Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

महानारायणोपनिषत्

ह॒रि॒: ओम् शं नो॑ मि॒त्रः शं वरु॑णः शं नो॑ भवत्वर्य॒मा शं न॒ इन्द्रो॒ बृह॒स्पति॑: शं नो॒ विष्णु॑रुरुक्र॒मः नमो॒ ब्रह्म॑णे नम॑स्ते वायो त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि त्वामे॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि ऋ॒तं व॑दिष्यामि स॒त्यं व॑दिष्यामि तन्माम॑वतु तद्वक्तार॑मवतु॒ अव॑तु॒ माम् अव॑तु व॒क्तार᳚म् ओं शान्ति॒: शान्ति॒: शान्ति॑: ओं स॒ह ना॑ववतु स॒ह नौ॑ भunक्तु स॒ह वी॒र्यं॑ करवावहै ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ओं शान्ति॒: शान्ति॒: शान्ति॑: प्रथमोऽनुवाकः अम्भ॑स्यपा॒रे भुव॑नस्य॒ मध्ये॒ नाक॑स्य पृ॒ष्ठे म॑ह॒तो मही॑यान् शु॒क्रेण॒ ज्योतीग्ं॑षि समनु॒प्रवि॑ष्टः प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः 1 यस्मि॑न्नि॒दग्ं सं च॒ वि चैति॒ सर्वं॒ यस्मि॑न् दे॒वा अधि॒ विश्वे॑ निषे॒दुः तदे॒व भू॒तं तदु॒ भव्य॑मा इ॒दं तद॒क्षरे॑ पर॒मे व्यो॑मन् 2 येना॑वृ॒तं खं च॒ दिवं॑ म॒हीं च॒ येना॑दि॒त्यस्तप॑ति॒ तेज॑सा॒ भ्राज॑सा यम॒न्तः स॑मु॒द्रे क॒वयो॒ वय॑न्ति॒ यद॒क्षरे॑ पर॒मे प्र॒जाः 3 यत॑: प्रसू॒ता ज॒गत॑: प्रसूती॒ तोये॑न जी॒वान् व्यच॑सर्ज॒ भूम्या॑म् यदोष॑धीभिः पु॒रुषा᳚न् प॒शूग्ंश्च॒ विवेश॑ भू॒तानि॑ चराच॒राणि॑ 4 अतः परं॒ नान्य॒दणी॑यसग्ं हि॒ परा॑त्परं॒ यन्मह॑तो म॒हान्त॑म् यदे॑कम॒व्यक्त॒मन॑न्तरूपं॒ विश्वं॑ पुरा॒णं तम॑स॒: पर॑स्तात् 5 तदे॒वर्तं तदु॑ स॒त्यमा॑हु॒स्तदे॒व ब्रह्म॑ पर॒मं क॑वी॒नाम् इ॒ष्टा॒पू॒र्तं ब॑हु॒धा जा॒तं जाय॑मानं वि॒श्वं बि॑भर्ति॒ भुव॑नस्य॒ नाभि॑: 6 तदे॒वाग्निस्तद्वा॒युस्तत्सूर्य॒स्तदु॑ चन्द्रमा᳚: तदे॒व शु॒क्रम॒मृतं॒ तद्ब्रह्म॒ तदाप॒: स॒ प्र॒जाप॑तिः 7 सर्वे॑ निमे॒षा ज॒ज्ञिरे॑ वि॒द्युत॒: पुरु॑षा॒दधि॑ क॒ला मु॑हू॒र्ताः काष्ठा᳚श्चाहोरा॒त्राश्च॑ सर्व॒शः 8 अ॒र्ध॒मा॒सा मासा॑ ऋ॒तव॑: संवत्स॒रश्च॑ कल्पन्ताम् आप॑: प्रदु॒घे उ॒भे इ॒मे अ॒न्तरि॑क्ष॒मथो॒ सुव॑: 9 नैन॑मू॒र्ध्वं ति॒र्यञ्चं॒ मध्ये॒ परि॑जग्रभत् तस्ये॑शे॒ कश्च॒न तस्य नाम म॒हदयश॑: 10 स॒न्दृशे॑ तिष्ठति॒ रूप॑मस्य॒ चक्षु॑षा पश्यति॒ कश्च॒नैन᳚म् हृ॒दा म॑नी॒षा मन॑सा॒भिक्लृ॑प्तो॒ ए॑नं वि॒दुरमृ॑ता॒स्ते भ॑वन्ति 11 (हिरण्यगर्भ सूक्त) अ॒द्भ्यः सम्भू॑तो हिरण्यग॒र्भ इत्य॒ष्टौ अ॒द्भ्यः सम्भू॑तः पृथि॒व्यै रसा॑च्च वि॒श्वक॑र्मण॒: सम॑व॒र्तताधि॑ तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति तत्पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रे᳚ 1 वेदा॒हमे॒तं पुरु॑षं म॒हान्त॑म् आ॒दि॒त्यव॑र्णं॒ तम॑स॒: पर॑स्तात् तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति 2 नान्यः पन्था॑ विद्य॒तेय॑ऽनाय प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः अ॒जाय॑मानो बहु॒था विजायते तस्य॒ धीरा॒: परि॑जानन्ति॒ योनि॑म् मरी॑चीनां प॒दमि॑च्छन्ति वे॒धस॑: 3 यो दे॒वेभ्य॒ आत॑पति यो दे॒वानां᳚ पु॒रोहि॑तः पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः नमो॑ रु॒चाय॒ ब्राह्म॑ये 4 रुचं॑ ब्रा॒ह्मं ज॒नय॑न्तः दे॒वा अग्रे॒ तद॑ब्रुवन् यस्त्वै॒वं ब्रा॑ह्म॒णो वि॒द्यात् तस्य॑ दे॒वा अस॒न् वशे॑ ह्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्यौ॑ अ॒हो॒रा॒त्रे पा॒र्श्वे नक्ष॑त्राणि रू॒पम् अ॒श्विनौ॒ व्यात्त॑म् इ॒ष्टं म॑निषाण अ॒मुं म॑निषाण सर्वं॑ मनिषाण (इति उत्तरनारायणानुवाकः) हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम 1 यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ ईशे अ॒स्य द्वि॒पद॒श्चतु॑ष्पद॒: कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम 2 आ॑त्म॒दा ब॑ल॒न्दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम 3 यस्ये॒मे हि॒मव॑न्तो महि॒त्वा यस्य॑ समु॒द्रग्ं रसया॑ स॒हाहुः यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम 4 यं क्रन्द॑सी॒ अव॑सा तस्तभा॒ने अ॒स्यैक्षे॑तां॒ मन॑सा॒ रेज॑माने यत्राधि॒ सूर॒ उदि॑तौ॒ व्येति॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम 5 येन॒ द्यौरु॒ग्रा पृ॑थि॒वी च॑ दृढे॒ येन॒ सुव॑: स्तभि॒तं येन॒ नाक॑: यो अ॒न्तरि॑क्षे॒ रज॑सो वि॒मान॒: कस्मै॑ दे॒वाय ह॒विषा॑ विधेम 6 आपो॑ ह॒ यन्म॑ह॒तीर्विश्व॒मायं॒ दक्षं॒ दधाना ज॒नय॑न्तीर॒ग्निम् ततो॑ दे॒वानां॒ निर॑वर्त॒तासु॒रेक॒: कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम 7 यश्चि॒दापो॑ महि॒ना प॒र्यप॑श्य॒द्दक्षं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निम् यो दे॒वेष्वधि॑ दे॒व ए॒क आसी॒त् कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम 8 ए॒ष हि दे॒वः प्र॒दिशोऽनु॒ सर्वा॒: पूर्वो॑ हि जा॒तः उ॒ गर्भे॑ अ॒न्तः वि॒जाय॑मानः जनि॒ष्यमा॑णः प्र॒त्यङ्मुखा᳚स्तिष्ठति वि॒श्वतो॑मुखः 12 वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑ मुखो वि॒श्वतो॑ हस्त उ॒त वि॒श्वत॑स्पात् सं बा॒हुभ्यां नम॑ति॒ सं पत॑त्रैर्द्यावा॑पृथि॒वी ज॒नय॑न् दे॒व एक॑: 13 वे॒नस्तत् पश्य॒न् विश्वा॒ भुव॑नानि वि॒द्वान् यत्र॒ विश्वं॒ भव॒त्येक॑नीडम् यस्मि॑न्नि॒दग्ंसं च॒ वि चैक॒ग्ंस ओतः प्रोत॑श्च वि॒भुः प्र॒जासु॑ 14 प्र तद्वो॑चे अ॒मृतं॒ नु वि॒द्वान् ग॑न्ध॒र्वो नाम॒ निहि॑तं॒ गुहा॑सु त्रीणि॑ प॒दा निहि॑ता॒ गुहा॑सु॒ यस्तद्वेद॑ सवि॒तुः पि॒ता स॑त् 15 नो॒ बन्धु॑र्जनि॒ता वि॑धा॒ता धामा॑नि॒ वेद॒ भुव॑नानि॒ विश्वा᳚ यत्र॑ दे॒वा अ॒मृत॑मानशा॒नास्तृ॒तीये॒ धामा᳚न्य॒भ्यैर॑यन्त 16 परि॒ द्यावा॑पृथि॒वी य॑न्ति स॒द्यः परि॑ लो॒कान् परि॒ दिश॒: परि॒ सुव॑: ऋ॒तस्य॒ तन्तुं॑ विततं वि॒चृत्य॒ तद॑पश्य॒त् तद॑भवत् प्र॒जासु॑ 17 प॒रीत्य॑ लो॒कान् प॒रीत्य॑ भू॒तानि॑ प॒रीत्य॒ सर्वा᳚: प्र॒दिशो॒ दिश॑श्च प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्या॒त्मना॒त्मान॑म॒भिसम्बभूव 18 सद॑स॒स्पति॒मद्भु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य᳚म् सनिं॑ मे॒धाम॑यासिषम् 19 उद्दी᳚प्यस्व जातवेदोऽप॒घ्नन्निरृ॑तिं॒ मम॑ प॒शूग्ंश्च॒ मह्य॒माव॑ह॒ जीव॑नं च॒ दिशो॑ दिश 20 मा नो॑ हिग्ंसीज्जातवेदो॒ गामश्वं॒ पुरु॑षं॒ जग॑त् अबि॑भ्र॒दग्न॒ आग॑हि श्रि॒या मा॒ परि॑पातय 21 पुरु॑षस्य विद्म सहस्रा॒क्षस्य॑ महादे॒वस्य॑ धीमहि तन्नो॑ रुद्रः प्रचो॒दया᳚त् 22 गायत्र्याः तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि तन्नो॑ रुद्रः प्रचो॒दया᳚त् 23 तत्पुरु॑षाय वि॒द्महे॑ वक्रतु॒ण्डाय॑ धीमहि तन्नो॑ दन्तिः प्रचो॒दया᳚त् 24 तत्पुरु॑षाय वि॒द्महे॑ चक्रतु॒ण्डाय॑ धीमहि तन्नो॑ नन्दिः प्रचो॒दया᳚त् 25 तत्पुरु॑षाय वि॒द्महे॑ महासे॒नाय॑ धीमहि तन्नः षण्मुखः प्रचो॒दया᳚त् 26 तत्पुरु॑षाय वि॒द्महे॑ सुवर्णप॒क्षाय॑ धीमहि तन्नो॑ गरुडः प्रचो॒दया᳚त् 27 वे॒दा॒त्म॒नाय॑ वि॒द्महे॑ हिरण्यग॒र्भाय॑ धीमहि तन्नो॑ ब्रह्म प्रचो॒दया᳚त् 28 ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि तन्नो॑ विष्णुः प्रचो॒दया᳚त् 29 व॒ज्र॒न॒खाय॑ वि॒द्महे॑ तीक्ष्णद॒ग्ंष्ट्राय॑ धीमहि तन्नो॑ नारसिग्ंहः प्रचो॒दया᳚त् 30 भा॒स्क॒राय॑ वि॒द्महे॑ महद्द्युतिक॒राय॑ धीमहि तन्नो॑ आदित्यः प्रचो॒दया᳚त् 31 वै॒श्वा॒न॒राय॑ वि॒द्महे॑ लाली॒लाय धीमहि तन्नो॑ अग्निः प्रचो॒दया᳚त् 32 का॒त्या॒य॒नाय॑ वि॒द्महे॑ कन्यकु॒मारि॑ धीमहि तन्नो॑ दुर्गिः प्रचो॒दया᳚त् 33 स॒ह॒स्र॒पर॑मा दे॒वी॒ श॒तमू॑ला श॒ताङ्कु॑रा स॒र्वग्ंहरतु॑ मे पा॒पं॒ दू॒र्वा दु॑:स्वप्न॒नाशि॑नी 34 काण्डा᳚त् काण्डात् प्र॒रोह॑न्ती॒ परु॑षः परुष॒: परि॑ ए॒वा नो॑ दूर्वे॒ प्रत॑नु स॒हस्रे॑ण श॒तेन॑ 35 या श॒तेन॑ प्रत॒नोषि॑ स॒हस्रे॑ण वि॒रोह॑सि तस्या॑स्ते देवीष्टके वि॒धेम॑ ह॒विषा॑ व॒यम् 36 अश्वक्रा॒न्ते र॑थक्रा॒न्ते॒ वि॒ष्णुक्रा᳚न्ते व॒सुन्ध॑रा शिरसा॑ धार॑यिष्या॒मि॒ र॒क्ष॒स्व मां᳚ पदे॒ पदे 37 भूमिर्धेनुर्धरणी लोक॑धा॒रिणी उ॒द्धृता॑सि व॑राहे॒ण॒ कृ॒ष्णे॒न श॑तबा॒हुना 38 मृ॒त्तिके॑ हन॑ पा॒पं॒ य॒न्म॒या दु॑ष्कृतं॒ कृतम् मृत्तिके᳚ ब्रह्म॑दत्ता॒सि॒ का॒श्यपे॑नाभि॒मन्त्रि॑ता मृ॒त्तिके॑ देहि॑ मे पु॒ष्टिं॒ त्व॒यि सर्वं॑ प्र॒तिष्ठि॑तम् 39 मृ॒त्तिके᳚ प्रतिष्ठि॑ते स॒र्वं॒ त॒न्मे नि॑र्णुद॒ मृत्ति॑के त्वया॑ ह॒तेन॑ पापे॒न॒ ग॒च्छा॒मि प॑रमां॒ गतिम् 40 यत॑ इन्द्र॒ भया॑महे॒ ततो॑ नो॒ अभ॑यं कृधि मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तये॒ विद्विषो॒ विमृधो᳚ जहि 41 स्व॒स्ति॒दा वि॒शस्पति॑र्वृत्र॒हा विमृधो॑ व॒शी वृषेन्द्र॑: पु॒र ए॑तु नः स्वस्ति॒दा अ॑भयङ्क॒रः 42 स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृहस्पति॑र्दधातु 43 आपा᳚न्तमन्युस्तृ॒पल॑प्रभर्मा॒ धुनि॒: शिमी॑वा॒ञ्छरुमा॑ग्ंऋजी॒षी सोमो॒ विश्वा᳚न्यत॒सावना॑नि॒ नार्वागिन्द्रं॑ प्रति॒माना॑नि देभुः 44 ब्रह्म॑जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ विव॑: 45 स्यो॒ना पृ॑थिवि॒ भवा॑ नृक्ष॒रा नि॒वेश॑नी यच्छा॑ न॒: शर्म॑ स॒प्रथा᳚: 46 ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् ई॒श्वरीग्ं॑ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् 47 श्री᳚र्मे भ॒जतु अलक्ष्मी᳚र्मे न॒श्यतु विष्णु॑मुखा॒ वै दे॒वाश्छन्दो॑भिरि॒मां॑ल्लो॒कान॑नपज॒य्यम॒भ्य॑जयन् म॒हाग्ं इन्द्रो॒ वज्र॑बाहुः षोड॒शी शर्म॑ यच्छतु 48 स्व॒स्ति नो॑ म॒घवा॑ करोतु॒ हन्तु॑ पा॒प्मानं॒ यो᳚ऽस्मान् द्वेष्टि॑ 49 सो॒मान॒ग्ं स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते क॒क्षीव॑न्तं॒ औ॑शि॒जम् शरी॑रं यज्ञशम॒लं कुसी॑दं तस्मि᳚न्त्सीदतु॒ यो᳚ऽस्मान् द्वेष्टि॑ 50 चर॑णं प॒वित्रं॒ वित॑तं पुरा॒णं येन॑ पू॒तस्तर॑ति दुष्कृ॒तानि॑ तेन॑ प॒वित्रे॑ण शु॒द्धेन॑ पू॒ता अति॑ पा॒प्मान॒मरा॑तिं तरेम 51 स॒जोषा॑ इन्द्र सग॑णो म॒रुद्भि॒: सोमं॑ पिब वृत्रहञ्छूर वि॒द्वान् ज॒हि श॒त्रू॒ग्ंरप॒ मृधो॑ नुद॒स्वाथाभ॑यं कृणुहि वि॒श्वतो॑ नः 52 सु॒मि॒त्रा न॒ आप॒ ओष॑धयः सन्तु दुर्मि॒त्रास्तस्मै॑ भूयासु᳚र्योऽस्मान् द्वेष्टि॒ यं च॑ वयं द्वि॒ष्मः 53 आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन म॒हेरणा॑य॒ चक्ष॑से यो व॑: शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ऽह न॑: उ॒श॒तीरि॑व मा॒त॑रः तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ आपो॑ ज॒नय॑था नः 54 हिर॑ण्यशृङ्गं॒ वरु॑णं॒ प्रप॑द्ये ती॒र्थ मे॑ देहि॒ याचि॑तः य॒न्मया॑ भु॒क्तम॒साधू॑नां पा॒पेभ्य॑श्च प्र॒तिग्र॑हः 55 यन्मे॒ मन॑सा वा॒चा॒ क॒र्म॒णा वा दु॑ष्कृतं॒ कृतम् तन्न॒ इन्द्रो॒ वरु॑णो॒ बृह॒स्पति॑: सवि॒ता च॑ पुनन्तु॒ पुन॑: पुनः 56 नमो॒ऽग्नये᳚ऽप्सु॒मते॒ नम॒ इन्द्रा॑य॒ नमो॒ वरु॑णाय॒ नमो वारुण्यै᳚ नमो॒ऽद्भ्यः 57 यद॒पां क्रू॒रं यद॑मे॒ध्यं यद॑शा॒न्तं तदप॑गच्छतात् 58 अ॒त्या॒श॒नाद॑तीपा॒ना॒द् य॒च्च उ॒ग्रात् प्र॑ति॒ग्रहा᳚त् तन्मे॒ वरु॑णो रा॒जा॒ पा॒णिना᳚ ह्यव॒मर्श॑तु 59 सो॑ऽहम॑पा॒पो वि॒रजो॒ निर्मु॒क्तो मु॑क्तकिल्बिषः नाक॑स्य पृ॒ष्ठमारु॑ह्य॒ गच्छे॒द्ब्रह्म॑सलो॒कताम् 60 यश्चा॒प्सु वरु॑ण॒: पु॒नात्व॑घमर्ष॒णः 61 इ॒मं मे॑ गङ्गे यमुने सरस्वति॒ शुतु॑द्रि॒ स्तोमग्ं॑ सचता॒ परु॒ष्णिया अ॒सि॒क्नि॒या म॑रुद्वृधे वि॒तस्त॒यार्जी॑कीये शृणु॒ह्या सु॒षोम॑या 62 ऋ॒तं च॑ स॒त्यं चा॒भी᳚द्धा॒त्तप॒सोऽध्य॑जायत ततो॒ रात्रि॑रजायत॒ तत॑: समु॒द्रो अ॑र्ण॒वः 63 स॒मु॒द्राद॑र्ण॒वादधि॑ संवत्स॒रो अजायत अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी 64 सू॒र्या॒च॒न्द्र॒मसौ॑ धा॒ता य॑थापू॒र्वम॑कल्पयत् दिवं॑ पृथि॒वीं चा॒न्तरि॑क्ष॒मथो॒ सुव॑: 65 यत्पृ॑थि॒व्याग्ं रज॑: स्व॒मान्तरि॑क्षे वि॒रोद॑सी इ॒माग्ंस्तदा॒पो व॑रुणः पु॒नात्व॑घमर्ष॒णः पु॒नन्तु॒ वस॑वः पु॒नातु॒ वरु॑णः पु॒नात्व॑घमर्ष॒णः ए॒ष भू॒तस्य॑ म॒ध्ये भुव॑नस्य गो॒प्ता ए॒ष पु॒ण्यकृ॑तां लो॒का॒ने॒ष मृ॒त्योर्हि॑र॒ण्मय᳚म् द्यावा॑पृथि॒व्योर्हिर॒ण्मय॒ग्ं सग्ं श्रि॑त॒ग्ं सुव॑: न॒: सुव॒: सग्ं शि॑शाधि 66 आर्द्रं॒ ज्वल॑ति॒ज्योति॑र॒हम॑स्मि ज्योति॒र्ज्वल॑ति॒ ब्रह्मा॒हमस्मि यो॑ऽहम॑स्मि॒ ब्रह्मा॒हम॑स्मि अ॒हम॑स्मि॒ ब्रह्मा॒हम॑स्मि अ॒हमे॒वाहं मां जु॑होमि॒ स्वाहा᳚ 67 अ॒का॒र्य॒का॒र्य॑वकी॒र्णी स्ते॒नो भ्रू॑ण॒हा गु॑रुत॒ल्पगः वरु॑णो॒ऽपाम॑घमर्ष॒णस्तस्मा॑त् पा॒पात् प्रमु॑च्यते 68 र॒जोभूमि॑स्त्व॒ माग्ं रोद॑यस्व॒ प्रव॑दन्ति॒ धीरा᳚: 69 आक्रा᳚न्त्समु॒द्रः प्रथ॒मे विध॑र्मञ्ज॒नय॑न्प्र॒जा भुव॑नस्य॒ राजा॑ वृषा॑ प॒वित्रे अधि॒ सानो॒ अव्ये॑ बृ॒हत्सोमो॑ वावृधे सुवा॒न इन्दु॑: 70 द्वितीयोऽवानुकः ओं जा॒तवे॑दसे सुनवाम॒ सोम॑ मरातीय॒तो निद॑हाति॒ वेद॑: न॑: पर्‍ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒ताऽत्य॒ग्निः 1 ताम॒ग्निव॑र्णां॒ तप॑सा ज्वल॒न्तीं वै॑रोच॒नीं क॑र्मफ॒लेषु॒ जुष्टा᳚म् दु॒र्गां दे॒वीग्ं शर॑णम॒हं प्रप॑द्ये सु॒तर॑सि तरसे॒ नम॑: 2 अग्ने॒ त्वं॑ पा॑रया॒ नव्यो॑ अ॒स्मान् स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा᳚ पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शम्योः 3 विश्वा॑नि नो दु॒र्गहा॑ जातवेद॒: सिन्धुं॒ ना॒वा दुरि॒ताऽति॑पर्षि अग्ने॑ अत्रि॒वन्मन॑सा गृणा॒नो᳚ऽस्माकं॑ बोध्यवि॒ता त॒नूना᳚म् 4 पृ॒तना॒जित॒ग्ं सह॑मानमु॒ग्रम॒ग्निग्ं हु॑वेम पर॒माथ्स॒धस्था᳚त् न॑: पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॒ क्षाम॑द्देवो॒ अति॑ दुरि॒ताऽत्य॒ग्निः 5 प्र॒त्नोषि॑ क॒मीड्यो॑ अध्व॒रेषु॑ सनाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑ स्वां चा᳚ऽग्ने त॒नुवं॑ पि॒प्रय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒माय॑जस्व 6 गोभि॒र्जुष्ट॑म॒युजो॒ निषि॑क्तं॒ तवे᳚न्द्र विष्णो॒रनु॒सञ्च॑रेम नाक॑स्य पृ॒ष्ठमभि सं॒वसा॑नो॒ वैष्ण॑वीं लो॒क इ॒ह मा॑दयन्ताम् 7 तृतीयोऽनुवाकः भूरन्न॑म॒ग्नये॑ पृथि॒व्यै स्वाहा॒ भुवोऽन्नं॑ वा॒यवे॒ऽन्तरि॑क्षाय॒ स्वाहा॒ सुव॒रन्न॑मादि॒त्याय॑ दि॒वे स्वाहा॒ भूर्भुव॒स्सुव॒रन्नं॑ च॒न्द्रम॑से दि॒ग्भ्यः स्वाहा॒ नमो॑ दे॒वेभ्य॑: स्व॒धा पि॒तृभ्यो॒ भूर्भुव॒: सुवरन्न॒मोम् 1 चतुर्थोऽनुवाकः भूर॒ग्नये॑ पृथि॒व्यै स्वाहा॒ भुवो॑ वा॒यवे॒ऽन्तरि॑क्षाय॒ स्वाहा॒ सुव॑रादि॒त्याय॑ दि॒वे स्वाहा॒ भुर्भुव॒स्सुव॑श्च॒न्द्रम॑से दि॒ग्भ्यः स्वाहा॒ नमो॑ दे॒वेभ्य॑: स्व॒धा पि॒तृभ्यो॒ भूर्भुव॒:सुव॒रग्न॒ ओम् 1 पञ्चमोऽनुवाकः भूर॒ग्नये॑ पृथि॒व्यै च॑ मह॒ते च॒ स्वाहा॒ भुवो॑ वा॒यवे॑ चा॒न्तरि॑क्षाय मह॒ते च॒ स्वाहा॒ सुव॑रादि॒त्याय॑ दि॒वे च॑ मह॒ते च॒ स्वाहा॒ भूर्भुव॒स्सुवश्च॒न्द्रम॑से च॒ नक्ष॑त्रेभ्यश्च दि॒ग्भ्यश्च॑ मह॒ते च॒ स्वाहा॒ नमो॑ देवेभ्य॑: स्व॒धा पि॒तृभ्यो॒ भुर्भुव॒: सुव॒र्मह॒रोम् 1 षष्ठोऽनुवाकः पाहि नो अग्न एन॑से॒ स्वा॒हा पाहि नो विश्ववेद॑से स्वा॒हा यज्ञं पाहि विभाव॑सो स्वा॒हा सर्वं पाहि शतक्र॑तो स्वा॒हा 1 सप्तमोऽनुवाकः पा॒हि नो॑ अग्न॒ एक॑या पा॒ह्यु॑त द्वितीय॑या पा॒ह्यूर्ज॑ तृ॒तीय॑या पा॒हि गी॒र्भिश्च॑तसृभि॑र्वसो॒ स्वाहा᳚ 1 अष्टमोऽनुवाकः यश्छन्द॑सामृष॒भो वि॒श्वरू॑प॒श्छन्दो᳚भ्य॒श्चन्दा॑ग्ंस्यावि॒वेश॑ सताग्ंशिक्यः प्रोवाचो॑पनि॒षदिन्द्रो᳚ ज्ये॒ष्ठ इ॑न्द्रि॒याय॒ ऋषि॑भ्यो॒ नमो॑ दे॒वेभ्य॑: स्व॒धा पि॒तृभ्यो॒ भूर्भुव॒स्सुव॒श्छन्द॒ ओम् 1 नवमोऽनुवाकः नमो॒ ब्रह्म॑णे धारणं॑ मे अ॒स्त्वनि॑राकरणं धा॒रयि॑ता भूयासं॒ कर्ण॑योः श्रु॒तं मा च्यो᳚ढं ममा॒मुष्य॒ ओम् 1 दशमोऽनुवाकः ऋ॒तं तप॑: स॒त्यं तप॑: श्रुतं॒ तप॑: शा॒न्तं तपो॒ दम॒स्तप॒: शम॒स्तपो॒ दानं॒ तपो॒ यज्ञं॒ तपो॒ भूर्भुव॒: सुव॒र्ब्रह्मै॒तदुपा᳚स्वै॒तत्तप॑: 1 एकादशोऽनुवाकः यथा॑ वृ॒क्षस्य॑ स॒म्पुष्पि॑तस्य दू॒राद्‍ग॒न्धो वा᳚त्येवं पुण्य॑स्य क॒र्मणो॑ दू॒रा॒द्‍ग॒न्धो वा॑ति॒ यथा॑सिधा॒रां क॒र्तेऽव॑हितमव॒क्रामे॒ यद्युवे॒ युवे॒ हवा॑ वि॒ह्वयि॑ष्यामि क॒र्तं प॑तिष्या॒मीत्ये॒वम॒मृता॑दा॒त्मानं॑ जु॒गुप्से᳚त् 1 द्वादशोऽनुवाकः अ॒णोरणी॑यान् मह॒तो मही॑याना॒त्मा गुहा॑यां॒ निहि॑तोऽस्य ज॒न्तोः तम॑क्रतुं पश्यति वीतशो॒को धा॒तुः प्र॒सादा᳚न्महि॒मान॑मीशम् 1 स॒प्त प्रा॒णा प्र॒भ॑वन्ति॒ तस्मा᳚त् स॒प्तार्चिष॑: स॒मिध॑: स॒प्त जि॒ह्वाः स॒प्त इ॒मे लो॒का येषु॒ चर॑न्ति प्रा॒णा गु॒हाश॑या॒न्निहि॑ताः स॒प्त स॑प्त 2 अत॑: समु॒द्रा गि॒रयश्च॒ सर्वे॒ऽस्मात्स्यन्द॑न्ते॒ सिन्ध॑व॒: सर्व॑रूपाः अत॑श्च॒ विश्वा॒ ओष॑धयो॒ रसा᳚श्च॒ येनै॑ष भू॒तस्ति॑ष्ठत्यन्तरा॒त्मा 3 ब्र॒ह्मा देवानां᳚ पद॒वीः क॑वी॒नामृषि॒र्विप्रा॑णां महिषो मृ॒गाणा᳚म् श्ये॒नो गृध्रा॑णा॒ग्ंस्वधि॑ति॒र्वना॑नाग्ंसोम॑: प॒वित्र॒मत्ये॑ति॒ रेभन्॑ 4 अ॒जामेकां॒ लोहि॑तशुक्लकृ॒ष्णां ब॒ह्वीं प्र॒जां ज॒नय॑न्ती॒ग्ं सरू॑पाम् अ॒जो ह्येको॑ जु॒षमा॑णोऽनु॒शेते॒ जहा᳚त्ये॒नां भु॒क्तभो॑गा॒मजो᳚ऽन्यः 5 हं॒सः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत् 6 यस्मा᳚ज्जा॒ता प॒रा नैव॒ किञ्च॒नास॒ आ॑वि॒वेश॒ भुव॑नानि॒ विश्वा᳚ प्र॒जाप॑तिः प्र॒जया॑ संविदा॒नस्त्रीणि॒ ज्योती॑ग्ंषि सचते॒ षोड॑शी 6.1 वि॒ध॒र्तारग्ं॑ हवामहे॒ वसो᳚: कु॒विद्व॒नाति॑ नः स॒वि॒तारं॑ नृ॒चक्ष॑सम् 6.2 घृ॒तं मि॑मिक्षिरे घृ॒तम॑स्य॒ योनि॑र्घृ॒ते श्रि॒तो घृ॒तमु॑वस्य॒ धाम॑ अ॒नु॒ष्व॒धमाव॑ह मा॒दय॑स्व॒ स्वाहा॑कृतं वृषभ वक्षि ह॒व्यम् 7 स॒मु॒द्रादू॒र्मिर्मधु॑मा॒ग्ं उदा॑रदुपा॒ग्ंशुना॒ सम॑मृत॒त्वमा॑नट् घृ॒तस्य॒ नाम॒ गुह्यं॒ यदस्ति॑ जि॒ह्वा दे॒वाना॑म॒मृत॑स्य॒ नाभि॑: 8 व॒यं नाम॒ प्रब्र॑वामा घृ॒तेना॒स्मिन् य॒ज्ञे धा॑रयामा॒ नमो॑भिः उप॑ ब्र॒ह्मा शृ॑णवच्छ॒स्यमा॑न॒ चतु॑:शृङ्गोऽवमीद्‍गौ॒र ए॒तत् 9 च॒त्वारि॒ शृङ्गा॒ त्रयो॑ अस्य॒ पादा॒ द्वेशी॒र्षे स॒प्त हस्ता॑सो अ॒स्य त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्या॒ग्ं आवि॑वेश 10 त्रिधा॑ हि॒तं प॒णिभि॑र्गु॒ह्यमा॑नं॒ गवि॑ दे॒वासो॑ घृ॒तमन्व॑विन्दन् इन्द्र॒ एक॒ग्ं सूर्य॒ एकं॑ जजान वे॒नादेकग्ं॑ स्व॒धया॒ निष्ट॑तक्षुः 11 यो दे॒वानां᳚ प्रथ॒मं पु॒रस्ता॒द्विश्वा॒धिको॑ रु॒द्रो म॒हर्षि॑: हि॒र॒ण्य॒ग॒र्भं प॑श्यत॒ जाय॑मान॒ग्ं नो॑ दे॒वः शु॒भया॒स्मृत्या॒ सम्यु॑नक्तु 12 यस्मा॒त्परं नाप॑र॒मस्ति॒ किञ्चि॒त् यस्मा॒न्नाणी॑यो॒ ज्यायो॑ऽस्ति॒ कश्चि॑त् वृ॒क्ष इ॑व स्त॒ब्धो दि॒वि ति॑ष्ठ॒त्येक॒स्तेने॒दं पू॒र्णं पुरु॑षेण॒ सर्वम्᳚ 13 कर्म॑णा प्र॒जया॒ धने॑न॒ त्यागे॑नैके अमृत॒त्वमा॑न॒शुः परे॑ण॒ नाकं॒ निहि॑तं॒ गुहा॑यां बि॒भ्राज॑ते॒ यद्यत॑यो वि॒शन्ति॑ 14 वे॒दा॒न्त॒वि॒ज्ञान॒विनि॑श्चिता॒र्थाः संन्या॑सयो॒गाद्यत॑यः शुद्ध॒सत्त्वा॑: ते ब्र॑ह्मलो॒के तु॒ परान्तकाले॒ परा॑मृता॒: परि॑मुच्यन्ति॒ सर्वे॑ 15 द॒ह्रं॒ वि॒पा॒पं व॒रवे᳚श्मभूत॒ यत् पु॑ण्डरी॒कं पु॒रम॑ध्यस॒ग्ंस्थम् तत्रा॑पि दह्रे ग॒गनं॑ विशोकं तस्मि॑न् यद॒न्तस्तदुपा॑सित॒व्यम् 16 यो वेदादौ स्व॑रः प्रो॒क्तो॒ वेदान्ते॑ प्र॒तिष्ठि॑तः तस्य॑ प्र॒कृति॑लीन॒स्य॒ य॒: पर॑: म॒हेश्व॑रः 17 त्रयोदशोऽनुवाकः स॒ह॒स्र॒शी॑र्षं दे॒वं॒ वि॒श्वाक्षं॑ वि॒श्वश॑म्भुवम् विश्वं॑ ना॒राय॑णं दे॒व॒म॒क्षरं॑ पर॒मं प्र॒भुम् 1 वि॒श्वत॒: पर॑मं नि॒त्य॒ वि॒श्वं ना॑राय॒णग्ं ह॑रिम् विश्व॑मे॒वेदं पुरु॑ष॒स्तद्विश्व॒मुप॑जीवति 2 पतिं॒ विश्व॑स्या॒त्मेश्व॑र॒ग्ं शाश्व॑तग्ं शि॒वम॑च्युतम् ना॒राय॒णं म॑हाज्ञे॒यं॒ वि॒श्वात्मा॑नं प॒राय॑णम् 3 नारा॑य॒णः प॑रं ब्र॒ह्म॒ त॒त्त्वं ना॑राय॒णः प॑रः नारा॑य॒णः प॑रो ज्यो॒ति॒रा॒त्मा ना॑राय॒णः प॑रः 4 (ना॒राय॒णः प॑रो ध्या॒ता॒ ध्या॒नं ना॑राय॒णः प॑रः ) यच्च॑ कि॒ञ्चिज्ज॑गत्य॒स्मि॒न् दृ॒श्यते᳚ श्रूय॒तेऽपि॑ वा अन्त॑र्ब॒हिश्च॑ तत्स॒र्वं॒ व्या॒प्य ना॑राय॒णः स्थि॑तः 5 अन॑न्त॒मव्य॑यं क॒विग्ं स॑मु॒द्रेऽन्तं॑ वि॒श्वश॑म्भुवम् प॒द्म॒को॒शप्र॑तीका॒श॒ग्ं हृ॒दयं॑ चाप्य॒धोमु॑खम् 6 अधो॑ नि॒ष्ट्या वि॑तस्त्या॒न्ते॒ ना॒भ्यामु॑परि॒ तिष्ठ॑ति हृ॒दयं॑ तद्वि॑जानी॒या॒द्वि॒श्वस्या॑यत॒नं म॑हत् 7 सन्त॑तग्ं सि॒राभि॑स्तु॒ लम्ब॑त्याकोश॒सन्नि॑भम् तस्यान्ते॑ सुषि॒रग्ं सू॒क्ष्मं तस्मिन्᳚ स॒र्वं प्रति॑ष्ठितम् 8 तस्य॒ मध्ये॑ म॒हान॑ग्निर्वि॒श्वार्चि॑र्वि॒श्वतो॑मुखः सोऽग्र॑भु॒ग्विभ॑जन्ति॒ष्ठ॒न्नाहा॑रमज॒रः क॒विः 9 (ति॒र्य॒गू॒र्ध्वम॑धःशा॒यी र॒श्मय॑स्तस्य॒ सन्त॑ता ) स॒न्ता॒पय॑ति स्वं दे॒हमापा॑दतल॒मस्त॑कम् तस्य॒ मध्ये॒ वह्नि॑शिखा अ॒णीयो᳚र्ध्वा व्य॒वस्थि॑ता 10 नी॒लतो॑यद॑मध्य॒स्था॒ वि॒द्युल्ले॑खेव॒ भास्व॑रा नी॒वार॒शूक॑वत्त॒न्वी॒ पी॒ता भा᳚स्वत्य॒णूप॑मा 11 तस्या᳚: शिखा॒या म॑ध्ये प॒रमा᳚त्मा व्य॒वस्थि॑तः ब्रह्म॒ शिव॒: (स हरि॒:) सेन्द्र॒: सोऽक्ष॑रः पर॒मः स्व॒राट् 12 चतुर्दशोऽनुवाकः आ॒दि॒त्यो वा ए॒ष ए॒तन्म॒ण्डलं तप॑ति॒ तत्र॒ ता ऋच॒स्तदृ॒चा म॑ण्डल॒ग्ं ऋ॒चां लो॒कोऽथ॒ ए॒ष एतस्मि॑न्म॒ण्डलेऽर्चिर्दी॒प्यते॒ तानि॒ सामा॑नि॒ सा॒म्नां लो॒कोऽथ॒ ए॒ष ए॒तस्मि॑न्म॒ण्डले॒ऽर्चिषि॒ पुरु॑ष॒स्तानि॒ यजू॑ग्ंषि॒ यजु॑षा मण्डल॒ग्ं यजु॑षां लो॒कः सैषा त्र॒य्येव॑ वि॒द्या त॑पति॒ य॑ ए॒षो᳚ऽन्तरा॑दि॒त्ये हि॑र॒ण्मय॒: पुरु॑षः 1 पञ्चदशोऽनुवाकः आ॒दि॒त्यो वै तेज॒ ओजो॒ बलं यश॒श्चक्षु॒: श्रोत्र॑मा॒त्मा मनो म॒न्युर्म॒नु॑र्मृ॒त्युः स॒त्यो मि॒त्रो वा॒युरा॑का॒शः प्रा॒णो लो॑कपा॒लः कः किं कं तत्स॒त्यमन्न॑म॒मृतो॑ जी॒वो विश्व॑: कत॒मः स्वय॒म्भु ब्रह्मै॒तदमृ॑त ए॒ष पुरु॑ष ए॒ष भू॒ताना॒मधि॑पति॒र्ब्रह्म॑ण॒: सायु॑ज्यग्ं सलो॒कता॑माप्नोत्ये॒तासा॑मे॒व दे॒वता॑ना॒ग्ं सायु॑ज्यग्ं सा॒र्ष्टिता॑ग्ं समानलो॒कता॑माप्नोति॒ ए॒वं वेदे᳚त्युप॒निषत् 1 घृणि॒: सूर्य॑ आदि॒त्योम॑र्चयन्ति॒ तप॑: स॒त्यं मधु॑ क्षरन्ति॒ तद्ब्रह्म॒ तदाप॒ आपो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒: सुव॒रोम् 2 षोडशोऽनुवाकः निध॑नपतये॒ नमः निध॑नपतान्तिकाय॒ नमः ऊर्ध्वाय॒ नमः ऊर्ध्वलिङ्गाय॒ नमः हिरण्याय॒ नमः हिरण्यलिङ्गाय॒ नमः सुवर्णाय॒ नमः सुवर्णलिङ्गाय॒ नमः दिव्याय॒ नमः दिव्यलिङ्गाय॒ नमः भवाय॒ नमः भवलिङ्गाय॒ नमः शर्वाय॒ नमः शर्वलिङ्गाय॒ नमः शिवाय॒ नमः शिवलिङ्गाय॒ नमः ज्वलाय॒ नमः ज्वललिङ्गाय॒ नमः आत्माय॒ नमः आत्मलिङ्गाय॒ नमः परमाय॒ नमः परमलिङ्गाय॒ नमः एतत्सोमस्य॑ सूर्य॒स्य॒ सर्वलिङ्ग॑ग्ं स्थाप॒य॒ति॒ पाणिमन्त्रं॑ पवि॒त्रम् 1 सप्तदशोऽनुवाकः स॒द्योजा॒तं प्र॑पद्या॒मि॒ स॒द्योजा॒ताय॒ वै नमो॒ नम॑: भ॒वे भ॑वे॒ नाति॑भवे भवस्व॒ माम् भ॒वोद्भ॑वाय॒ नम॑: 1 अष्टदशोऽनुवाकः वा॒म॒दे॒वाय॒ नमो॑ ज्ये॒ष्ठाय॒ नम॑: श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नम॒: काला॑य॒ नम॒: कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नम॒: सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नम॑: 1 एकोनविंशोऽनुवाकः अ॒घोरे᳚भ्योऽथ॒ घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः स॒र्वत॑: शर्व॒ सर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः 1 विंशोऽनुवाकः तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि तन्नो॑ रुद्रः प्रचो॒दया᳚त् 1 एकविंशोऽनुवाकः ईशानः सर्व॑विद्या॒ना॒मीश्वरः सर्व॑भूता॒नां॒ ब्रह्माऽधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् 1 द्वाविंशोऽनुवाकः नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतय उमापतये पशुपतये॑ नमो॒ नमः 1 त्रयोविंशोऽनुवाकः ऋ॒तग्ं स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिङ्ग॑लम् ऊ॒र्ध्वरे॑तं वि॑रूपा॒क्षं॒ वि॒श्वरू॑पाय॒ वै नमो॒ नम॑: 1 चतुर्विंशोऽनुवाकः सर्वो॒ वै रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु पुरु॑षो॒ वै रु॒द्रः सन्म॒हो नमो॒ नम॑: विश्वं॑ भू॒तं भुव॑नं चि॒त्रं ब॑हु॒धा जा॒तं जाय॑मानं च॒ यत् सर्वो॒ ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु 1 पञ्चविंशोऽनुवाकः कद्रु॒द्राय॒ प्रचे॑तसे मी॒ढुष्ट॑माय॒ तव्य॑से वो॒चेम॒ शन्त॑मग्ं हृ॒दे सर्वो॒ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु 1 षड्विंशोऽनुवाकः यस्य॒ वैक॑ङ्कत्यग्निहोत्र॒हव॑णी भवति॒ (प्रति॑ष्ठिता॒:) प्रत्ये॒वास्याहु॑तयस्तिष्ठ॒न्त्यथो॒ प्रति॑ष्ठित्यै 1 सप्तविंशोऽनुवाकः कृ॒णु॒ष्व पाज॒ इति॒ पञ्च॑ कृ॒णु॒ष्व पाज॒: प्रसि॑तिं॒ पृ॒थ्वीं या॒हि राजे॒वाम॑वा॒ँ इभे॑न तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒नोऽस्ता॑सि॒ विध्य॑ र॒क्षस॒स्तपि॑ष्ठैः 1 तव॑ भ्र॒मास॑ आशु॒या प॑त॒न्त्यनु॑ स्पृश धृष॒ता शोशु॑चानः तपूं॑ष्यग्ने जु॒ह्वा॑ पत॒ङ्गानस॑न्दितो॒ वि सृ॑ज॒ विष्व॑गु॒ल्काः 2 प्रति॒ स्पशो॒ विसृ॑ज॒ तूर्णि॑तमो॒ भवा॑ पा॒युर्वि॒शी अ॒स्या अद॑ब्धः यो नो॑ दू॒रे अ॒घशं॑ सो॒ यो अन्त्यग्ने॒ माकि॑ष्टे॒ व्यथि॒राद॑धर्षीत् 3 उद॑ग्ने तिष्ठ॒ प्रत्या त॑नुष्व॒ न्य॑मित्रा॑ँ ओषतात्तिग्महेते यो नो॒ अरा॑तिं समिधान च॒क्रे नी॒चातं ध॑क्ष्यत॒सं शुष्क॑म् 4 ऊ॒र्ध्वो भ॑व॒ प्रतिं॑ वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्या॑न्यग्ने अव॑स्थि॒रा त॑नुहि यातु॒जूनां॑ जा॒मिमजा॑मिं॒ प्रमृ॑णीहि॒ शत्रू॑न् 5 अष्टाविंशोऽनुवाकः अदि॑तिर्दे॒वा ग॑न्ध॒र्वा म॑नु॒ष्या॑: पि॒तरोऽसु॑रा॒स्तेषाग्ं॑ सर्वभू॒तानां᳚ मा॒ता मे॒दिनी॑ मह॒ती म॒ही सा॑वि॒त्री गा॑य॒त्री जग॑त्यु॒र्वी पृ॒थ्वी ब॑हु॒ला विश्वा॑ भू॒ता क॑त॒मा काया सा स॒त्येत्य॒मृतेति॑ वासि॒ष्ठः 1 एकोनत्रिंशोऽनुवाकः आपो॒ वा इ॒दग्‍ं सर्वं॒ विश्वा॑ भू॒तान्याप॑: प्रा॒णा वा आप॑: प॒शव॒ आपोऽन्न॒मापोऽमृ॑त॒माप॑: स॒म्राडापो॑ वि॒राडाप॑: स्व॒राडाप॒श्छन्दा॒ग्॒‍स्यापो॒ ज्योती॒ग्॒‍ष्यापो॒ यजू॒ग्॒‍ष्याप॑: स॒त्यमाप॒: सर्वा॑ दे॒वता॒ आपो॒ भूर्भुव॒: सुव॒राप॒ ओम् 1 त्रिंशोऽनुवाकः आप॑: पुनन्तु पृथि॒वीं पृथि॒वी पू॒ता