात्प्रजापतयः
प्र॑जाय॒न्ते
।
ना॒रा॒य॒णाद्द्वादशादित्या
रुद्रा
वसवस्सर्वाणि
च
छ॑न्दाग्ं॒सि
।
ना॒रा॒य॒णादेव
समु॑त्पद्य॒न्ते
।
ना॒रा॒य॒णे
प्र॑वर्त॒न्ते
।
ना॒रा॒य॒णे
प्र॑लीय॒न्ते
॥
ओम्
।
अथ
नित्यो
ना॑राय॒णः
।
ब्र॒ह्मा
ना॑राय॒णः
।
शि॒वश्च॑
नाराय॒णः
।
श॒क्रश्च॑
नाराय॒णः
।
द्या॒वा॒पृ॒थि॒व्यौ
च॑
नाराय॒णः
।
का॒लश्च॑
नाराय॒णः
।
दि॒शश्च॑
नाराय॒णः
।
ऊ॒र्ध्वश्च॑
नाराय॒णः
।
अ॒धश्च॑
नाराय॒णः
।
अ॒न्त॒र्ब॒हिश्च॑
नाराय॒णः
।
नारायण
एवे॑दग्ं
स॒र्वम्
।
यद्भू॒तं
यच्च॒
भव्यम्᳚
।
निष्कलो
निरञ्जनो
निर्विकल्पो
निराख्यातः
शुद्धो
देव
एको॑
नाराय॒णः
।
न
द्वि॒तीयो᳚स्ति॒
कश्चि॑त्
।
य
ए॑वं
वे॒द
।
स
विष्णुरेव
भवति
स
विष्णुरे॑व
भ॒वति
॥
ओमित्य॑ग्रे
व्या॒हरेत्
।
नम
इ॑ति
प॒श्चात्
।
ना॒रा॒य॒णायेत्यु॑परि॒ष्टात्
।
ओमि॑त्येका॒क्षरम्
।
नम
इति॑
द्वे
अ॒क्षरे
।
ना॒रा॒य॒णायेति
पञ्चा᳚क्षरा॒णि
।
एतद्वै
नारायणस्याष्टाक्ष॑रं
प॒दम्
।
यो
ह
वै
नारायणस्याष्टाक्षरं
पद॑मध्ये॒ति
।
अनपब्रवस्सर्वमा॑युरे॒ति
।
विन्दते
प्रा॑जाप॒त्यग्ं
रायस्पोषं॑
गौप॒त्यम्
।
ततोऽमृतत्वमश्नुते
ततोऽमृतत्वमश्नु॑त
इ॒ति
।
य
ए॑वं
वे॒द
॥
प्रत्यगानन्दं
ब्रह्म
पुरुषं
प्रणव॑स्वरू॒पम्
।
अकार
उकार
मका॑र
इ॒ति
।
तानेकधा
समभरत्तदेत॑दोमि॒ति
।
यमुक्त्वा॑
मुच्य॑ते
यो॒गी॒
ज॒न्म॒संसा॑रब॒न्धनात्
।
ओं
नमो
नारायणायेति
म॑न्त्रोपा॒सकः
।
वैकुण्ठभुवनलोकं॑
गमि॒ष्यति
।
तदिदं
परं
पुण्डरीकं
वि॑ज्ञान॒घनम्
।
तस्मात्तदिदा॑वन्मा॒त्रम्
।
ब्रह्मण्यो
देव॑कीपु॒त्रो॒
ब्रह्मण्यो
म॑धुसू॒दनोम्
।
सर्वभूतस्थमेकं॑
नारा॒यणम्
।
कारणरूपमकार
प॑रब्र॒ह्मोम्
।
एतदथर्व
शिरो॑योऽधी॒ते
प्रा॒तर॑धीया॒नो॒
रात्रिकृतं
पापं॑
नाश॒यति
।
सा॒यम॑धीया॒नो॒
दिवसकृतं
पापं॑
नाश॒यति
।
माध्यन्दिनमादित्याभिमुखो॑ऽधीया॒न॒:पञ्चपातकोपपातका᳚त्प्रमु॒च्यते
।
सर्व
वेद
पारायण
पु॑ण्यं
ल॒भते
।
नारायणसायुज्यम॑वाप्नो॒ति॒
नारायण
सायुज्यम॑वाप्नो॒ति
।
य
ए॑वं
वे॒द
।
इत्यु॑प॒निष॑त्
॥
ओं
स॒ह
ना॑ववतु
।
स॒ह
नौ॑
भुनक्तु
।
स॒ह
वी॒र्यं॑
करवावहै
।
ते॒ज॒स्विना॒वधी॑तमस्तु॒
मा
वि॑द्विषा॒वहै᳚
॥
ओं
शान्ति॒:
शान्ति॒:
शान्ति॑:
॥