हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
महानारायणोपनिषत्
ह॒रि॒:
ओम्
॥
शं
नो॑
मि॒त्रः
शं
वरु॑णः
।
शं
नो॑
भवत्वर्य॒मा
।
शं
न॒
इन्द्रो॒
बृह॒स्पति॑:
।
शं
नो॒
विष्णु॑रुरुक्र॒मः
॥
नमो॒
ब्रह्म॑णे
।
नम॑स्ते
वायो
।
त्वमे॒व
प्र॒त्यक्षं॒
ब्रह्मा॑सि
।
त्वामे॒व
प्र॒त्यक्षं॒
ब्रह्म॑
वदिष्यामि
।
ऋ॒तं
व॑दिष्यामि
।
स॒त्यं
व॑दिष्यामि
।
तन्माम॑वतु
।
तद्वक्तार॑मवतु॒
।
अव॑तु॒
माम्
।
अव॑तु
व॒क्तार᳚म्
॥
ओं
शान्ति॒:
शान्ति॒:
शान्ति॑:
॥
ओं
स॒ह
ना॑ववतु
।
स॒ह
नौ॑
भunक्तु
।
स॒ह
वी॒र्यं॑
करवावहै
।
ते॒ज॒स्वि
ना॒वधी॑तमस्तु॒
।
मा
वि॑द्विषा॒वहै᳚
।
ओं
शान्ति॒:
शान्ति॒:
शान्ति॑:
॥
प्रथमोऽनुवाकः
।
अम्भ॑स्यपा॒रे
भुव॑नस्य॒
मध्ये॒
नाक॑स्य
पृ॒ष्ठे
म॑ह॒तो
मही॑यान्
।
शु॒क्रेण॒
ज्योतीग्ं॑षि
समनु॒प्रवि॑ष्टः
प्र॒जाप॑तिश्चरति॒
गर्भे॑
अ॒न्तः
॥
1
॥
यस्मि॑न्नि॒दग्ं
सं
च॒
वि
चैति॒
सर्वं॒
यस्मि॑न्
दे॒वा
अधि॒
विश्वे॑
निषे॒दुः
।
तदे॒व
भू॒तं
तदु॒
भव्य॑मा
इ॒दं
तद॒क्षरे॑
पर॒मे
व्यो॑मन्
॥
2
॥
येना॑वृ॒तं
खं
च॒
दिवं॑
म॒हीं
च॒
येना॑दि॒त्यस्तप॑ति॒
तेज॑सा॒
भ्राज॑सा
च
।
यम॒न्तः
स॑मु॒द्रे
क॒वयो॒
वय॑न्ति॒
यद॒क्षरे॑
पर॒मे
प्र॒जाः
॥
3
॥
यत॑:
प्रसू॒ता
ज॒गत॑:
प्रसूती॒
तोये॑न
जी॒वान्
व्यच॑सर्ज॒
भूम्या॑म्
।
यदोष॑धीभिः
पु॒रुषा᳚न्
प॒शूग्ंश्च॒
विवेश॑
भू॒तानि॑
चराच॒राणि॑
॥
4
॥
अतः
परं॒
नान्य॒दणी॑यसग्ं
हि॒
परा॑त्परं॒
यन्मह॑तो
म॒हान्त॑म्
।
यदे॑कम॒व्यक्त॒मन॑न्तरूपं॒
विश्वं॑
पुरा॒णं
तम॑स॒:
पर॑स्तात्
॥
5
॥
तदे॒वर्तं
तदु॑
स॒त्यमा॑हु॒स्तदे॒व
ब्रह्म॑
पर॒मं
क॑वी॒नाम्
।
इ॒ष्टा॒पू॒र्तं
ब॑हु॒धा
जा॒तं
जाय॑मानं
वि॒श्वं
बि॑भर्ति॒
भुव॑नस्य॒
नाभि॑:
॥
6
॥
तदे॒वाग्निस्तद्वा॒युस्तत्सूर्य॒स्तदु॑
चन्द्रमा᳚:
।
तदे॒व
शु॒क्रम॒मृतं॒
तद्ब्रह्म॒
तदाप॒:
स॒
प्र॒जाप॑तिः
॥
7
॥
सर्वे॑
निमे॒षा
ज॒ज्ञिरे॑
वि॒द्युत॒:
पुरु॑षा॒दधि॑
।
क॒ला
मु॑हू॒र्ताः
काष्ठा᳚श्चाहोरा॒त्राश्च॑
सर्व॒शः
॥
8
॥
अ॒र्ध॒मा॒सा
मासा॑
ऋ॒तव॑:
संवत्स॒रश्च॑
कल्पन्ताम्
।
स
आप॑:
प्रदु॒घे
उ॒भे
इ॒मे
अ॒न्तरि॑क्ष॒मथो॒
सुव॑:
॥
9
॥
नैन॑मू॒र्ध्वं
न
ति॒र्यञ्चं॒
न
मध्ये॒
परि॑जग्रभत्
।
न
तस्ये॑शे॒
कश्च॒न
तस्य
नाम
म॒हदयश॑:
॥
10
॥
न
स॒न्दृशे॑
तिष्ठति॒
रूप॑मस्य॒
न
चक्षु॑षा
पश्यति॒
कश्च॒नैन᳚म्
।
हृ॒दा
म॑नी॒षा
मन॑सा॒भिक्लृ॑प्तो॒
य
ए॑नं
वि॒दुरमृ॑ता॒स्ते
भ॑वन्ति
॥
11
॥
(हिरण्यगर्भ
सूक्त)
अ॒द्भ्यः
सम्भू॑तो
हिरण्यग॒र्भ
इत्य॒ष्टौ
॥
अ॒द्भ्यः
सम्भू॑तः
पृथि॒व्यै
रसा॑च्च
।
वि॒श्वक॑र्मण॒:
सम॑व॒र्तताधि॑
।
तस्य॒
त्वष्टा॑
वि॒दध॑द्रू॒पमे॑ति
।
तत्पुरु॑षस्य॒
विश्व॒माजा॑न॒मग्रे᳚
।
1
वेदा॒हमे॒तं
पुरु॑षं
म॒हान्त॑म्
।
आ॒दि॒त्यव॑र्णं॒
तम॑स॒:
पर॑स्तात्
।
तमे॒वं
वि॒द्वान॒मृत॑
इ॒ह
भ॑वति
।
2
नान्यः
पन्था॑
विद्य॒तेय॑ऽनाय
।
प्र॒जाप॑तिश्चरति॒
गर्भे॑
अ॒न्तः
।
अ॒जाय॑मानो
बहु॒था
विजायते
।
तस्य॒
धीरा॒:
परि॑जानन्ति॒
योनि॑म्
।
मरी॑चीनां
प॒दमि॑च्छन्ति
वे॒धस॑:
।
3
यो
दे॒वेभ्य॒
आत॑पति
।
यो
दे॒वानां᳚
पु॒रोहि॑तः
।
पूर्वो॒
यो
दे॒वेभ्यो॑
जा॒तः
।
नमो॑
रु॒चाय॒
ब्राह्म॑ये
।
4
रुचं॑
ब्रा॒ह्मं
ज॒नय॑न्तः
।
दे॒वा
अग्रे॒
तद॑ब्रुवन्
।
यस्त्वै॒वं
ब्रा॑ह्म॒णो
वि॒द्यात्
।
तस्य॑
दे॒वा
अस॒न्
वशे॑
।
ह्रीश्च॑
ते
ल॒क्ष्मीश्च॒
पत्न्यौ॑
।
अ॒हो॒रा॒त्रे
पा॒र्श्वे
।
नक्ष॑त्राणि
रू॒पम्
।
अ॒श्विनौ॒
व्यात्त॑म्
।
इ॒ष्टं
म॑निषाण
।
अ॒मुं
म॑निषाण
।
सर्वं॑
मनिषाण
।
(इति
उत्तरनारायणानुवाकः)
हि॒र॒ण्य॒ग॒र्भः
सम॑वर्त॒ताग्रे॑
भू॒तस्य॑
जा॒तः
पति॒रेक॑
आसीत्
।
स
दा॑धार
पृथि॒वीं
द्यामु॒तेमां
कस्मै॑
दे॒वाय॑
ह॒विषा॑
विधेम
॥
1
॥
यः
प्रा॑ण॒तो
नि॑मिष॒तो
म॑हि॒त्वैक॒
इद्राजा॒
जग॑तो
ब॒भूव॑
।
य
ईशे
अ॒स्य
द्वि॒पद॒श्चतु॑ष्पद॒:
कस्मै॑
दे॒वाय॑
ह॒विषा॑
विधेम
॥
2
॥
य
आ॑त्म॒दा
ब॑ल॒न्दा
यस्य॒
विश्व॑
उ॒पास॑ते
प्र॒शिषं॒
यस्य॑
दे॒वाः
।
यस्य॑
छा॒यामृतं॒
यस्य॑
मृ॒त्युः
कस्मै॑
दे॒वाय॑
ह॒विषा॑
विधेम
॥
3
॥
यस्ये॒मे
हि॒मव॑न्तो
महि॒त्वा
यस्य॑
समु॒द्रग्ं
रसया॑
स॒हाहुः
।
यस्ये॒माः
प्र॒दिशो॒
यस्य॑
बा॒हू
कस्मै॑
दे॒वाय॑
ह॒विषा॑
विधेम
॥
4
॥
यं
क्रन्द॑सी॒
अव॑सा
तस्तभा॒ने
अ॒स्यैक्षे॑तां॒
मन॑सा॒
रेज॑माने
।
यत्राधि॒
सूर॒
उदि॑तौ॒
व्येति॒
कस्मै॑
दे॒वाय॑
ह॒विषा॑
विधेम
॥
5
॥