पु॑नातु॒ माम् पु॒नन्तु॒ ब्रह्म॑ण॒स्पति॒र्ब्रह्म॑पू॒ता पु॑नातु माम् 1 यदुच्छि॑ष्टमभो᳚ज्यं॒ यद्वा॑ दु॒श्चरि॑तं॒ मम॑ सर्वं॑ पुनन्तु॒ मामापो॑ऽस॒तां च॑ प्रति॒ग्रह॒ग्ं स्वाहा᳚ 2 एकत्रिंशोऽनुवाकः अग्निश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्यः पापेभ्यो॑ रक्ष॒न्ताम् यदह्ना पाप॑मका॒र्षम् मनसा वाचा॑ हस्ता॒भ्याम् पद्भ्यामुदरे॑ण शि॒श्ना अह॒स्तद॑वलु॒म्पतु यत्किञ्च॑ दुरि॒तं मयि॑ इ॒दम॒हं माममृत॑यो॒नौ सत्ये ज्योतिषि जुहो॑मि स्वा॒हा 1 द्वात्रिंशोऽनुवाकः सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्यः पापेभ्यो॑ रक्ष॒न्ताम् यद्रात्रिया पाप॑मका॒र्षम् मनसा वाचा॑ हस्ता॒भ्याम् पद्भ्यामुदरे॑ण शि॒श्ना रात्रि॒स्तद॑वलु॒म्पतु यत्किञ्च॑ दुरि॒तं मयि॑ इ॒दम॒हं माममृत॑यो॒नौ सूर्ये ज्योतिषि जुहो॑मि स्वा॒हा 1 त्रयस्त्रिंशोऽनुवाकः ओमित्येकाक्ष॑रं ब्र॒ह्म अग्निर्देवता ब्रह्म॑ इत्या॒र्षम् गायत्रं छन्दम् परमात्मं॑ सरू॒पम् सायुज्यं वि॑नियो॒गम् 1 चतुस्त्रिंशोऽनुवाकः आया॑तु॒ वर॑दा दे॒वी॒ अ॒क्षरं॑ ब्रह्म॒ संमि॑तम् गा॒य॒त्रीं᳚ छन्द॑सां मा॒ते॒दं ब्र॑ह्म जु॒षस्व॑ नः 1 यदह्ना᳚त्कुरु॑ते पा॒पं॒ तदह्ना᳚त्प्रति॒मुच्य॑ते यद्रात्रिया᳚त्कुरु॑ते पा॒पं॒ तद्रात्रिया᳚त्प्रति॒मुच्य॑ते सर्व॑व॒र्णे म॑हादे॒वि॒ स॒न्ध्यावि॑द्ये स॒रस्व॑ति 2 पञ्चत्रिंशोऽनुवाकः ओजो॑ऽसि॒ सहो॑ऽसि॒ बलम॑सि॒ भ्राजो॑ऽसि दे॒वानां॒ धाम॒नामा॑सि विश्व॑मसि वि॒श्वायु॒: सर्व॑मसि स॒र्वायुरभिभूरोम् गायत्रीमावा॑हया॒मि॒ सावित्रीमावा॑हया॒मि॒ सरस्वतीमावा॑हया॒मि॒ छन्दर्षीनावा॑हया॒मि॒ श्रियमावा॑हया॒मि॒ गा॒यत्रिया गायत्री छन्दो विश्वामित्र ऋषिः सविता देवता अग्निर्मुखं ब्रह्माशिरो विष्णुर्हृदयग्ं रुद्रः शिखा पृथिवी योनिः प्राणापानव्यानोदान समाना सप्राणा श्वेतवर्णा साङ्ख्यायन सगोत्रा गायत्री चतुर्विंशत्यक्षरा त्रिपदा॑ षट्कु॒क्षि॒: पञ्चशीर्षोपनयने वि॑नियो॒ग॒: ओं भूः ओं भुवः ओग्ं सुवः ओं महः ओं जनः ओं तपः ओग्ं सत्यम् ओं तत्स॑वि॒तुर्वरे᳚ण्य॒म् भर्गो॑ दे॒वस्य॑ धीमहि धियो॒ यो न॑: प्रचो॒दया᳚त् ओमापो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒: सुव॒रोम् 2 षट्त्रिंशोऽनुवाकः उ॒त्तमे॑ शिख॑रे जा॒ते॒ भू॒म्यां प॑र्वत॒मूर्ध॑नि ब्राह्मणे᳚भ्योऽभ्य॑नुज्ञा॒ता॒ ग॒च्छ दे॑वि य॒थासु॑खम् 1 स्तुतो मया वरदा वे॑दमा॒ता॒ प्रचोदयन्ती पवने᳚ द्विजा॒ता आयुः पृथिव्यां द्रविणं ब्र॑ह्मव॒र्च॒सं॒ मह्यं दत्वा प्रजातुं ब्र॑ह्मलो॒कम् 2 स्तु॒ता मया॑ वर॒दा वे॑दमा॒ता प्रचो॑दयन्तां पावमा॒नी द्वि॒जाना॑म् आयु॑: प्रा॒णं प्र॒जां प॒शुं की॒र्तिं द्रवि॑णं ब्रह्मवर्च॒सं मह्यं॑ द॒त्वा व्र॑जत ब्रह्मलो॒कम् सप्तत्रिंशोऽनुवाकः घृणि॒: सूर्य॑ आदि॒त्यो प्रभा॑ वा॒त्यक्ष॑रम् मधु॑ क्षरन्ति॒ तद्र॑सम् स॒त्यं वै तद्रस॒मापो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुवः सुव॒रोम् 1 अष्टत्रिंशोऽनुवाकः ब्रह्म॑मेतु॒ माम् मधु॑मेतु॒ माम् ब्रह्म॑मे॒व मधु॑मेतु॒ माम् यास्ते सो॑म प्र॒जा व॒त्सोऽभि॒ सो अ॒हम् दुःष्वप्न॒हन् दु॑रुष्षह यास्ते॑ सोम प्रा॒णाग्ं स्ताञ्जु॑होमि 1 त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात् ब्र॒ह्म॒ह॒त्यां वा ए॒ते घ्न॑न्ति ये ब्रा᳚ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति ते सोमं॒ प्राप्नु॑वन्ति आ॒ स॒ह॒स्रात् प॒ङ्क्तिं पुन॑न्ति ओम् 2 एकोनचत्वारिंशोऽनुवाकः ब्रह्म॑ मे॒धया᳚ मधु॑ मे॒धया᳚ ब्रह्म॑मे॒व मधु॑ मे॒धया᳚ 1 अ॒द्यानो॑ देव सवितः प्र॒जाव॑त्सावी॒: सौभ॑गम् परा᳚ दुःष्वप्नि॑यग्ं सुव 2 विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑सुव यद्भ॒द्रं तन्म॒ आसु॑व मधु॒वाता॑ ऋताय॒ते मधु॑क्षरन्ति॒ सिन्ध॑वः माध्वी᳚र्नः स॒न्त्वौष॑धीः मधु॒ नक्त॑मु॒तोष॑सि॒ मधु॑म॒त्पार्थि॑वग्ं रज॑: मधु॒द्यौर॑स्तु नः पि॒ता मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माग्‍ं अस्तु॒ सूर्य॑: माध्वी॒र्गावो॑ भवन्तु नः यां मे॒धां दे॑वग॒णाः पि॒तर॑श्चो॒पास॑ते तया॒ माम॒द्य मे॒धयाग्ने॑ मे॒धावि॑नं कुरु॒ स्वाहा॑ 1 मे॒धां मे॒ वरु॑णो ददातु मे॒धाम॒ग्निः प्र॒जाप॑तिः मे॒धामिन्द्र॑श्च वा॒युश्च॑ मे॒धां धा॒ता द॑दातु मे॒ स्वाहा॑ 2 त्वं नो॑ मेधे प्रथ॒मा गोभि॒रश्वे॑भि॒राग॑हि त्वं सूर्य॑स्य र॒ष्मिभि॒स्त्वं नो॑ असि य॒ज्ञिया॑ 3 मे॒धाम॒हं प्र॑थ॒मं ब्रह्म॑ण्वतीं॒ ब्रह्म॑जूता॒मृषि॑ष्टुताम् प्रपी॑तां ब्रह्मचा॒रिभि॑र्दे॒वाना॒मव॑से हुवे 4 यां मे॒धामृ॒भवो॑ वि॒दुर्या मे॒धामसु॑रा वि॒दुः ऋष॑यो भ॒द्रां मे॒धां यां वि॒दुस्तां मय्यावे॑शयामसि 5 यामृष॑यो भूत॒कृतो॑ मे॒धां मे॑धा॒विनो॑वि॒दुः तया॒ माम॒द्य मे॒धयाग्ने॑ मेधा॒विनं॑ कृणु 6 मे॒धां सा॒यं मे॒धां प्रा॒तर्मे॒धां म॒ध्यन्दि॑नं॒ परि॑ मे॒धां सूर्य॑स्य र॒ष्मिभि॒र्वच॒सावे॑शयामहे 7 इ॒मं त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात् भ्रूण॒ह॒त्यां वा ए॒ते घ्न॑न्ति ये ब्रा᳚ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति ते सोमं॒ प्राप्नु॑वन्ति आ॒ स॒ह॒स्रा॒त्प॒ङ्क्तिं पुन॑न्ति ओम् 7 चत्वारिंशोऽनुवाकः ब्रह्म॑ मे॒धवा᳚ मधु॑ मे॒धवा᳚ ब्रह्म॑मे॒व मधु॑ मे॒धवा॑ 1 ब्र॒ह्मा दे॒वानां᳚ पद॒वीः क॑वी॒नामृषि॒र्विप्रा॑णां महि॒षो मृ॒गाणा॑म् श्ये॒नो गृद्ध्रा॑णा॒ग्ं स्वधि॑ति॒र्वना॑ना॒ग्ं सोम॑: प॒वित्र॒मत्ये॑ति॒ रेभन्॑ 2 ह॒ग्ंसः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् नृ॒षद्व॑र॒सदृ॑तसद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत् 3 ऋ॒चे त्वा॑ रु॒चे त्वा॒ समित्स्र॑वन्ति स॒रितो॒ धेना᳚: अ॒न्तर्हृ॒दा मन॒सा पू॒यमा॑नाः घृ॒तस्य॒ धारा॑ अ॒भिचा॑कशीमि 4 हि॒र॒ण्ययो॑ वेत॒सो मध्य॑ आसाम् तस्मि᳚न्त्सुप॒र्णो म॑धु॒कृत् कु॑ला॒यी भज॑न्नास्ते॒ मधु॑ दे॒वता᳚भ्यः तस्या॑सते॒ ह॑रयः स॒प्त तीरे᳚ स्व॒धां दुहा॑ना अ॒मृत॑स्य॒ धारा᳚म् 5 इ॒दं त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात् वी॒र॒ह॒त्यां वा ए॒ते घ्न॑न्ति ये ब्रा᳚ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति ते सोमं॒ प्राप्नु॑वन्ति आ॒स॒हस्रात् प॒ङ्क्तिं पुन॑न्ति ओम् 6 एकचत्वारिंशोऽनुवाकः मे॒धादे॒वी जु॒षमाणा न॒ आगा᳚द्वि॒श्वाची॑ भ॒द्रा सु॑मन॒स्यमा॑ना त्वया॒ जुष्टा॑ नु॒दमा॑णा दु॒रुक्ता᳚न्बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा᳚: 