हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
नारायण सूक्तम्
ओं
स॒ह
ना॑ववतु
।
स॒ह
नौ॑
भुनक्तु
।
स॒ह
वी॒र्यं॑
करवावहै
।
ते॒ज॒स्विना॒वधी॑तमस्तु॒
मा
वि॑द्विषा॒वहै᳚
॥
ओं
शान्ति॒:
शान्ति॒:
शान्ति॑:
॥
स॒ह॒स्र॒शीर्॑षं
दे॒वं॒
वि॒श्वाक्षं॑
वि॒श्वश॑म्भुवम्
।
विश्वं॑
ना॒राय॑णं
दे॒व॒म॒क्षरं॑
पर॒मं
प॒दम्
।
वि॒श्वत॒:
पर॑मान्नि॒त्यं॒
वि॒श्वं
ना॑राय॒णग्ं
ह॑रिम्
।
विश्व॑मे॒वेदं
पुरु॑ष॒स्तद्विश्व॒मुप॑जीवति
।
पतिं॒
विश्व॑स्या॒त्मेश्व॑र॒ग्ं॒
शाश्व॑तग्ं
शि॒वम॑च्युतम्
।
ना॒राय॒णं
म॑हाज्ञे॒यं॒
वि॒श्वात्मा॑नं
प॒राय॑णम्
।
ना॒राय॒ण
प॑रो
ज्यो॒ति॒रा॒त्मा
ना॑राय॒णः
प॑रः
।
ना॒राय॒ण
प॑रं
ब्र॒ह्म॒
त॒त्त्वं
ना॑राय॒णः
प॑रः
।
ना॒राय॒ण
प॑रो
ध्या॒ता॒
ध्या॒नं
ना॑राय॒णः
प॑रः
।
यच्च॑
कि॒ञ्चिज्ज॑गत्स॒र्वं॒
दृ॒श्यते᳚
श्रूय॒तेऽपि॑
वा
॥
अन्त॑र्ब॒हिश्च॑
तत्स॒र्वं॒
व्या॒प्य
ना॑राय॒णः
स्थि॑तः
।
अन॑न्त॒मव्य॑यं
क॒विग्ं
स॑मु॒द्रेऽन्तं॑
वि॒श्वश॑म्भुवम्
।
प॒द्म॒को॒श
प्र॑तीका॒श॒ग्ं॒
हृ॒दयं॑
चाप्य॒धोमु॑खम्
।
अधो॑
नि॒ष्ट्या
वि॑तस्त्या॒न्ते॒
ना॒भ्यामु॑परि॒
तिष्ठ॑ति
।
ज्वा॒ल॒मा॒लाकु॑लं
भा॒ती॒
वि॒श्वस्या॑यत॒नं
म॑हत्
।
सन्त॑तग्ं
शि॒लाभि॑स्तु॒
लम्ब॑त्याकोश॒सन्नि॑भम्
।
तस्यान्ते॑
सुषि॒रग्ं
सू॒क्ष्मं
तस्मिन्᳚
स॒र्वं
प्रति॑ष्ठितम्
।
तस्य॒
मध्ये॑
म॒हान॑ग्निर्वि॒श्वार्चि॑र्वि॒श्वतो॑मुखः
।
सोऽग्र॑भु॒ग्विभ॑जन्ति॒ष्ठ॒न्नाहा॑रमज॒रः
क॒विः
।
ति॒र्य॒गू॒र्ध्वम॑धश्शा॒यी॒
र॒श्मय॑स्तस्य॒
सन्त॑ता
।
स॒न्ता॒पय॑ति
स्वं
दे॒हमापा॑दतल॒मस्त॑कः
।
तस्य॒
मध्ये॒
वह्नि॑शिखा
अ॒णीयो᳚र्ध्वा
व्य॒वस्थि॑तः
।
नी॒लतो॑यद॑मध्य॒स्था॒द्वि॒द्युल्ले॑खेव॒
भास्व॑रा
।
नी॒वार॒शूक॑वत्त॒न्वी॒
पी॒ता
भा᳚स्वत्य॒णूप॑मा
।
तस्या᳚:
शिखा॒या
म॑ध्ये
प॒रमा᳚त्मा
व्य॒वस्थि॑तः
।
स
ब्रह्म॒
स
शिव॒:
स
हरि॒:
सेन्द्र॒:
सोऽक्ष॑रः
पर॒मः
स्व॒राट्
॥
ऋ॒तग्ं
स॒त्यं
प॑रं
ब्र॒ह्म॒
पु॒रुषं॑
कृष्ण॒पिङ्ग॑लम्
।
ऊ॒र्ध्वरे॑तं
वि॑रूपा॒क्षं॒
वि॒श्वरू॑पाय॒
वै
नमो॒
नम॑:
।
ओं
ना॒रा॒य॒णाय॑
वि॒द्महे॑
वासुदे॒वाय॑
धीमहि
।
तन्नो॑
विष्णुः
प्रचो॒दया᳚त्
॥
ओं
शान्ति॒:
शान्ति॒:
शान्ति॑:
॥