येन॒
द्यौरु॒ग्रा
पृ॑थि॒वी
च॑
दृढे॒
येन॒
सुव॑:
स्तभि॒तं
येन॒
नाक॑:
।
यो
अ॒न्तरि॑क्षे॒
रज॑सो
वि॒मान॒:
कस्मै॑
दे॒वाय
ह॒विषा॑
विधेम
॥
6
॥
आपो॑
ह॒
यन्म॑ह॒तीर्विश्व॒मायं॒
दक्षं॒
दधाना
ज॒नय॑न्तीर॒ग्निम्
।
ततो॑
दे॒वानां॒
निर॑वर्त॒तासु॒रेक॒:
कस्मै॑
दे॒वाय॑
ह॒विषा॑
विधेम
॥
7
॥
यश्चि॒दापो॑
महि॒ना
प॒र्यप॑श्य॒द्दक्षं॒
दधा॑ना
ज॒नय॑न्तीर॒ग्निम्
।
यो
दे॒वेष्वधि॑
दे॒व
ए॒क
आसी॒त्
कस्मै॑
दे॒वाय॑
ह॒विषा॑
विधेम
॥
8
॥
ए॒ष
हि
दे॒वः
प्र॒दिशोऽनु॒
सर्वा॒:
पूर्वो॑
हि
जा॒तः
स
उ॒
गर्भे॑
अ॒न्तः
।
स
वि॒जाय॑मानः
स
जनि॒ष्यमा॑णः
प्र॒त्यङ्मुखा᳚स्तिष्ठति
वि॒श्वतो॑मुखः
॥
12
॥
वि॒श्वत॑श्चक्षुरु॒त
वि॒श्वतो॑
मुखो
वि॒श्वतो॑
हस्त
उ॒त
वि॒श्वत॑स्पात्
।
सं
बा॒हुभ्यां
नम॑ति॒
सं
पत॑त्रैर्द्यावा॑पृथि॒वी
ज॒नय॑न्
दे॒व
एक॑:
॥
13
॥
वे॒नस्तत्
पश्य॒न्
विश्वा॒
भुव॑नानि
वि॒द्वान्
यत्र॒
विश्वं॒
भव॒त्येक॑नीडम्
।
यस्मि॑न्नि॒दग्ंसं
च॒
वि
चैक॒ग्ंस
ओतः
प्रोत॑श्च
वि॒भुः
प्र॒जासु॑
॥
14
॥
प्र
तद्वो॑चे
अ॒मृतं॒
नु
वि॒द्वान्
ग॑न्ध॒र्वो
नाम॒
निहि॑तं॒
गुहा॑सु
।
त्रीणि॑
प॒दा
निहि॑ता॒
गुहा॑सु॒
यस्तद्वेद॑
सवि॒तुः
पि॒ता
स॑त्
॥
15
॥
स
नो॒
बन्धु॑र्जनि॒ता
स
वि॑धा॒ता
धामा॑नि॒
वेद॒
भुव॑नानि॒
विश्वा᳚
।
यत्र॑
दे॒वा
अ॒मृत॑मानशा॒नास्तृ॒तीये॒
धामा᳚न्य॒भ्यैर॑यन्त
॥
16
॥
परि॒
द्यावा॑पृथि॒वी
य॑न्ति
स॒द्यः
परि॑
लो॒कान्
परि॒
दिश॒:
परि॒
सुव॑:
।
ऋ॒तस्य॒
तन्तुं॑
विततं
वि॒चृत्य॒
तद॑पश्य॒त्
तद॑भवत्
प्र॒जासु॑
॥
17
॥
प॒रीत्य॑
लो॒कान्
प॒रीत्य॑
भू॒तानि॑
प॒रीत्य॒
सर्वा᳚:
प्र॒दिशो॒
दिश॑श्च
।
प्र॒जाप॑तिः
प्रथम॒जा
ऋ॒तस्या॒त्मना॒त्मान॑म॒भिसम्बभूव
॥
18
॥
सद॑स॒स्पति॒मद्भु॑तं
प्रि॒यमिन्द्र॑स्य॒
काम्य᳚म्
।
सनिं॑
मे॒धाम॑यासिषम्
॥
19
॥
उद्दी᳚प्यस्व
जातवेदोऽप॒घ्नन्निरृ॑तिं॒
मम॑
।
प॒शूग्ंश्च॒
मह्य॒माव॑ह॒
जीव॑नं
च॒
दिशो॑
दिश
॥
20
॥
मा
नो॑
हिग्ंसीज्जातवेदो॒
गामश्वं॒
पुरु॑षं॒
जग॑त्
।
अबि॑भ्र॒दग्न॒
आग॑हि
श्रि॒या
मा॒
परि॑पातय
॥
21
॥
पुरु॑षस्य
विद्म
सहस्रा॒क्षस्य॑
महादे॒वस्य॑
धीमहि
।
तन्नो॑
रुद्रः
प्रचो॒दया᳚त्
॥
22
॥
गायत्र्याः
।
तत्पुरु॑षाय
वि॒द्महे॑
महादे॒वाय॑
धीमहि
।
तन्नो॑
रुद्रः
प्रचो॒दया᳚त्
॥
23
॥
तत्पुरु॑षाय
वि॒द्महे॑
वक्रतु॒ण्डाय॑
धीमहि
।
तन्नो॑
दन्तिः
प्रचो॒दया᳚त्
॥
24
॥
तत्पुरु॑षाय
वि॒द्महे॑
चक्रतु॒ण्डाय॑
धीमहि
।
तन्नो॑
नन्दिः
प्रचो॒दया᳚त्
॥
25
॥
तत्पुरु॑षाय
वि॒द्महे॑
महासे॒नाय॑
धीमहि
।
तन्नः
षण्मुखः
प्रचो॒दया᳚त्
॥
26
॥
तत्पुरु॑षाय
वि॒द्महे॑
सुवर्णप॒क्षाय॑
धीमहि
।
तन्नो॑
गरुडः
प्रचो॒दया᳚त्
॥
27
॥
वे॒दा॒त्म॒नाय॑
वि॒द्महे॑
हिरण्यग॒र्भाय॑
धीमहि
।
तन्नो॑
ब्रह्म
प्रचो॒दया᳚त्
॥
28
॥
ना॒रा॒य॒णाय॑
वि॒द्महे॑
वासुदे॒वाय॑
धीमहि
।
तन्नो॑
विष्णुः
प्रचो॒दया᳚त्
॥
29
॥
व॒ज्र॒न॒खाय॑
वि॒द्महे॑
तीक्ष्णद॒ग्ंष्ट्राय॑
धीमहि
।
तन्नो॑
नारसिग्ंहः
प्रचो॒दया᳚त्
॥
30
॥
भा॒स्क॒राय॑
वि॒द्महे॑
महद्द्युतिक॒राय॑
धीमहि
।
तन्नो॑
आदित्यः
प्रचो॒दया᳚त्
॥
31
॥
वै॒श्वा॒न॒राय॑
वि॒द्महे॑
लाली॒लाय
धीमहि
।
तन्नो॑
अग्निः
प्रचो॒दया᳚त्
॥
32
॥
का॒त्या॒य॒नाय॑
वि॒द्महे॑
कन्यकु॒मारि॑
धीमहि
।
तन्नो॑
दुर्गिः
प्रचो॒दया᳚त्
॥
33
॥
स॒ह॒स्र॒पर॑मा
दे॒वी॒
श॒तमू॑ला
श॒ताङ्कु॑रा
।
स॒र्वग्ंहरतु॑
मे
पा॒पं॒
दू॒र्वा
दु॑:स्वप्न॒नाशि॑नी
॥
34
॥
काण्डा᳚त्
काण्डात्
प्र॒रोह॑न्ती॒
परु॑षः
परुष॒:
परि॑
।
ए॒वा
नो॑
दूर्वे॒
प्रत॑नु
स॒हस्रे॑ण
श॒तेन॑
च
॥
35
॥
या
श॒तेन॑
प्रत॒नोषि॑
स॒हस्रे॑ण
वि॒रोह॑सि
।
तस्या॑स्ते
देवीष्टके
वि॒धेम॑
ह॒विषा॑
व॒यम्
॥
36
॥
अश्वक्रा॒न्ते
र॑थक्रा॒न्ते॒
वि॒ष्णुक्रा᳚न्ते
व॒सुन्ध॑रा
।
शिरसा॑
धार॑यिष्या॒मि॒
र॒क्ष॒स्व
मां᳚
पदे॒
पदे
॥
37
॥
भूमिर्धेनुर्धरणी
लोक॑धा॒रिणी
।
उ॒द्धृता॑सि
व॑राहे॒ण॒
कृ॒ष्णे॒न
श॑तबा॒हुना
॥
38
॥
मृ॒त्तिके॑
हन॑
पा॒पं॒
य॒न्म॒या
दु॑ष्कृतं॒
कृतम्
।
मृत्तिके᳚
ब्रह्म॑दत्ता॒सि॒
का॒श्यपे॑नाभि॒मन्त्रि॑ता
।
मृ॒त्तिके॑
देहि॑
मे
पु॒ष्टिं॒
त्व॒यि
सर्वं॑
प्र॒तिष्ठि॑तम्
॥
39
॥
मृ॒त्तिके᳚
प्रतिष्ठि॑ते
स॒र्वं॒
त॒न्मे
नि॑र्णुद॒
मृत्ति॑के
।
त्वया॑
ह॒तेन॑
पापे॒न॒
ग॒च्छा॒मि
प॑रमां॒
गतिम्
॥
40
॥
यत॑
इन्द्र॒
भया॑महे॒
ततो॑
नो॒
अभ॑यं
कृधि
।
मघ॑वञ्छ॒ग्धि
तव॒
तन्न॑
ऊ॒तये॒
विद्विषो॒