1 त्वया॒ जुष्ट॑ ऋ॒षिर्भ॑वति देवि॒ त्वया॒ ब्रह्मा॑ऽऽग॒तश्री॑रु॒त त्वया᳚ त्वया॒ जुष्ट॑श्चि॒त्रं वि॑न्दते॒ वसु॒ सा नो॑ जुषस्व॒ द्रवि॑णो मेधे 2 द्विचत्वारिंशोऽनुवाकः मे॒धां म॒ इन्द्रो॑ ददातु मे॒धां दे॒वी सर॑स्वती मे॒धां मे॑ अ॒श्विना॑वु॒भावाध॑त्तां॒ पुष्क॑रस्रजौ 1 अ॒प्स॒रासु॑ च॒ या मे॒धा ग॑न्ध॒र्वेषु॑ च॒ यन्मन॑: दैवी᳚ मे॒धा सर॑स्वती॒ सा मां᳚ मे॒धा सु॒रभि॑र्जुषता॒ग्॒ स्वाहा᳚ 2 त्रिचत्वारिंशोऽनुवाकः मां᳚ मे॒धा सु॒रभि॑र्वि॒श्वरू॑पा॒ हिर॑ण्यवर्णा॒ जग॑ती जग॒म्या ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒ सा मां᳚ मे॒धा सु॒प्रती॑का जुषन्ताम् 1 चतुश्चत्वारिंशोऽनुवाकः मयि॑ मे॒धां मयि॑ प्र॒जां मय्य॒ग्निस्तेजो॑ दधातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयीन्द्र॑ इन्द्रि॒यं द॑धातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयि॒ सूर्यो॒ भ्राजो॑ दधातु 1 पञ्चचत्वारिंशोऽनुवाकः अपै॑तु मृ॒त्युर॒मृतं॑ न॒ आग॑न्वैवस्व॒तो नो॒ अभ॑यं कृणोतु प॒र्णं वन॒स्पते॑रिवा॒भि न॑: शीयताग्ंर॒यिः सच॑तां न॒: शची॒पति॑: 1 षट्चत्वारिंशोऽनुवाकः परं॑ मृत्यो॒ अनु॒परे॑हि पन्थां॒ यस्ते॒ स्व इत॑रो देव॒याना᳚त् चक्षु॑ष्मते शृण्व॒ते ते᳚ ब्रवीमि॒ मा न॑: प्र॒जाग्ं री॑रिषो॒ मोत वी॒रान् 1 सप्तचत्वारिंशोऽनुवाकः वातं॑ प्रा॒णं मन॑सा॒न्वार॑भामहे प्रजाप॑तिं॒ यो भुव॑नस्य गो॒पाः नो॑ मृत्योस्त्रा॑यतां॒ पात्वग्ंह॑सो॒ ज्योग्जी॒वा ज॒राम॑ शीमहि 1 अष्टचत्वारिंशोऽनुवाकः अ॒मु॒त्र॒भूया॒दध॒ यद्य॒मस्य॒ बृह॑स्पते अ॒भिश॑स्ते॒रमु॑ञ्चः प्रत्यौ॑हताम॒श्विना॑ मृत्युम॑स्मद्दे॒वाना॑मग्ने भि॒षजा॒ शची॑भिः 1 एकोनपञ्चाशोऽनुवाकः हरि॒ग्ं हर॑न्त॒मनु॑यन्ति दे॒वा विश्व॒स्येशा॑नं वृष॒भं म॑ती॒नाम् ब्रह्म॒सरू॑प॒मनु॑ मे॒दमागा॒दय॑नं॒ मा विव॑धी॒र्विक्र॑मस्व 1 पञ्चाशोऽनुवाकः शल्कै॑र॒ग्निमि॑न्धा॒न उ॒भौ लो॒कौ स॑नेम॒हम् उ॒भयो᳚र्लो॒कयो॑रृ॒ध्वाति॑ मृ॒त्युं त॑राम्य॒हम् 1 एकपञ्चाशोऽनुवाकः मा छि॑दो मृत्यो॒ मा व॑धी॒र्मा मे॒ बलं॒ विवृ॑हो॒ मा प्रमो॑षीः प्र॒जां मा मे॑ रीरिष॒ आयुरुग्र नृचक्ष॑सं त्वा ह॒विषा॑ विधेम 1 द्विपञ्चाशोऽनुवाकः मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् मा नो॑ऽवधीः पि॒तरं॒ मोत मा॒तरं॑ प्रि॒या मा न॑स्त॒नुवो॑ रुद्र रीरिषः 1 त्रिपञ्चाशोऽनुवाकः मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः वी॒रान्मा नो॑ रुद्र भामि॒तोऽव॑धीर्ह॒विष्म॑न्तो॒ नम॑सा विधेम ते 1 चतुष्पञ्चाशोऽनुवाकः प्रजा॑पते॒ त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव यत्का॑मस्ते जुहु॒मस्तन्नो॑ अस्तु व॒यग्ं स्या॑म॒ पत॑यो रयी॒णाम् 1 पञ्चपञ्चाशोऽनुवाकः स्व॒स्ति॒दा वि॒शस्पति॑र्वृत्र॒हा विमृधो॑ व॒शी वृषेन्द्र॑: पु॒र ए॑तु नः स्वस्ति॒दा अ॑भयङ्क॒रः 1 षट्पञ्चाशोऽनुवाकः त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता᳚त् 1 सप्तपञ्चाशोऽनुवाकः ये ते॑ स॒हस्र॑म॒युतं॒ पाशा॒ मृत्यो॒ मर्त्या॑य॒ हन्त॑वे तान् य॒ज्ञस्य॑ मायया॒ सर्वा॒नव॑यजामहे 1 अष्टपञ्चाशोऽनुवाकः मृत्यवे॒ स्वाहा॑ मृत्यवे॒ स्वाहा᳚ 1 एकोनषष्टितमोऽनुवाकः दे॒वकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि॒ स्वाहा᳚ म॒नु॒ष्य॑कृत॒स्यैन॑सोऽव॒यज॑नमसि॒ स्वाहा᳚ पि॒तृकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि॒ स्वाहा᳚ आ॒त्मकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि॒ स्वाहा᳚ अ॒न्यकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि॒ स्वाहा᳚ अ॒स्मत्कृ॑त॒स्यैन॑सोऽव॒यज॑नमसि॒ स्वाहा᳚ यद्दि॒वा च॒ नक्तं॒ चैन॑श्चकृ॒म तस्या॑व॒यज॑नमसि॒ स्वाहा᳚ यत्स्व॒प॑न्तश्च॒ जाग्र॑त॒श्चैन॑श्चकृ॒म तस्या॑व॒यज॑नमसि॒ स्वाहा᳚ यत्सु॒षुप्त॑श्च॒ जाग्र॑त॒श्चैन॑श्चकृ॒म तस्या॑व॒यज॑नमसि॒ स्वाहा᳚ यद्वि॒द्वाग्ंसश्चावि॑द्वाग्ंसश्चैन॑श्चकृ॒म तस्या॑व॒यज॑नमसि॒ स्वाहा᳚ एनस एनसोऽवयजनम॑सि स्वा॒हा 1 षष्टितमोऽनुवाकः यद्वो॑ देवाश्चकृ॒म जि॒ह्वया॑ गु॒रु मन॑सो वा॒ प्रयु॑ती देव॒हेड॑नम् अरा॑वा॒ यो नो॑ अ॒भि दु॑च्छुना॒यते॒ तस्मि॒न् तदेनो॑ वसवो॒ निधे॑तन॒ स्वाहा᳚ 1 एकषष्टितमोऽनुवाकः कामोऽकार्षी᳚न्नमो॒ नमः कामोऽकार्षीत्कामः करोति नाहं करोमि कामः कर्ता नाहं कर्ता काम॑: कार॒यिता नाहं॑ कार॒यिता एष ते काम कामा॑य स्वा॒हा 1 द्विषष्टितमोऽनुवाकः मन्युरकार्षी᳚न्नमो॒ नमः मन्युरकार्षीन्मन्युः करोति नाहं करोमि मन्युः कर्ता नाहं कर्ता मन्यु॑: कार॒यिता नाहं॑ कार॒यिता एष ते मन्यो मन्य॑वे स्वा॒हा 1 त्रिषष्टितमोऽनुवाकः तिलाञ्जुहोमि सरसान् सपिष्टान् गन्धार मम चित्ते रम॑न्तु स्वा॒हा 1 गावो हिरण्यं धनमन्नपानग्ं सर्वेषाग्ं श्रि॑यै स्वा॒हा 2 श्रियं लक्ष्मिं पुष्टिं कीर्तिं॑ चानृ॒ण्यताम् ब्राह्मण्यं ब॑हुपु॒त्रताम् श्रद्धामेधे प्रजाः सन्ददा॑तु स्वा॒हा 3 चतुःषष्टितमोऽनुवाकः तिलाः कृष्णास्ति॑लाः श्वे॒ता॒स्तिलाः सौम्या व॑शानु॒गाः तिलाः पुनन्तु॑ मे पा॒पं॒ यत्किञ्चिद् दुरितं म॑यि स्वा॒हा 1 चोर॒स्यान्नं न॑वश्रा॒द्धं॒ ब्र॒ह्म॒हा गु॑रुत॒ल्पगः गोस्तेयग्ं सु॑रापा॒नं॒ भ्रूणहत्या तिला शान्तिग्ं शमय॑न्तु स्वा॒हा 2 श्रीश्च लक्ष्मीश्च पुष्टीश्च कीर्तिं॑ चानृ॒ण्यताम् ब्रह्मण्यं ब॑हुपु॒त्रताम् श्रद्धामेधे प्रज्ञा तु जातवेदः सन्ददा॑तु स्वा॒हा 3 पञ्चषष्टितमोऽनुवाकः प्राणापानव्यानोदानसमाना मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ं स्वाहा᳚ 1 वाङ्मनश्चक्षुःश्रोत्रजिह्वाघ्राणरेतोबुद्ध्याकूतिःसङ्कल्पा मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ं स्वाहा᳚ 2 त्वक्चर्ममांसरुधिरमेदोमज्जास्नायवोऽस्थीनि मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ं स्वाहा᳚ 3 शिरःपाणिपादपार्श्वपृष्ठोरूधरजङ्घाशिश्नोपस्थपायवो मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ं स्वाहा᳚ 4 उत्तिष्ठ पुरुष हरित पिङ्गल लोहिताक्षि देहि देहि ददापयिता मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ं स्वाहा᳚ 5 षट्षष्टितमोऽनुवाकः पृथिव्यप्तेजोवायुराकाशा मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ं स्वाहा᳚ 1 शब्दस्पर्शरूपरसगन्धा मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ं स्वाहा᳚ 2 मनोवाक्कायकर्माणि मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ं स्वाहा᳚ 