विमृधो᳚
जहि
॥
41
॥
स्व॒स्ति॒दा
वि॒शस्पति॑र्वृत्र॒हा
विमृधो॑
व॒शी
।
वृषेन्द्र॑:
पु॒र
ए॑तु
नः
स्वस्ति॒दा
अ॑भयङ्क॒रः
॥
42
॥
स्व॒स्ति
न॒
इन्द्रो॑
वृ॒द्धश्र॑वाः
स्व॒स्ति
न॑:
पू॒षा
वि॒श्ववे॑दाः
।
स्व॒स्ति
न॒स्तार्क्ष्यो॒
अरि॑ष्टनेमिः
स्व॒स्ति
नो॒
बृहस्पति॑र्दधातु
॥
43
॥
आपा᳚न्तमन्युस्तृ॒पल॑प्रभर्मा॒
धुनि॒:
शिमी॑वा॒ञ्छरुमा॑ग्ंऋजी॒षी
।
सोमो॒
विश्वा᳚न्यत॒सावना॑नि॒
नार्वागिन्द्रं॑
प्रति॒माना॑नि
देभुः
॥
44
॥
ब्रह्म॑जज्ञा॒नं
प्र॑थ॒मं
पु॒रस्ता॒द्वि
सी॑म॒तः
सु॒रुचो॑
वे॒न
आ॑वः
।
स
बु॒ध्निया॑
उप॒मा
अ॑स्य
वि॒ष्ठाः
स॒तश्च॒
योनि॒मस॑तश्च॒
विव॑:
॥
45
॥
स्यो॒ना
पृ॑थिवि॒
भवा॑
नृक्ष॒रा
नि॒वेश॑नी
।
यच्छा॑
न॒:
शर्म॑
स॒प्रथा᳚:
॥
46
॥
ग॒न्ध॒द्वा॒रां
दु॑राध॒र्षां॒
नि॒त्यपु॑ष्टां
करी॒षिणी᳚म्
।
ई॒श्वरीग्ं॑
सर्व॑भूता॒नां॒
तामि॒होप॑ह्वये॒
श्रियम्
॥
47
॥
श्री᳚र्मे
भ॒जतु
अलक्ष्मी᳚र्मे
न॒श्यतु
।
विष्णु॑मुखा॒
वै
दे॒वाश्छन्दो॑भिरि॒मां॑ल्लो॒कान॑नपज॒य्यम॒भ्य॑जयन्
।
म॒हाग्ं
इन्द्रो॒
वज्र॑बाहुः
षोड॒शी
शर्म॑
यच्छतु
॥
48
॥
स्व॒स्ति
नो॑
म॒घवा॑
करोतु॒
।
हन्तु॑
पा॒प्मानं॒
यो᳚ऽस्मान्
द्वेष्टि॑
॥
49
॥
सो॒मान॒ग्ं
स्वर॑णं
कृणु॒हि
ब्र॑ह्मणस्पते
क॒क्षीव॑न्तं॒
य
औ॑शि॒जम्
।
शरी॑रं
यज्ञशम॒लं
कुसी॑दं
तस्मि᳚न्त्सीदतु॒
यो᳚ऽस्मान्
द्वेष्टि॑
॥
50
॥
चर॑णं
प॒वित्रं॒
वित॑तं
पुरा॒णं
येन॑
पू॒तस्तर॑ति
दुष्कृ॒तानि॑
।
तेन॑
प॒वित्रे॑ण
शु॒द्धेन॑
पू॒ता
अति॑
पा॒प्मान॒मरा॑तिं
तरेम
॥
51
॥
स॒जोषा॑
इन्द्र
सग॑णो
म॒रुद्भि॒:
सोमं॑
पिब
वृत्रहञ्छूर
वि॒द्वान्
।
ज॒हि
श॒त्रू॒ग्ंरप॒
मृधो॑
नुद॒स्वाथाभ॑यं
कृणुहि
वि॒श्वतो॑
नः
॥
52
॥
सु॒मि॒त्रा
न॒
आप॒
ओष॑धयः
सन्तु
।
दुर्मि॒त्रास्तस्मै॑
भूयासु᳚र्योऽस्मान्
द्वेष्टि॒
यं
च॑
वयं
द्वि॒ष्मः
॥
53
॥
आपो॒
हिष्ठा
म॑यो॒भुव॒स्ता
न॑
ऊ॒र्जे
द॑धातन
।
म॒हेरणा॑य॒
चक्ष॑से
।
यो
व॑:
शि॒वत॑मो
रस॒स्तस्य॑
भाजयते॒ऽह
न॑:
।
उ॒श॒तीरि॑व
मा॒त॑रः
।
तस्मा॒
अर॑ङ्गमामवो॒
यस्य॒
क्षया॑य॒
जिन्व॑थ
।
आपो॑
ज॒नय॑था
च
नः
॥
54
॥
हिर॑ण्यशृङ्गं॒
वरु॑णं॒
प्रप॑द्ये
ती॒र्थ
मे॑
देहि॒
याचि॑तः
।
य॒न्मया॑
भु॒क्तम॒साधू॑नां
पा॒पेभ्य॑श्च
प्र॒तिग्र॑हः
॥
55
॥
यन्मे॒
मन॑सा
वा॒चा॒
क॒र्म॒णा
वा
दु॑ष्कृतं॒
कृतम्
।
तन्न॒
इन्द्रो॒
वरु॑णो॒
बृह॒स्पति॑:
सवि॒ता
च॑
पुनन्तु॒
पुन॑:
पुनः
॥
56
॥
नमो॒ऽग्नये᳚ऽप्सु॒मते॒
नम॒
इन्द्रा॑य॒
नमो॒
वरु॑णाय॒
नमो
वारुण्यै᳚
नमो॒ऽद्भ्यः
॥
57
॥
यद॒पां
क्रू॒रं
यद॑मे॒ध्यं
यद॑शा॒न्तं
तदप॑गच्छतात्
॥
58
॥
अ॒त्या॒श॒नाद॑तीपा॒ना॒द्
य॒च्च
उ॒ग्रात्
प्र॑ति॒ग्रहा᳚त्
।
तन्मे॒
वरु॑णो
रा॒जा॒
पा॒णिना᳚
ह्यव॒मर्श॑तु
॥
59
॥
सो॑ऽहम॑पा॒पो
वि॒रजो॒
निर्मु॒क्तो
मु॑क्तकिल्बिषः
।
नाक॑स्य
पृ॒ष्ठमारु॑ह्य॒
गच्छे॒द्ब्रह्म॑सलो॒कताम्
॥
60
॥
यश्चा॒प्सु
वरु॑ण॒:
स
पु॒नात्व॑घमर्ष॒णः
॥
61
॥
इ॒मं
मे॑
गङ्गे
यमुने
सरस्वति॒
शुतु॑द्रि॒
स्तोमग्ं॑
सचता॒
परु॒ष्णिया
।
अ॒सि॒क्नि॒या
म॑रुद्वृधे
वि॒तस्त॒यार्जी॑कीये
शृणु॒ह्या
सु॒षोम॑या
॥
62
॥
ऋ॒तं
च॑
स॒त्यं
चा॒भी᳚द्धा॒त्तप॒सोऽध्य॑जायत
।
ततो॒
रात्रि॑रजायत॒
तत॑:
समु॒द्रो
अ॑र्ण॒वः
॥
63
॥
स॒मु॒द्राद॑र्ण॒वादधि॑
संवत्स॒रो
अजायत
।
अ॒हो॒रा॒त्राणि॑
वि॒दध॒द्विश्व॑स्य
मिष॒तो
व॒शी
॥
64
॥
सू॒र्या॒च॒न्द्र॒मसौ॑
धा॒ता
य॑थापू॒र्वम॑कल्पयत्
।
दिवं॑
च
पृथि॒वीं
चा॒न्तरि॑क्ष॒मथो॒
सुव॑:
॥
65
॥
यत्पृ॑थि॒व्याग्ं
रज॑:
स्व॒मान्तरि॑क्षे
वि॒रोद॑सी
।
इ॒माग्ंस्तदा॒पो
व॑रुणः
पु॒नात्व॑घमर्ष॒णः
॥
पु॒नन्तु॒
वस॑वः
पु॒नातु॒
वरु॑णः
पु॒नात्व॑घमर्ष॒णः
।
ए॒ष
भू॒तस्य॑
म॒ध्ये
भुव॑नस्य
गो॒प्ता
॥
ए॒ष
पु॒ण्यकृ॑तां
लो॒का॒ने॒ष
मृ॒त्योर्हि॑र॒ण्मय᳚म्
।
द्यावा॑पृथि॒व्योर्हिर॒ण्मय॒ग्ं
सग्ं
श्रि॑त॒ग्ं
सुव॑:
।
स
न॒:
सुव॒:
सग्ं
शि॑शाधि
॥
66
॥
आर्द्रं॒
ज्वल॑ति॒ज्योति॑र॒हम॑स्मि
।
ज्योति॒र्ज्वल॑ति॒
ब्रह्मा॒हमस्मि
।
यो॑ऽहम॑स्मि॒
ब्रह्मा॒हम॑स्मि
।
अ॒हम॑स्मि॒
ब्रह्मा॒हम॑स्मि
।
अ॒हमे॒वाहं
मां
जु॑होमि॒
स्वाहा᳚
॥
67
॥
अ॒का॒र्य॒का॒र्य॑वकी॒र्णी
स्ते॒नो
भ्रू॑ण॒हा
गु॑रुत॒ल्पगः
।
वरु॑णो॒ऽपाम॑घमर्ष॒णस्तस्मा॑त्
पा॒पात्
प्रमु॑च्यते
॥
68
॥
र॒जोभूमि॑स्त्व॒
माग्ं
रोद॑यस्व॒
प्रव॑दन्ति॒
धीरा᳚:
॥
69
॥
आक्रा᳚न्त्समु॒द्रः
प्रथ॒मे
विध॑र्मञ्ज॒नय॑न्प्र॒जा
भुव॑नस्य॒
राजा॑
।
वृषा॑
प॒वित्रे
अधि॒
सानो॒
अव्ये॑
बृ॒हत्सोमो॑
वावृधे
सुवा॒न
इन्दु॑:
॥
70
॥
द्वितीयोऽवानुकः
।
ओं
जा॒तवे॑दसे
सुनवाम॒
सोम॑
मरातीय॒तो
निद॑हाति॒
वेद॑:
।
स
न॑:
पर्ष॒दति॑
दु॒र्गाणि॒
विश्वा॑
ना॒वेव॒
सिन्धुं॑
दुरि॒ताऽत्य॒ग्निः
॥
1
ताम॒ग्निव॑र्णां॒
तप॑सा
ज्वल॒न्तीं
वै॑रोच॒नीं
क॑र्मफ॒लेषु॒
जुष्टा᳚म्
।
दु॒र्गां
दे॒वीग्ं
शर॑णम॒हं
प्रप॑द्ये
सु॒तर॑सि
तरसे॒
नम॑:
॥
2
अग्ने॒
त्वं॑
पा॑रया॒
नव्यो॑
अ॒स्मान्
स्व॒स्तिभि॒रति॑
दु॒र्गाणि॒
विश्वा᳚
।
पूश्च॑
पृ॒थ्वी
ब॑हु॒ला
न॑
उ॒र्वी
भवा॑
तो॒काय॒
तन॑याय॒
शम्योः
॥
3
विश्वा॑नि
नो
दु॒र्गहा॑
जातवेद॒:
सिन्धुं॒
न
ना॒वा
दुरि॒ताऽति॑पर्षि
।
अग्ने॑
अत्रि॒वन्मन॑सा
गृणा॒नो᳚ऽस्माकं॑
बोध्यवि॒ता
त॒नूना᳚म्
॥
4
पृ॒तना॒जित॒ग्ं
सह॑मानमु॒ग्रम॒ग्निग्ं
हु॑वेम
पर॒माथ्स॒धस्था᳚त्
।
स
न॑:
पर्ष॒दति॑
दु॒र्गाणि॒
विश्वा॒
क्षाम॑द्देवो॒
अति॑
दुरि॒ताऽत्य॒ग्निः
॥
5
प्र॒त्नोषि॑
क॒मीड्यो॑
अध्व॒रेषु॑
सनाच्च॒
होता॒
नव्य॑श्च॒
सत्सि॑
।
स्वां
चा᳚ऽग्ने
त॒नुवं॑
पि॒प्रय॑स्वा॒स्मभ्यं॑
च॒
सौभ॑ग॒माय॑जस्व
॥
6
गोभि॒र्जुष्ट॑म॒युजो॒
निषि॑क्तं॒
तवे᳚न्द्र
विष्णो॒रनु॒सञ्च॑रेम
।
नाक॑स्य
पृ॒ष्ठमभि
सं॒वसा॑नो॒
वैष्ण॑वीं
लो॒क
इ॒ह
मा॑दयन्ताम्
॥
7
॥
तृतीयोऽनुवाकः
।
भूरन्न॑म॒ग्नये॑
पृथि॒व्यै
स्वाहा॒
भुवोऽन्नं॑
वा॒यवे॒ऽन्तरि॑क्षाय॒
स्वाहा॒
सुव॒रन्न॑मादि॒त्याय॑
दि॒वे
स्वाहा॒
भूर्भुव॒स्सुव॒रन्नं॑
च॒न्द्रम॑से
दि॒ग्भ्यः
स्वाहा॒
नमो॑
दे॒वेभ्य॑:
स्व॒धा
पि॒तृभ्यो॒
भूर्भुव॒:
सुवरन्न॒मोम्
॥
1
॥
चतुर्थोऽनुवाकः
।
भूर॒ग्नये॑
पृथि॒व्यै
स्वाहा॒
भुवो॑
वा॒यवे॒ऽन्तरि॑क्षाय॒
स्वाहा॒
सुव॑रादि॒त्याय॑
दि॒वे
स्वाहा॒
भुर्भुव॒स्सुव॑श्च॒न्द्रम॑से
दि॒ग्भ्यः
स्वाहा॒
नमो॑
दे॒वेभ्य॑:
स्व॒धा
पि॒तृभ्यो॒
भूर्भुव॒:सुव॒रग्न॒
ओम्
॥
1
॥
पञ्चमोऽनुवाकः
।
भूर॒ग्नये॑
च
पृथि॒व्यै
च॑
मह॒ते
च॒
स्वाहा॒
भुवो॑
वा॒यवे॑
चा॒न्तरि॑क्षाय
च
मह॒ते
च॒
स्वाहा॒
सुव॑रादि॒त्याय॑
च
दि॒वे
च॑
मह॒ते
च॒
स्वाहा॒
भूर्भुव॒स्सुवश्च॒न्द्रम॑से
च॒
नक्ष॑त्रेभ्यश्च
दि॒ग्भ्यश्च॑
मह॒ते
च॒
स्वाहा॒
नमो॑
देवेभ्य॑:
स्व॒धा
पि॒तृभ्यो॒
भुर्भुव॒:
सुव॒र्मह॒रोम्
॥
1
॥
षष्ठोऽनुवाकः
।
पाहि
नो
अग्न
एन॑से॒
स्वा॒हा
पाहि
नो
विश्ववेद॑से
स्वा॒हा
यज्ञं
पाहि
विभाव॑सो
स्वा॒हा
सर्वं
पाहि
शतक्र॑तो
स्वा॒हा
॥
1
॥
सप्तमोऽनुवाकः
।
पा॒हि
नो॑
अग्न॒
एक॑या
पा॒ह्यु॑त
द्वितीय॑या
पा॒ह्यूर्ज॑
तृ॒तीय॑या
पा॒हि
गी॒र्भिश्च॑तसृभि॑र्वसो॒
स्वाहा᳚
॥
1
॥
अष्टमोऽनुवाकः
।
यश्छन्द॑सामृष॒भो
वि॒श्वरू॑प॒श्छन्दो᳚भ्य॒श्चन्दा॑ग्ंस्यावि॒वेश॑
।
सताग्ंशिक्यः
प्रोवाचो॑पनि॒षदिन्द्रो᳚
ज्ये॒ष्ठ
इ॑न्द्रि॒याय॒
ऋषि॑भ्यो॒
नमो॑
दे॒वेभ्य॑:
स्व॒धा
पि॒तृभ्यो॒
भूर्भुव॒स्सुव॒श्छन्द॒
ओम्
॥
1
॥
नवमोऽनुवाकः
।
नमो॒
ब्रह्म॑णे
धारणं॑
मे
अ॒स्त्वनि॑राकरणं
धा॒रयि॑ता
भूयासं॒
कर्ण॑योः
श्रु॒तं
मा
च्यो᳚ढं
ममा॒मुष्य॒
ओम्
॥
1
॥
दशमोऽनुवाकः
।
ऋ॒तं
तप॑:
स॒त्यं
तप॑:
श्रुतं॒
तप॑:
शा॒न्तं
तपो॒
दम॒स्तप॒:
शम॒स्तपो॒
दानं॒
तपो॒
यज्ञं॒
तपो॒
भूर्भुव॒:
सुव॒र्ब्रह्मै॒तदुपा᳚स्वै॒तत्तप॑:
॥
1
॥
एकादशोऽनुवाकः
।
यथा॑
वृ॒क्षस्य॑
स॒म्पुष्पि॑तस्य
दू॒राद्ग॒न्धो
वा᳚त्येवं
पुण्य॑स्य
क॒र्मणो॑
दू॒रा॒द्ग॒न्धो
वा॑ति॒
यथा॑सिधा॒रां
क॒र्तेऽव॑हितमव॒क्रामे॒
यद्युवे॒
युवे॒
हवा॑
वि॒ह्वयि॑ष्यामि
क॒र्तं
प॑तिष्या॒मीत्ये॒वम॒मृता॑दा॒त्मानं॑
जु॒गुप्से᳚त्
॥
1
॥
द्वादशोऽनुवाकः
।
अ॒णोरणी॑यान्
मह॒तो
मही॑याना॒त्मा
गुहा॑यां॒
निहि॑तोऽस्य
ज॒न्तोः
।
तम॑क्रतुं
पश्यति
वीतशो॒को
धा॒तुः
प्र॒सादा᳚न्महि॒मान॑मीशम्
॥
1
॥
स॒प्त
प्रा॒णा
प्र॒भ॑वन्ति॒
तस्मा᳚त्
स॒प्तार्चिष॑:
स॒मिध॑:
स॒प्त
जि॒ह्वाः
।
स॒प्त
इ॒मे
लो॒का
येषु॒
चर॑न्ति
प्रा॒णा
गु॒हाश॑या॒न्निहि॑ताः
स॒प्त
स॑प्त
॥
2
॥
अत॑:
समु॒द्रा
गि॒रयश्च॒
सर्वे॒ऽस्मात्स्यन्द॑न्ते॒
सिन्ध॑व॒:
सर्व॑रूपाः
।
अत॑श्च॒
विश्वा॒
ओष॑धयो॒
रसा᳚श्च॒
येनै॑ष
भू॒तस्ति॑ष्ठत्यन्तरा॒त्मा
॥
3
॥
ब्र॒ह्मा
देवानां᳚
पद॒वीः
क॑वी॒नामृषि॒र्विप्रा॑णां
महिषो
मृ॒गाणा᳚म्
।
श्ये॒नो
गृध्रा॑णा॒ग्ंस्वधि॑ति॒र्वना॑नाग्ंसोम॑:
प॒वित्र॒मत्ये॑ति॒
रेभन्॑
॥
4
॥
अ॒जामेकां॒
लोहि॑तशुक्लकृ॒ष्णां
ब॒ह्वीं
प्र॒जां
ज॒नय॑न्ती॒ग्ं
सरू॑पाम्
।
अ॒जो
ह्येको॑
जु॒षमा॑णोऽनु॒शेते॒