3 अव्यक्तभावैर॑हङ्का॒रै॒- र्ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ं स्वाहा᳚ 4 आत्मा मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ं स्वाहा᳚ 5 अन्तरात्मा मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ं स्वाहा᳚ 6 परमात्मा मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ं स्वाहा᳚ 7 क्षु॒धे स्वाहा᳚ क्षुत्पि॑पासाय॒ स्वाहा᳚ विवि॑ट्यै॒ स्वाहा᳚ ऋग्वि॑धानाय॒ स्वाहा᳚ क॒षो᳚त्काय॒ स्वाहा᳚ ओं स्वाहा᳚ 8 क्षु॒त्पि॒पा॒साम॑लां ज्ये॒ष्ठा॒मलक्ष्मीर्नाश॑या॒म्यहम् अभू॑तिमस॑मृद्धिं॒ च॒ सर्वान्नि॑र्णुद मे पाप्मा॑नग्ं स्वा॒हा 9 अन्नमयप्राणमयमनोमयविज्ञानमयमानन्दमयमात्मा मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ं स्वाहा᳚ 10 सप्तषष्टितमोऽनुवाकः अ॒ग्नये॒ स्वाहा᳚ विश्वे᳚भ्यो दे॒वेभ्य॒: स्वाहा᳚ ध्रु॒वाय॑ भू॒माय॒ स्वाहा᳚ ध्रु॒व॒क्षित॑ये स्वाहा᳚ अ॒च्यु॒त॒क्षित॑ये॒ स्वाहा᳚ अ॒ग्नये᳚ स्विष्ट॒कृते॒ स्वाहा᳚ धर्मा॑य॒ स्वाहा᳚ अध॑र्माय॒ स्वाहा᳚ अ॒द्भ्यः स्वाहा᳚ ओ॒ष॒धि॒व॒न॒स्प॒तिभ्य॒: स्वाहा᳚ र॒क्षो॒दे॒व॒ज॒नेभ्य॒: स्वाहा᳚ गृह्याभ्य॒: स्वाहा᳚ अ॒व॒साने᳚भ्य॒: स्वाहा᳚ अ॒व॒सान॑पतिभ्य॒: स्वाहा᳚ स॒र्व॒भू॒तेभ्य॒: स्वाहा᳚ कामा॑य॒ स्वाहा᳚ अ॒न्तरि॑क्षाय॒ स्वाहा᳚ यदेज॑ति॒ जग॑ति॒ यच्च॒ चेष्ट॑ति॒ नाम्नो॑ भा॒गोऽयं नाम्ने॒ स्वाहा᳚ पृ॒थि॒व्यै स्वाहा᳚ अ॒न्तरि॑क्षाय॒ स्वाहा᳚ दि॒वे स्वाहा᳚ सूर्या॑य॒ स्वाहा᳚ च॒न्द्रम॑से॒ स्वाहा᳚ नक्ष॑त्रेभ्य॒: स्वाहा᳚ इन्द्रा॑य॒ स्वाहा᳚ बृह॒स्पत॑ये॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा᳚ ब्रह्म॑णे॒ स्वाहा᳚ स्व॒धा पि॒तृभ्यः स्वाहा᳚ नमो॑ रु॒द्राय॑ पशुपत॑ये॒ स्वाहा᳚ दे॒वेभ्य॒: स्वाहा᳚ पि॒तृभ्य॑: स्व॒धास्तु॑ भू॒तेभ्यो॒ नम॑: म॒नु॒ष्ये᳚भ्यो॒ हन्ता᳚ प्र॒जाप॑तये॒ स्वाहा᳚ परमेष्ठिने॒ स्वाहा᳚ 1 यथा कू॑पः श॒तधा॑रः स॒हस्र॑धारो॒ अक्षि॑तः ए॒वा मे॑ अस्तु धा॒न्यग्ं स॒हस्र॑धार॒मक्षि॑तम् धन॑धान्यै॒ स्वाहा᳚ 2 ये भू॒ताः प्र॒चर॑न्ति॒ दिवा॒नक्तं॒ बलि॑मि॒च्छन्तो॑ वि॒तुद॑स्य॒ प्रेष्या᳚: तेभ्यो॑ ब॒लिं पु॑ष्टि॒कामो॑ हरामि॒ मयि॒ पुष्टिं॒ पुष्टि॑पतिर्दधातु॒ स्वाहा᳚ 3 अष्टषष्टितमोऽनुवाकः ओं᳚ तद्ब्र॒ह्म ओं᳚ तद्वा॒युः ओं᳚ तदा॒त्मा ओं᳚ तत्स॒त्यं ओं᳚ तत्सर्वम्᳚ ओं᳚ तत्पुरो॒र्नम॑: 1 ओं अन्तश्चरति॑ भूते॒षु॒ गु॒हायां वि॑श्वमू॒र्तिषु त्वं यज्ञस्त्वं वषट्कारस्त्वमिन्द्रस्त्वग्ं रुद्रस्त्वं विष्णुस्त्वं ब्रह्म त्वं॑ प्रजा॒पतिः त्वं त॑दाप॒ आपो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् 2 एकोनसप्ततितमोऽनुवाकः श्र॒द्धायां᳚ प्रा॒णे निवि॑ष्टो॒ऽमृतं॑ जुहोमि श्रद्धाया॑मपा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि श्र॒द्धायां᳚ व्या॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि श्र॒द्धाया॑मुदा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि श्र॒द्धाया॑ग्ं समा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि ब्रह्म॑णि आ॒त्मामृ॑त॒त्वाय॑ 1 अ॒मृ॒तो॒प॒स्तर॑णमसि 2 श्र॒द्धायां᳚ प्रा॒णे निवि॑ष्टो॒ऽमृतं॑ जुहोमि शि॒वो मा॑ वि॒शाप्र॑दाहाय प्रा॒णाय॒ स्वाहा᳚ श्र॒द्धाया॑मपा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि शि॒वो मा॑ वि॒शाप्र॑दाहाय अ॒पा॒नाय॒ स्वाहा᳚ श्र॒द्धायां᳚ व्या॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि शि॒वो मा॑ वि॒शाप्र॑दाहाय व्या॒नाय॒ स्वाहा᳚ श्र॒द्धा॑यामुदा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि शि॒वो मा॑ वि॒शाप्र॑दाहाय उ॒दा॒नाय॒ स्वाहा᳚ श्र॒द्धाया॑ग्ं समा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि शि॒वो मा॑ वि॒शाप्र॑दाहाय स॒मा॒नाय॒ स्वाहा᳚ ब्रह्म॑णि आ॒त्मामृ॑त॒त्वाय॑ 3 अ॒मृ॒ता॒पि॒धा॒नम॑सि 4 सप्ततितमोऽनुवाकः श्र॒द्धायां᳚ प्रा॒णे निवि॑श्या॒मृत॑ग्ं हु॒तम् प्रा॒णमन्ने॑नाप्यायस्व श्र॒द्धाया॑मपा॒ने निवि॑श्या॒मृत॑ग्ं हु॒तम् अ॒पा॒नमन्ने॑नाप्यायस्व श्र॒द्धायां᳚ व्या॒ने निवि॑श्या॒मृत॑ग्ं हु॒तम् व्या॒नमन्ने॑नाप्यायस्व श्र॒द्धाया॑मुदा॒ने निवि॑श्या॒मृत॑ग्ं हु॒तम् उ॒दा॒नमन्ने॑नाप्यायस्व श्र॒द्धाया॑ग्ं समा॒ने निवि॑श्या॒मृत॑ग्ं हु॒तम् स॒मा॒नमन्ने॑नाप्यायस्व एकसप्ततितमोऽनुवाकः अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठं च॑ समा॒श्रितः ईशः सर्वस्य जगतः प्रभुः प्रीणातु॑ विश्व॒भुक् 1 द्विसप्ततितमोऽनुवाकः वाङ् म॑ आ॒सन् न॒सोः प्रा॒णः अ॒क्ष्योश्चक्षु॑: कर्ण॑यो॒: श्रोत्रम्᳚ बा॒हु॒वोर्बलम्᳚ उ॒रु॒वोरोज᳚: अरि॑ष्टा॒ विश्वा॒न्यङ्गा॑नि त॒नूः त॒नुवा॑ मे स॒ह नम॑स्ते अस्तु॒ मा मा॑ हिग्ंसीः 1 त्रिसप्ततितमोऽनुवाकः वय॑: सुप॒र्णा उप॑सेदु॒रिन्द्रं॑ प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः अप॑ ध्वा॒न्तमू॑र्णु॒हि पू॒र्धि चक्षु॑र्मुमु॒ग्ध्य॑स्मान्नि॒धये॑व ब॒द्धान् 1 चतुःसप्ततितमोऽनुवाकः प्राणानां ग्रन्थिरसि रुद्रो मा॑ विशा॒न्तकः तेनान्नेना᳚प्यायस्व 1 पञ्चसप्ततितमोऽनुवाकः नमो रुद्राय विष्णवे मृत्यु॑र्मे पा॒हि 1 षट्सप्ततितमोऽनुवाकः त्वमग्ने द्युभि॒स्त्वमा॑शुशुक्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ त्वं वने᳚भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचि॑: 1 सप्तसप्ततितमोऽनुवाकः शि॒वेन॑ मे॒ सन्ति॑ष्ठस्व स्यो॒नेन॑ मे॒ सन्ति॑ष्ठस्व सुभू॒तेन॑ मे॒ सन्ति॑ष्ठस्व ब्रह्मवर्च॒सेन॑ मे॒ सन्ति॑ष्ठस्व य॒ज्ञस्यर्द्धि॒मनु॒सन्ति॑ष्ठ॒स्वोप॑ ते यज्ञ॒ नम॒ उप॑ ते॒ नम॒ उप॑ ते॒ नम॑: 1 अष्टसप्ततितमोऽनुवाकः स॒त्यं परं॒ परग्ं॑ स॒त्यग्ं स॒त्येन॒ सु॑व॒र्गाल्लो॒काच्च्य॑वन्ते क॒दाच॒न स॒ताग्ं हि स॒त्यं तस्मा᳚त्स॒त्ये र॑मन्ते 1 तप॒ इति॒ तपो॒ नानश॑ना॒त्परं॒ यद्धि॒ परं तप॒स्तद्॑ दुर्धर्षं तद् दुरा॑धष॒ तस्मा॒त्तप॑सि रमन्ते॒ 2 दम॒ इति॒ निय॑तं ब्रह्मचा॒रिण॒स्तस्मा॒द्दमे॑ रमन्ते॒ 3 शम॒ इत्यर॑ण्ये मु॒नय॒स्तमा॒च्छमे॑ रमन्ते 4 दा॒नमिति॒ सर्वा॑णि भू॒तानि॑ प्रशग्ंस॑न्ति दा॒नान्नाति॑दु॒ष्करं॒ तस्मा᳚द्दा॒ने र॑मन्ते 5 ध॒र्म इति॒ धर्मे॑ण सर्व॑मि॒दं परिगृ॑हीतं ध॒र्मान्नाति॑दुश्चरं॒ तस्मा᳚द्ध॒र्मे र॑मन्ते 6 प्र॒जन॒ इति॒ भूया॑ग्ंस॒स्तस्मा॒त् भूयि॑ष्ठाः प्रजा॑यन्ते॒ तस्मा॒त् भूयि॑ष्ठाः प्र॒जन॑ने रमन्ते॒ 7 अग्नय॒ इत्या॑ह॒ तस्मा॑द॒ग्नय॒ आधा॑तव्याः 8 