जहा᳚त्ये॒नां
भु॒क्तभो॑गा॒मजो᳚ऽन्यः
॥
5
॥
हं॒सः
शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑
वेदि॒षदति॑थिर्दुरोण॒सत्
।
नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा
गो॒जा
ऋ॑त॒जा
अ॑द्रि॒जा
ऋ॒तं
बृ॒हत्
॥
6
॥
यस्मा᳚ज्जा॒ता
न
प॒रा
नैव॒
किञ्च॒नास॒
य
आ॑वि॒वेश॒
भुव॑नानि॒
विश्वा᳚
।
प्र॒जाप॑तिः
प्र॒जया॑
संविदा॒नस्त्रीणि॒
ज्योती॑ग्ंषि
सचते॒
स
षोड॑शी
॥
6.1
॥
वि॒ध॒र्तारग्ं॑
हवामहे॒
वसो᳚:
कु॒विद्व॒नाति॑
नः
।
स॒वि॒तारं॑
नृ॒चक्ष॑सम्
॥
6.2
॥
घृ॒तं
मि॑मिक्षिरे
घृ॒तम॑स्य॒
योनि॑र्घृ॒ते
श्रि॒तो
घृ॒तमु॑वस्य॒
धाम॑
।
अ॒नु॒ष्व॒धमाव॑ह
मा॒दय॑स्व॒
स्वाहा॑कृतं
वृषभ
वक्षि
ह॒व्यम्
॥
7
॥
स॒मु॒द्रादू॒र्मिर्मधु॑मा॒ग्ं
उदा॑रदुपा॒ग्ंशुना॒
सम॑मृत॒त्वमा॑नट्
।
घृ॒तस्य॒
नाम॒
गुह्यं॒
यदस्ति॑
जि॒ह्वा
दे॒वाना॑म॒मृत॑स्य॒
नाभि॑:
॥
8
॥
व॒यं
नाम॒
प्रब्र॑वामा
घृ॒तेना॒स्मिन्
य॒ज्ञे
धा॑रयामा॒
नमो॑भिः
।
उप॑
ब्र॒ह्मा
शृ॑णवच्छ॒स्यमा॑न॒
चतु॑:शृङ्गोऽवमीद्गौ॒र
ए॒तत्
॥
9
॥
च॒त्वारि॒
शृङ्गा॒
त्रयो॑
अस्य॒
पादा॒
द्वेशी॒र्षे
स॒प्त
हस्ता॑सो
अ॒स्य
।
त्रिधा॑
ब॒द्धो
वृ॑ष॒भो
रो॑रवीति
म॒हो
दे॒वो
मर्त्या॒ग्ं
आवि॑वेश
॥
10
॥
त्रिधा॑
हि॒तं
प॒णिभि॑र्गु॒ह्यमा॑नं॒
गवि॑
दे॒वासो॑
घृ॒तमन्व॑विन्दन्
।
इन्द्र॒
एक॒ग्ं
सूर्य॒
एकं॑
जजान
वे॒नादेकग्ं॑
स्व॒धया॒
निष्ट॑तक्षुः
॥
11
॥
यो
दे॒वानां᳚
प्रथ॒मं
पु॒रस्ता॒द्विश्वा॒धिको॑
रु॒द्रो
म॒हर्षि॑:
।
हि॒र॒ण्य॒ग॒र्भं
प॑श्यत॒
जाय॑मान॒ग्ं
स
नो॑
दे॒वः
शु॒भया॒स्मृत्या॒
सम्यु॑नक्तु
॥
12
॥
यस्मा॒त्परं
नाप॑र॒मस्ति॒
किञ्चि॒त्
यस्मा॒न्नाणी॑यो॒
न
ज्यायो॑ऽस्ति॒
कश्चि॑त्
।
वृ॒क्ष
इ॑व
स्त॒ब्धो
दि॒वि
ति॑ष्ठ॒त्येक॒स्तेने॒दं
पू॒र्णं
पुरु॑षेण॒
सर्वम्᳚
॥
13
॥
न
कर्म॑णा
न
प्र॒जया॒
धने॑न॒
त्यागे॑नैके
अमृत॒त्वमा॑न॒शुः
।
परे॑ण॒
नाकं॒
निहि॑तं॒
गुहा॑यां
बि॒भ्राज॑ते॒
यद्यत॑यो
वि॒शन्ति॑
॥
14
॥
वे॒दा॒न्त॒वि॒ज्ञान॒विनि॑श्चिता॒र्थाः
संन्या॑सयो॒गाद्यत॑यः
शुद्ध॒सत्त्वा॑:
।
ते
ब्र॑ह्मलो॒के
तु॒
परान्तकाले॒
परा॑मृता॒:
परि॑मुच्यन्ति॒
सर्वे॑
॥
15
॥
द॒ह्रं॒
वि॒पा॒पं
व॒रवे᳚श्मभूत॒
यत्
पु॑ण्डरी॒कं
पु॒रम॑ध्यस॒ग्ंस्थम्
।
तत्रा॑पि
दह्रे
ग॒गनं॑
विशोकं
तस्मि॑न्
यद॒न्तस्तदुपा॑सित॒व्यम्
॥
16
॥
यो
वेदादौ
स्व॑रः
प्रो॒क्तो॒
वेदान्ते॑
च
प्र॒तिष्ठि॑तः
।
तस्य॑
प्र॒कृति॑लीन॒स्य॒
य॒:
पर॑:
स
म॒हेश्व॑रः
॥
17
॥
त्रयोदशोऽनुवाकः
।
स॒ह॒स्र॒शी॑र्षं
दे॒वं॒
वि॒श्वाक्षं॑
वि॒श्वश॑म्भुवम्
।
विश्वं॑
ना॒राय॑णं
दे॒व॒म॒क्षरं॑
पर॒मं
प्र॒भुम्
॥
1
वि॒श्वत॒:
पर॑मं
नि॒त्य॒
वि॒श्वं
ना॑राय॒णग्ं
ह॑रिम्
।
विश्व॑मे॒वेदं
पुरु॑ष॒स्तद्विश्व॒मुप॑जीवति
॥
2
पतिं॒
विश्व॑स्या॒त्मेश्व॑र॒ग्ं
शाश्व॑तग्ं
शि॒वम॑च्युतम्
।
ना॒राय॒णं
म॑हाज्ञे॒यं॒
वि॒श्वात्मा॑नं
प॒राय॑णम्
॥
3
नारा॑य॒णः
प॑रं
ब्र॒ह्म॒
त॒त्त्वं
ना॑राय॒णः
प॑रः
।
नारा॑य॒णः
प॑रो
ज्यो॒ति॒रा॒त्मा
ना॑राय॒णः
प॑रः
॥
4
(ना॒राय॒णः
प॑रो
ध्या॒ता॒
ध्या॒नं
ना॑राय॒णः
प॑रः
।
)
यच्च॑
कि॒ञ्चिज्ज॑गत्य॒स्मि॒न्
दृ॒श्यते᳚
श्रूय॒तेऽपि॑
वा
।
अन्त॑र्ब॒हिश्च॑
तत्स॒र्वं॒
व्या॒प्य
ना॑राय॒णः
स्थि॑तः
॥
5
अन॑न्त॒मव्य॑यं
क॒विग्ं
स॑मु॒द्रेऽन्तं॑
वि॒श्वश॑म्भुवम्
।
प॒द्म॒को॒शप्र॑तीका॒श॒ग्ं
हृ॒दयं॑
चाप्य॒धोमु॑खम्
॥
6
अधो॑
नि॒ष्ट्या
वि॑तस्त्या॒न्ते॒
ना॒भ्यामु॑परि॒
तिष्ठ॑ति
।
हृ॒दयं॑
तद्वि॑जानी॒या॒द्वि॒श्वस्या॑यत॒नं
म॑हत्
॥
7
सन्त॑तग्ं
सि॒राभि॑स्तु॒
लम्ब॑त्याकोश॒सन्नि॑भम्
।
तस्यान्ते॑
सुषि॒रग्ं
सू॒क्ष्मं
तस्मिन्᳚
स॒र्वं
प्रति॑ष्ठितम्
॥
8
तस्य॒
मध्ये॑
म॒हान॑ग्निर्वि॒श्वार्चि॑र्वि॒श्वतो॑मुखः
।
सोऽग्र॑भु॒ग्विभ॑जन्ति॒ष्ठ॒न्नाहा॑रमज॒रः
क॒विः
॥
9
(ति॒र्य॒गू॒र्ध्वम॑धःशा॒यी
र॒श्मय॑स्तस्य॒
सन्त॑ता
।
)
स॒न्ता॒पय॑ति
स्वं
दे॒हमापा॑दतल॒मस्त॑कम्
।
तस्य॒
मध्ये॒
वह्नि॑शिखा
अ॒णीयो᳚र्ध्वा
व्य॒वस्थि॑ता
॥
10
नी॒लतो॑यद॑मध्य॒स्था॒
वि॒द्युल्ले॑खेव॒
भास्व॑रा
।
नी॒वार॒शूक॑वत्त॒न्वी॒
पी॒ता
भा᳚स्वत्य॒णूप॑मा
॥
11
तस्या᳚:
शिखा॒या
म॑ध्ये
प॒रमा᳚त्मा
व्य॒वस्थि॑तः
।
स
ब्रह्म॒
स
शिव॒:
(स
हरि॒:)
सेन्द्र॒:
सोऽक्ष॑रः
पर॒मः
स्व॒राट्
॥
12
॥
चतुर्दशोऽनुवाकः
।
आ॒दि॒त्यो
वा
ए॒ष
ए॒तन्म॒ण्डलं
तप॑ति॒
तत्र॒
ता
ऋच॒स्तदृ॒चा
म॑ण्डल॒ग्ं
स
ऋ॒चां
लो॒कोऽथ॒
य
ए॒ष
एतस्मि॑न्म॒ण्डलेऽर्चिर्दी॒प्यते॒
तानि॒
सामा॑नि॒
स
सा॒म्नां
लो॒कोऽथ॒
य
ए॒ष
ए॒तस्मि॑न्म॒ण्डले॒ऽर्चिषि॒
पुरु॑ष॒स्तानि॒
यजू॑ग्ंषि॒
स
यजु॑षा
मण्डल॒ग्ं
स
यजु॑षां
लो॒कः
सैषा
त्र॒य्येव॑
वि॒द्या
त॑पति॒
य॑
ए॒षो᳚ऽन्तरा॑दि॒त्ये
हि॑र॒ण्मय॒:
पुरु॑षः
॥
1
॥
पञ्चदशोऽनुवाकः
।
आ॒दि॒त्यो
वै
तेज॒
ओजो॒
बलं
यश॒श्चक्षु॒:
श्रोत्र॑मा॒त्मा
मनो
म॒न्युर्म॒नु॑र्मृ॒त्युः
स॒त्यो
मि॒त्रो
वा॒युरा॑का॒शः
प्रा॒णो
लो॑कपा॒लः
कः
किं
कं
तत्स॒त्यमन्न॑म॒मृतो॑
जी॒वो
विश्व॑:
कत॒मः
स्वय॒म्भु
ब्रह्मै॒तदमृ॑त
ए॒ष
पुरु॑ष
ए॒ष
भू॒ताना॒मधि॑पति॒र्ब्रह्म॑ण॒:
सायु॑ज्यग्ं
सलो॒कता॑माप्नोत्ये॒तासा॑मे॒व
दे॒वता॑ना॒ग्ं
सायु॑ज्यग्ं
सा॒र्ष्टिता॑ग्ं
समानलो॒कता॑माप्नोति॒
य
ए॒वं
वेदे᳚त्युप॒निषत्
॥
1
॥
घृणि॒:
सूर्य॑
आदि॒त्योम॑र्चयन्ति॒
तप॑:
स॒त्यं
मधु॑
क्षरन्ति॒
तद्ब्रह्म॒
तदाप॒
आपो॒
ज्योती॒
रसो॒ऽमृतं॒
ब्रह्म॒
भूर्भुव॒:
सुव॒रोम्
॥
2
॥
षोडशोऽनुवाकः
।
निध॑नपतये॒
नमः
।
निध॑नपतान्तिकाय॒
नमः
।
ऊर्ध्वाय॒
नमः
।
ऊर्ध्वलिङ्गाय॒
नमः
।
हिरण्याय॒
नमः
।
हिरण्यलिङ्गाय॒
नमः
।
सुवर्णाय॒
नमः
।
सुवर्णलिङ्गाय॒
नमः
।
दिव्याय॒
नमः
।
दिव्यलिङ्गाय॒
नमः
।
भवाय॒
नमः
।
भवलिङ्गाय॒
नमः
।
शर्वाय॒
नमः
।
शर्वलिङ्गाय॒
नमः
।
शिवाय॒
नमः
।
शिवलिङ्गाय॒
नमः
।
ज्वलाय॒
नमः
।
ज्वललिङ्गाय॒
नमः
।
आत्माय॒
नमः
।
आत्मलिङ्गाय॒
नमः
।
परमाय॒
नमः
।
परमलिङ्गाय॒
नमः
।
एतत्सोमस्य॑
सूर्य॒स्य॒
सर्वलिङ्ग॑ग्ं
स्थाप॒य॒ति॒
पाणिमन्त्रं॑
पवि॒त्रम्
॥
1
॥
सप्तदशोऽनुवाकः
।
स॒द्योजा॒तं
प्र॑पद्या॒मि॒
स॒द्योजा॒ताय॒
वै
नमो॒
नम॑:
।
भ॒वे
भ॑वे॒
नाति॑भवे
भवस्व॒
माम्
।
भ॒वोद्भ॑वाय॒
नम॑:
॥
1
॥
अष्टदशोऽनुवाकः
।
वा॒म॒दे॒वाय॒
नमो॑
ज्ये॒ष्ठाय॒
नम॑:
श्रे॒ष्ठाय॒
नमो॑
रु॒द्राय॒
नम॒:
काला॑य॒
नम॒:
कल॑विकरणाय॒
नमो॒
बल॑विकरणाय॒
नमो॒
बला॑य॒
नमो॒
बल॑प्रमथनाय॒
नम॒:
सर्व॑भूतदमनाय॒
नमो॑
म॒नोन्म॑नाय॒
नम॑:
॥
1
॥
एकोनविंशोऽनुवाकः
।
अ॒घोरे᳚भ्योऽथ॒
घोरे᳚भ्यो॒
घोर॒घोर॑तरेभ्यः
।
स॒र्वत॑:
शर्व॒
सर्वे᳚भ्यो॒
नम॑स्ते
अस्तु
रु॒द्ररू॑पेभ्यः
॥
1
॥
विंशोऽनुवाकः
।
तत्पुरु॑षाय
वि॒द्महे॑
महादे॒वाय॑
धीमहि
।
तन्नो॑
रुद्रः
प्रचो॒दया᳚त्
॥
1
॥
एकविंशोऽनुवाकः
।
ईशानः
सर्व॑विद्या॒ना॒मीश्वरः
सर्व॑भूता॒नां॒
ब्रह्माऽधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑
शि॒वो
मे॑
अस्तु
सदाशि॒वोम्
॥
1
॥
द्वाविंशोऽनुवाकः
।
नमो
हिरण्यबाहवे
हिरण्यवर्णाय
हिरण्यरूपाय
हिरण्यपतयेऽम्बिकापतय
उमापतये
पशुपतये॑
नमो॒
नमः
॥
1
॥
त्रयोविंशोऽनुवाकः
।
ऋ॒तग्ं
स॒त्यं
प॑रं
ब्र॒ह्म॒
पु॒रुषं॑
कृष्ण॒पिङ्ग॑लम्
।
ऊ॒र्ध्वरे॑तं
वि॑रूपा॒क्षं॒
वि॒श्वरू॑पाय॒
वै
नमो॒
नम॑:
॥
1
॥
चतुर्विंशोऽनुवाकः
।
सर्वो॒
वै
रु॒द्रस्तस्मै॑
रु॒द्राय॒
नमो॑
अस्तु
।
पुरु॑षो॒
वै
रु॒द्रः
सन्म॒हो
नमो॒
नम॑:
।
विश्वं॑
भू॒तं
भुव॑नं
चि॒त्रं
ब॑हु॒धा
जा॒तं
जाय॑मानं
च॒
यत्
।
सर्वो॒
ह्ये॑ष
रु॒द्रस्तस्मै॑
रु॒द्राय॒
नमो॑
अस्तु
॥
1
॥
पञ्चविंशोऽनुवाकः
।
कद्रु॒द्राय॒
प्रचे॑तसे
मी॒ढुष्ट॑माय॒
तव्य॑से
।
वो॒चेम॒
शन्त॑मग्ं
हृ॒दे
॥
सर्वो॒ह्ये॑ष
रु॒द्रस्तस्मै॑
रु॒द्राय॒
नमो॑
अस्तु
॥
1
॥
षड्विंशोऽनुवाकः
।
यस्य॒
वैक॑ङ्कत्यग्निहोत्र॒हव॑णी
भवति॒
(प्रति॑ष्ठिता॒:)
प्रत्ये॒वास्याहु॑तयस्तिष्ठ॒न्त्यथो॒
प्रति॑ष्ठित्यै
॥
1
॥
सप्तविंशोऽनुवाकः
।
कृ॒णु॒ष्व
पाज॒
इति॒
पञ्च॑
।
कृ॒णु॒ष्व
पाज॒:
प्रसि॑तिं॒
न
पृ॒थ्वीं
या॒हि
राजे॒वाम॑वा॒ँ
इभे॑न
।
तृ॒ष्वीमनु॒
प्रसि॑तिं
द्रूणा॒नोऽस्ता॑सि॒
विध्य॑
र॒क्षस॒स्तपि॑ष्ठैः
॥
1
॥
तव॑
भ्र॒मास॑
आशु॒या
प॑त॒न्त्यनु॑
स्पृश
धृष॒ता
शोशु॑चानः
।
तपूं॑ष्यग्ने
जु॒ह्वा॑
पत॒ङ्गानस॑न्दितो॒
वि
सृ॑ज॒
विष्व॑गु॒ल्काः
॥
2
॥
प्रति॒
स्पशो॒
विसृ॑ज॒
तूर्णि॑तमो॒
भवा॑
पा॒युर्वि॒शी
अ॒स्या
अद॑ब्धः
।
यो
नो॑
दू॒रे
अ॒घशं॑
सो॒
यो
अन्त्यग्ने॒
माकि॑ष्टे॒
व्यथि॒राद॑धर्षीत्
॥
3
॥
उद॑ग्ने
तिष्ठ॒
प्रत्या
त॑नुष्व॒
न्य॑मित्रा॑ँ
ओषतात्तिग्महेते
।
यो
नो॒
अरा॑तिं
समिधान
च॒क्रे
नी॒चातं
ध॑क्ष्यत॒सं
न
शुष्क॑म्
॥
4
॥
ऊ॒र्ध्वो
भ॑व॒
प्रतिं॑
वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒
दैव्या॑न्यग्ने
।
अव॑स्थि॒रा
त॑नुहि
यातु॒जूनां॑
जा॒मिमजा॑मिं॒
प्रमृ॑णीहि॒
शत्रू॑न्
॥
5
॥
अष्टाविंशोऽनुवाकः