अग्निहो॒त्रमित्या॑ह॒ तस्मा॑दग्निहो॒त्रे र॑मन्ते 9 य॒ज्ञ इति॑ य॒ज्ञेन॒ हि दे॒वा दिवं॑ ग॒तास्तस्मा᳚द्य॒ज्ञे र॑मन्ते 10 मान॒समिति॑ वि॒द्वाग्ंस॒स्तस्मा᳚द्वि॒द्वाग्ंस॑ ए॒व मा॑न॒से र॑मन्ते 11 न्या॒स इति॑ ब्र॒ह्मा ब्र॒ह्मा हि पर॒: परो॑ हि ब्र॒ह्मा तानि॒ वा ए॒तान्यव॑राणि॒ तपाग्ंसि न्या॒स ए॒वात्य॑रेचय॒त् ए॒वं वेदे᳚त्युप॒निष॑त् 12 एकोनाशीतितमोऽनुवाकः प्रा॒जा॒प॒त्यो हारु॑णिः सुप॒र्णेय॑: प्र॒जाप॑तिं पि॒तर॒मुप॑ससार॒ किं भ॑गव॒न्तः प॑र॒मं व॑द॒न्तीति॒ तस्मै॒ प्रो॑वाच 1 स॒त्येन॑ वा॒युरावा॑ति स॒त्येना॑दि॒त्यो रो॑चते दि॒वि स॒त्यं वा॒चः प्र॑ति॒ष्ठा स॒त्ये स॒र्वं प्रति॑ष्ठितं॒ तस्मा᳚त्स॒त्यं प॑रमं॒ वद॑न्ति॒ 2 तप॑सा दे॒वा दे॒वता॒मग्र॑ आय॒न् तप॒सार्ष॑य॒: सुव॒रन्व॑विन्द॒न् तप॑सा स॒पत्ना॒न्प्रणु॑दा॒माराती॒स्तप॑सि स॒र्वं प्रति॑ष्ठितं॒ तस्मा॒त्तप॑: पर॒मं वद॑न्ति॒ 3 दमे॑न दा॒न्ताः कि॒ल्बिष॑मवधू॒न्वन्ति॒ दमे॑न ब्रह्मचा॒रिण॒: सुव॑रगच्छ॒न् दमो॑ भू॒तानां᳚ दुरा॒धर्षं॒ दमे॑ स॒र्वं प्रति॑ष्ठितं॒ तस्मा॒द्दम॑: प॒रमं वद॑न्ति॒ 4 शमे॑न शा॒न्ताः शि॒वमा॒चर॑न्ति॒ शमे॑न ना॒कं मु॒नयो॒ऽन्ववि॑न्द॒न् शमो॑ भू॒तानां᳚ दुरा॒धर्षं॒ शमे॑ स॒र्वं प्रति॑ष्ठितं तस्मा॒च्छम॑: पर॒मं वद॑न्ति 5 दा॒नं य॒ज्ञानां॒ वरू॑थं॒ दक्षि॑णा लो॒के दा॒तारग्ं॑ सर्वभू॒तान्यु॑पजी॒वन्ति॑ दा॒नेनारा॑ती॒रपा॑नुदन्त दा॒नेन॑ द्विष॒न्तो मि॒त्रा भ॑वन्ति दा॒ने स॒र्वं प्रति॑ष्ठितं॒ तस्मा᳚द्दा॒नं प॑र॒मं वद॑न्ति 6 ध॒र्मो विश्व॑स्य॒ जग॑तः प्रति॒ष्ठा लो॒के ध॒र्मिष्ठ प्र॒जा उ॑पस॒र्पन्ति॑ ध॒र्मेण॑ पा॒पम॑प॒नुद॑ति ध॒र्मे स॒र्वं प्रति॑ष्ठितं॒ तस्मा᳚द्ध॒र्मं प॑र॒मं वद॑न्ति 7 प्र॒जन॑नं॒ वै प्र॑ति॒ष्ठा लो॒के सा॒धु प्र॒जाया᳚स्त॒न्तुं त॑न्वा॒नः पि॑तृ॒णाम॑नु॒णो भव॑ति॒ तदे॑व त॒स्यानृ॑णं॒ तस्मा᳚त् प्र॒जन॑नं पर॒मं वद॑न्ति 8 अ॒ग्नयो॒ वै त्रयी॑ वि॒द्या दे॑व॒यान॒: पन्था॑ गार्हप॒त्य ऋक् पृ॑थि॒वी र॑थन्त॒रम॑न्वाहार्य॒पच॑न॒: यजु॑र॒न्तरि॑क्षं वामदे॒व्यमा॑हव॒नीय॒: साम॑ सुव॒र्गो लो॒को बृ॒हत्तस्मा॑द॒ग्नीन् प॑र॒मं वद॑न्ति 9 अग्निहो॒त्रग्ं सा॑यं प्रा॒तर्गृ॒हाणां॒ निष्कृ॑ति॒: स्वि॑ष्टग्ं सुहु॒तं य॑ज्ञक्रतू॒नां प्राय॑णग्ं सुव॒र्गस्य॑ लो॒कस्य॒ ज्योति॒स्तस्मा॑दग्निहो॒त्रं प॑र॒मं वद॑न्ति 10 य॒ज्ञ इति॑ य॒ज्ञो हि दे॒वानां᳚ य॒ज्ञेन॒ हि दे॒वा दिवं॑ ग॒ता य॒ज्ञेनासु॑रा॒नपा॑नुदन्त य॒ज्ञेन॑ द्विष॒न्तो मि॒त्रा भ॑वन्ति य॒ज्ञे स॒र्वं प्र॑तिष्ठितं॒ तस्मा᳚द्य॒ज्ञं प॑र॒मं वद॑न्ति 11 मान॒सं वै प्रा॑जाप॒त्यं प॒वित्रं॑ मान॒सेन॒ मन॑सा सा॒धु प॑श्यति मन॒सा ऋष॑यः प्र॒जा अ॑सृजन्त मान॒से स॒र्वं प्रति॑ष्ठितं॒ तस्मा᳚न्मान॒सं प॑र॒मं वद॑न्ति 12 न्या॒स इ॒त्याहु॑र्मनी॒षिणो॑ ब्र॒ह्माणं॑ ब्र॒ह्मा विश्व॑: कत॒मः स्व॑यम्भूः प्र॒जाप॑तिः संवत्स॒र इति॑ 13 संवत्स॒रोऽसावा॑दि॒त्यो ए॒ष आ॑दि॒त्ये पुरु॑ष॒: प॑रमे॒ष्ठी ब्रह्मा॒त्मा 14 याभि॑रादि॒त्यस्तप॑ति र॒श्मिभि॒स्ताभि॑: प॒र्जन्यो॑ वर्षति प॒र्जन्ये॑नौषधिवनस्प॒तय॒: प्रजा॑यन्त ओषधिवनस्प॒तिभि॒रन्नं॑ भव॒त्यन्ने॑न प्रा॒णाः प्रा॒णैर्बलं॒ बले॑न॒ तप॒स्तप॑सा श्र॒द्धा श्र॒द्धया॑ मे॒धा मे॒धया॑ मनी॒षा म॑नी॒षया॒ मनो॒ मन॑सा॒ शान्ति॒: शान्त्या॑ चि॒त्तं चि॒त्तेन॒ स्मृति॒: स्मृत्या॒ स्मार॒ग्ं स्मारे॑ण वि॒ज्ञानं॑ वि॒ज्ञाने॑ना॒त्मानं॑ वेदयति॒ तस्मा॑द॒न्नं दद॒न्सर्वा᳚ण्ये॒तानि॑ ददा॒त्यन्ना᳚त्प्रा॒णा भ॑वन्ति भू॒ता॑नां प्रा॒णैर्मनो॒ मन॑सश्च वि॒ज्ञानं॑ वि॒ज्ञाना॑दान॒न्दो ब्र॑ह्म यो॒निः 15 वा ए॒ष पुरु॑षः पञ्च॒धा प॑ञ्चा॒त्मा येन॒ सर्व॑मि॒दं प्रोतं॑ पृथि॒वी चा॒न्तरि॑क्षं च॒ द्यौ॑श्च॒ दिश॑श्चावान्तरदि॒शाश्च॒ वै सर्व॑मि॒दं जग॒त्स स॒भूतग्ं॑ भ॒व्यं जि॑ज्ञासक्लृ॒प्त ऋ॑त॒जा रयिष्ठा॑: श्र॒द्धा स॒त्यो पह॑स्वान्त॒मसो॒परि॑ष्टा॒त् ज्ञात्वा॑ तमे॒वं मन॑सा हृ॒दा च॒ भूयो॑ मृ॒त्युमुप॑याहि वि॒द्वान् तस्मा᳚न्न्या॒समे॒षां तप॑सामतिरिक्त॒माहु॑: 16 वसुर॒ण्वो॑ वि॒भूर॑सि प्रा॒णे त्वमसि॑ सन्धा॒ता ब्रह्म॑न् त्वमसि॑ विश्व॒सृत्ते॑जो॒दास्त्वम॑स्य॒ग्नेर॑सि वर्चो॒दास्त्वम॑सि॒ सूर्य॑स्य द्युम्नो॒दास्त्वम॑सि च॒न्द्रम॑स उपया॒मगृ॑हीतोऽसि ब्र॒ह्मणे᳚ त्वा॒ महसे॒ 17 ओमित्या॒त्मानं॑ युञ्जीत एतद्वै म॑होप॒निष॑दं दे॒वानां॒ गुह्य॒म् ए॒वं वेद॑ ब्र॒ह्मणो॑ महि॒मान॑माप्नोति॒ तस्मा᳚द्ब्रह्मणो॑ महि॒मान॑मित्युप॒निषत् 18 अशीतितमोऽनुवाकः तस्यै॒वं वि॒दुषो॑ य॒ज्ञस्या॒त्मा यज॑मानः श्र॒द्धा पत्नी॒ शरी॑रमि॒ध्ममुरो॒ वेदि॒र्लोमा॑नि ब॒र्हिर्वे॒द॒: शिखा॒ हृद॑यं॒ यूप॒: काम आज्यं॑ म॒न्युः प॒शुस्तपो॒ऽग्निर्दम॑: शमयि॒ता दानं दक्षि॑णा॒ वाग्घोता᳚ प्रा॒ण उ॑द्गा॒ता चक्षु॑रध्व॒र्युर्मनो॒ ब्रह्मा॒ श्रोत्र॑म॒ग्नीत् याव॒द्ध्रिय॑ते॒ सा दी॒क्षा यदश्ना॑ति॒ तद्धवि॒र्यत्पिब॑ति॒ तद॑स्य सोमपा॒नं यद्रम॑ते॒ तदु॑प॒सदो॒ यत्स॒ञ्चर॑त्युप॒विश॑त्यु॒त्तिष्ठ॑ते च॒ प्र॑व॒र्ग्यो॑ यन्मुखं॒ तदा॑हव॒नीयो॒ या व्याहृ॑तिरहु॒तिर्यद॑स्य वि॒ज्ञानं॒ तज्जु॒होति॒ यत्सा॒यं प्रा॒तर॑त्ति॒ तत्स॒मिधं॒ यत्प्रा॒तर्म॒ध्यन्दि॑नग्ं सा॒यं च॒ तानि॒ सव॑नानि॒ ये अ॑होरा॒त्रे ते द॑र्शपूर्णमा॒सौ ये᳚ऽर्धमा॒साश्च॒ मासा᳚श्च॒ ते चा॑तुर्मा॒स्यानि॒ ऋ॒तव॒स्ते प॑शुब॒न्धा ये सं॑वत्स॒राश्च॒ परिवत्स॒राश्च॒ तेऽह॑र्ग॒णाः स॑र्ववेद॒सं वा ए॒तत्स॒त्रं यन्मर॑णं॒ तद॑व॒भृथ॑ ए॒तद्वै ज॑रामर्यमग्निहो॒त्रग्ंस॒त्रं ए॒वं वि॒द्वानु॑द॒गय॑ने प्र॒मीय॑ते दे॒वाना॑मे॒व म॑हि॒मानं॑ ग॒त्वादि॒त्यस्य॒ सायु॑ज्यं गच्छ॒त्यथ॒ यो द॑क्षि॒णे प्र॒मीय॑ते पितृ॒णामे॒व म॑हि॒मानं॑ ग॒त्वा च॒न्द्रम॑स॒: सायु॑ज्यं गच्छत्ये॒तौ वै सू᳚र्याचन्द्र॒मसो᳚र्महि॒मानौ᳚ ब्राह्म॒णो वि॒द्वान॒भिज॑यति॒ तस्मा᳚द् ब्रह्मणो॑ महि॒मान॑माप्नोति॒ तस्मा᳚द् ब्र॒ह्मणो॑ महि॒मान॑मित्युप॒निष॑त् 1 ओं शं नो॑ मि॒त्रः शं वरु॑णः शं नो॑ भवत्यर्य॒मा शं न॒ इन्द्रो॒ बृह॒स्पति॑: शं नो॒ विष्णु॑रुरुक्र॒मः नमो॒ ब्रह्म॑णे नम॑स्ते वायो त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि त्वामे॒व प्र॒त्यक्षं॒ ब्रह्मावा॑दिषम् ऋ॒तम॑वादिषम् स॒त्यम॑वादिषम् तन्मामा॑वीत् तद्व॒क्तार॑मावीत् आवी॒न्माम् आवी॑द्व॒क्तारम्᳚ ओं स॒ह ना॑ववतु स॒ह नौ॑ भुनक्तु स॒ह वी॒र्यं॑ करवावहै ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ओं शान्ति॒: शान्ति॒: शान्ति॑: इति महानारायणोपनिषत्