।
अदि॑तिर्दे॒वा
ग॑न्ध॒र्वा
म॑नु॒ष्या॑:
पि॒तरोऽसु॑रा॒स्तेषाग्ं॑
सर्वभू॒तानां᳚
मा॒ता
मे॒दिनी॑
मह॒ती
म॒ही
सा॑वि॒त्री
गा॑य॒त्री
जग॑त्यु॒र्वी
पृ॒थ्वी
ब॑हु॒ला
विश्वा॑
भू॒ता
क॑त॒मा
काया
सा
स॒त्येत्य॒मृतेति॑
वासि॒ष्ठः
॥
1
॥
एकोनत्रिंशोऽनुवाकः
।
आपो॒
वा
इ॒दग्ं
सर्वं॒
विश्वा॑
भू॒तान्याप॑:
प्रा॒णा
वा
आप॑:
प॒शव॒
आपोऽन्न॒मापोऽमृ॑त॒माप॑:
स॒म्राडापो॑
वि॒राडाप॑:
स्व॒राडाप॒श्छन्दा॒ग्॒स्यापो॒
ज्योती॒ग्॒ष्यापो॒
यजू॒ग्॒ष्याप॑:
स॒त्यमाप॒:
सर्वा॑
दे॒वता॒
आपो॒
भूर्भुव॒:
सुव॒राप॒
ओम्
॥
1
॥
त्रिंशोऽनुवाकः
।
आप॑:
पुनन्तु
पृथि॒वीं
पृथि॒वी
पू॒ता
पु॑नातु॒
माम्
।
पु॒नन्तु॒
ब्रह्म॑ण॒स्पति॒र्ब्रह्म॑पू॒ता
पु॑नातु
माम्
॥
1
॥
यदुच्छि॑ष्टमभो᳚ज्यं॒
यद्वा॑
दु॒श्चरि॑तं॒
मम॑
।
सर्वं॑
पुनन्तु॒
मामापो॑ऽस॒तां
च॑
प्रति॒ग्रह॒ग्ं
स्वाहा᳚
॥
2
॥
एकत्रिंशोऽनुवाकः
।
अग्निश्च
मा
मन्युश्च
मन्युपतयश्च
मन्यु॑कृते॒भ्यः
।
पापेभ्यो॑
रक्ष॒न्ताम्
।
यदह्ना
पाप॑मका॒र्षम्
।
मनसा
वाचा॑
हस्ता॒भ्याम्
।
पद्भ्यामुदरे॑ण
शि॒श्ना
।
अह॒स्तद॑वलु॒म्पतु
।
यत्किञ्च॑
दुरि॒तं
मयि॑
।
इ॒दम॒हं
माममृत॑यो॒नौ
।
सत्ये
ज्योतिषि
जुहो॑मि
स्वा॒हा
॥
1
॥
द्वात्रिंशोऽनुवाकः
।
सूर्यश्च
मा
मन्युश्च
मन्युपतयश्च
मन्यु॑कृते॒भ्यः
।
पापेभ्यो॑
रक्ष॒न्ताम्
।
यद्रात्रिया
पाप॑मका॒र्षम्
।
मनसा
वाचा॑
हस्ता॒भ्याम्
।
पद्भ्यामुदरे॑ण
शि॒श्ना
।
रात्रि॒स्तद॑वलु॒म्पतु
।
यत्किञ्च॑
दुरि॒तं
मयि॑
।
इ॒दम॒हं
माममृत॑यो॒नौ
।
सूर्ये
ज्योतिषि
जुहो॑मि
स्वा॒हा
॥
1
॥
त्रयस्त्रिंशोऽनुवाकः
।
ओमित्येकाक्ष॑रं
ब्र॒ह्म
।
अग्निर्देवता
ब्रह्म॑
इत्या॒र्षम्
।
गायत्रं
छन्दम्
।
परमात्मं॑
सरू॒पम्
।
सायुज्यं
वि॑नियो॒गम्
॥
1
॥
चतुस्त्रिंशोऽनुवाकः
।
आया॑तु॒
वर॑दा
दे॒वी॒
अ॒क्षरं॑
ब्रह्म॒
संमि॑तम्
।
गा॒य॒त्रीं᳚
छन्द॑सां
मा॒ते॒दं
ब्र॑ह्म
जु॒षस्व॑
नः
॥
1
यदह्ना᳚त्कुरु॑ते
पा॒पं॒
तदह्ना᳚त्प्रति॒मुच्य॑ते
।
यद्रात्रिया᳚त्कुरु॑ते
पा॒पं॒
तद्रात्रिया᳚त्प्रति॒मुच्य॑ते
।
सर्व॑व॒र्णे
म॑हादे॒वि॒
स॒न्ध्यावि॑द्ये
स॒रस्व॑ति
॥
2
पञ्चत्रिंशोऽनुवाकः
।
ओजो॑ऽसि॒
सहो॑ऽसि॒
बलम॑सि॒
भ्राजो॑ऽसि
दे॒वानां॒
धाम॒नामा॑सि
विश्व॑मसि
वि॒श्वायु॒:
सर्व॑मसि
स॒र्वायुरभिभूरोम्
।
गायत्रीमावा॑हया॒मि॒
।
सावित्रीमावा॑हया॒मि॒
।
सरस्वतीमावा॑हया॒मि॒
।
छन्दर्षीनावा॑हया॒मि॒
।
श्रियमावा॑हया॒मि॒
॥
गा॒यत्रिया
गायत्री
छन्दो
विश्वामित्र
ऋषिः
सविता
देवता
अग्निर्मुखं
ब्रह्माशिरो
विष्णुर्हृदयग्ं
रुद्रः
शिखा
पृथिवी
योनिः
प्राणापानव्यानोदान
समाना
सप्राणा
श्वेतवर्णा
साङ्ख्यायन
सगोत्रा
गायत्री
चतुर्विंशत्यक्षरा
त्रिपदा॑
षट्कु॒क्षि॒:
पञ्चशीर्षोपनयने
वि॑नियो॒ग॒:
॥
ओं
भूः
।
ओं
भुवः
।
ओग्ं
सुवः
।
ओं
महः
।
ओं
जनः
।
ओं
तपः
।
ओग्ं
सत्यम्
।
ओं
तत्स॑वि॒तुर्वरे᳚ण्य॒म्
।
भर्गो॑
दे॒वस्य॑
धीमहि
।
धियो॒
यो
न॑:
प्रचो॒दया᳚त्
।
ओमापो॒
ज्योती॒
रसो॒ऽमृतं॒
ब्रह्म॒
भूर्भुव॒:
सुव॒रोम्
॥
2
॥
षट्त्रिंशोऽनुवाकः
।
उ॒त्तमे॑
शिख॑रे
जा॒ते॒
भू॒म्यां
प॑र्वत॒मूर्ध॑नि
ब्राह्मणे᳚भ्योऽभ्य॑नुज्ञा॒ता॒
ग॒च्छ
दे॑वि
य॒थासु॑खम्
॥
1
स्तुतो
मया
वरदा
वे॑दमा॒ता॒
प्रचोदयन्ती
पवने᳚
द्विजा॒ता
।
आयुः
पृथिव्यां
द्रविणं
ब्र॑ह्मव॒र्च॒सं॒
मह्यं
दत्वा
प्रजातुं
ब्र॑ह्मलो॒कम्
॥
2
स्तु॒ता
मया॑
वर॒दा
वे॑दमा॒ता
प्रचो॑दयन्तां
पावमा॒नी
द्वि॒जाना॑म्
।
आयु॑:
प्रा॒णं
प्र॒जां
प॒शुं
की॒र्तिं
द्रवि॑णं
ब्रह्मवर्च॒सं
मह्यं॑
द॒त्वा
व्र॑जत
ब्रह्मलो॒कम्
॥
सप्तत्रिंशोऽनुवाकः
।
घृणि॒:
सूर्य॑
आदि॒त्यो
न
प्रभा॑
वा॒त्यक्ष॑रम्
।
मधु॑
क्षरन्ति॒
तद्र॑सम्
।
स॒त्यं
वै
तद्रस॒मापो॒
ज्योती॒
रसो॒ऽमृतं॒
ब्रह्म॒
भूर्भुवः
सुव॒रोम्
॥
1
॥
अष्टत्रिंशोऽनुवाकः
।
ब्रह्म॑मेतु॒
माम्
।
मधु॑मेतु॒
माम्
।
ब्रह्म॑मे॒व
मधु॑मेतु॒
माम्
।
यास्ते
सो॑म
प्र॒जा
व॒त्सोऽभि॒
सो
अ॒हम्
।
दुःष्वप्न॒हन्
दु॑रुष्षह
।
यास्ते॑
सोम
प्रा॒णाग्ं
स्ताञ्जु॑होमि
॥
1
॥
त्रिसु॑पर्ण॒मया॑चितं
ब्राह्म॒णाय॑
दद्यात्
।
ब्र॒ह्म॒ह॒त्यां
वा
ए॒ते
घ्न॑न्ति
।
ये
ब्रा᳚ह्म॒णास्त्रिसु॑पर्णं॒
पठ॑न्ति
।
ते
सोमं॒
प्राप्नु॑वन्ति
।
आ॒
स॒ह॒स्रात्
प॒ङ्क्तिं
पुन॑न्ति
।
ओम्
॥
2
॥
एकोनचत्वारिंशोऽनुवाकः
।
ब्रह्म॑
मे॒धया᳚
।
मधु॑
मे॒धया᳚
।
ब्रह्म॑मे॒व
मधु॑
मे॒धया᳚
॥
1
॥
अ॒द्यानो॑
देव
सवितः
प्र॒जाव॑त्सावी॒:
सौभ॑गम्
।
परा᳚
दुःष्वप्नि॑यग्ं
सुव
॥
2
॥
विश्वा॑नि
देव
सवितर्दुरि॒तानि॒
परा॑सुव
।
यद्भ॒द्रं
तन्म॒
आसु॑व
॥
मधु॒वाता॑
ऋताय॒ते
मधु॑क्षरन्ति॒
सिन्ध॑वः
।
माध्वी᳚र्नः
स॒न्त्वौष॑धीः
॥
मधु॒
नक्त॑मु॒तोष॑सि॒
मधु॑म॒त्पार्थि॑वग्ं
रज॑:
।
मधु॒द्यौर॑स्तु
नः
पि॒ता
॥
मधु॑मान्नो॒
वन॒स्पति॒र्मधु॑माग्ं
अस्तु॒
सूर्य॑:
।
माध्वी॒र्गावो॑
भवन्तु
नः
॥
यां
मे॒धां
दे॑वग॒णाः
पि॒तर॑श्चो॒पास॑ते
।
तया॒
माम॒द्य
मे॒धयाग्ने॑
मे॒धावि॑नं
कुरु॒
स्वाहा॑
॥
1
मे॒धां
मे॒
वरु॑णो
ददातु
मे॒धाम॒ग्निः
प्र॒जाप॑तिः
।
मे॒धामिन्द्र॑श्च
वा॒युश्च॑
मे॒धां
धा॒ता
द॑दातु
मे॒
स्वाहा॑
॥
2
त्वं
नो॑
मेधे
प्रथ॒मा
गोभि॒रश्वे॑भि॒राग॑हि
।
त्वं
सूर्य॑स्य
र॒ष्मिभि॒स्त्वं
नो॑
असि
य॒ज्ञिया॑
॥
3
मे॒धाम॒हं
प्र॑थ॒मं
ब्रह्म॑ण्वतीं॒
ब्रह्म॑जूता॒मृषि॑ष्टुताम्
।
प्रपी॑तां
ब्रह्मचा॒रिभि॑र्दे॒वाना॒मव॑से
हुवे
॥
4
यां
मे॒धामृ॒भवो॑
वि॒दुर्या
मे॒धामसु॑रा
वि॒दुः
।
ऋष॑यो
भ॒द्रां
मे॒धां
यां
वि॒दुस्तां
मय्यावे॑शयामसि
॥
5
यामृष॑यो
भूत॒कृतो॑
मे॒धां
मे॑धा॒विनो॑वि॒दुः
।
तया॒
माम॒द्य
मे॒धयाग्ने॑
मेधा॒विनं॑
कृणु
॥
6
मे॒धां
सा॒यं
मे॒धां
प्रा॒तर्मे॒धां
म॒ध्यन्दि॑नं॒
परि॑
।
मे॒धां
सूर्य॑स्य
र॒ष्मिभि॒र्वच॒सावे॑शयामहे
॥
7
य
इ॒मं
त्रिसु॑पर्ण॒मया॑चितं
ब्राह्म॒णाय॑
दद्यात्
।
भ्रूण॒ह॒त्यां
वा
ए॒ते
घ्न॑न्ति
।
ये
ब्रा᳚ह्म॒णास्त्रिसु॑पर्णं॒
पठ॑न्ति
।
ते
सोमं॒
प्राप्नु॑वन्ति
।
आ॒
स॒ह॒स्रा॒त्प॒ङ्क्तिं
पुन॑न्ति
।
ओम्
॥
7
॥
चत्वारिंशोऽनुवाकः
।
ब्रह्म॑
मे॒धवा᳚
।
मधु॑
मे॒धवा᳚
।
ब्रह्म॑मे॒व
मधु॑
मे॒धवा॑
॥
1
॥
ब्र॒ह्मा
दे॒वानां᳚
पद॒वीः
क॑वी॒नामृषि॒र्विप्रा॑णां
महि॒षो
मृ॒गाणा॑म्
।
श्ये॒नो
गृद्ध्रा॑णा॒ग्ं
स्वधि॑ति॒र्वना॑ना॒ग्ं
सोम॑:
प॒वित्र॒मत्ये॑ति॒
रेभन्॑
॥
2
॥
ह॒ग्ंसः
शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑
वेदि॒षदति॑थिर्दुरोण॒सत्
।
नृ॒षद्व॑र॒सदृ॑तसद्व्यो॑म॒सद॒ब्जा
गो॒जा
ऋ॑त॒जा
अ॑द्रि॒जा
ऋ॒तं
बृ॒हत्
॥
3
॥
ऋ॒चे
त्वा॑
रु॒चे
त्वा॒
समित्स्र॑वन्ति
स॒रितो॒
न
धेना᳚:
।
अ॒न्तर्हृ॒दा
मन॒सा
पू॒यमा॑नाः
।
घृ॒तस्य॒
धारा॑
अ॒भिचा॑कशीमि
॥
4
॥
हि॒र॒ण्ययो॑
वेत॒सो
मध्य॑
आसाम्
।
तस्मि᳚न्त्सुप॒र्णो
म॑धु॒कृत्
कु॑ला॒यी
भज॑न्नास्ते॒
मधु॑
दे॒वता᳚भ्यः
।
तस्या॑सते॒
ह॑रयः
स॒प्त
तीरे᳚
स्व॒धां
दुहा॑ना
अ॒मृत॑स्य॒
धारा᳚म्
॥
5
॥
य
इ॒दं
त्रिसु॑पर्ण॒मया॑चितं
ब्राह्म॒णाय॑
दद्यात्
।
वी॒र॒ह॒त्यां
वा
ए॒ते
घ्न॑न्ति
।
ये
ब्रा᳚ह्म॒णास्त्रिसु॑पर्णं॒
पठ॑न्ति
।
ते
सोमं॒
प्राप्नु॑वन्ति
।
आ॒स॒हस्रात्
प॒ङ्क्तिं
पुन॑न्ति
।
ओम्
॥
6
॥
एकचत्वारिंशोऽनुवाकः
।
मे॒धादे॒वी
जु॒षमाणा
न॒
आगा᳚द्वि॒श्वाची॑
भ॒द्रा
सु॑मन॒स्यमा॑ना
।
त्वया॒
जुष्टा॑
नु॒दमा॑णा
दु॒रुक्ता᳚न्बृ॒हद्व॑देम
वि॒दथे॑
सु॒वीरा᳚:
॥
1
त्वया॒
जुष्ट॑
ऋ॒षिर्भ॑वति
देवि॒
त्वया॒
ब्रह्मा॑ऽऽग॒तश्री॑रु॒त
त्वया᳚
।
त्वया॒
जुष्ट॑श्चि॒त्रं
वि॑न्दते॒
वसु॒
सा
नो॑
जुषस्व॒
द्रवि॑णो
न
मेधे
॥
2
द्विचत्वारिंशोऽनुवाकः
।
मे॒धां
म॒
इन्द्रो॑
ददातु
मे॒धां
दे॒वी
सर॑स्वती
।
मे॒धां
मे॑
अ॒श्विना॑वु॒भावाध॑त्तां॒
पुष्क॑रस्रजौ
॥
1
अ॒प्स॒रासु॑
च॒
या
मे॒धा
ग॑न्ध॒र्वेषु॑
च॒
यन्मन॑:
।
दैवी᳚
मे॒धा
सर॑स्वती॒
सा
मां᳚
मे॒धा
सु॒रभि॑र्जुषता॒ग्॒
स्वाहा᳚
॥
2
त्रिचत्वारिंशोऽनुवाकः
।
आ
मां᳚
मे॒धा
सु॒रभि॑र्वि॒श्वरू॑पा॒
हिर॑ण्यवर्णा॒
जग॑ती
जग॒म्या
।
ऊर्ज॑स्वती॒
पय॑सा॒
पिन्व॑माना॒
सा
मां᳚
मे॒धा
सु॒प्रती॑का
जुषन्ताम्
॥
1
चतुश्चत्वारिंशोऽनुवाकः
।
मयि॑
मे॒धां
मयि॑
प्र॒जां
मय्य॒ग्निस्तेजो॑
दधातु॒
मयि॑
मे॒धां
मयि॑
प्र॒जां
मयीन्द्र॑
इन्द्रि॒यं
द॑धातु॒
मयि॑
मे॒धां
मयि॑
प्र॒जां
मयि॒
सूर्यो॒
भ्राजो॑
दधातु
॥
1
॥
पञ्चचत्वारिंशोऽनुवाकः
।
अपै॑तु
मृ॒त्युर॒मृतं॑
न॒
आग॑न्वैवस्व॒तो
नो॒
अभ॑यं
कृणोतु
।
प॒र्णं
वन॒स्पते॑रिवा॒भि
न॑:
शीयताग्ंर॒यिः
सच॑तां
न॒:
शची॒पति॑:
॥
1
॥
षट्चत्वारिंशोऽनुवाकः
।
परं॑
मृत्यो॒
अनु॒परे॑हि
पन्थां॒
यस्ते॒
स्व
इत॑रो
देव॒याना᳚त्
।
चक्षु॑ष्मते
शृण्व॒ते
ते᳚
ब्रवीमि॒
मा
न॑:
प्र॒जाग्ं
री॑रिषो॒
मोत
वी॒रान्
॥
1
॥
सप्तचत्वारिंशोऽनुवाकः
।
वातं॑
प्रा॒णं
मन॑सा॒न्वार॑भामहे
प्रजाप॑तिं॒
यो
भुव॑नस्य
गो॒पाः
।
स
नो॑
मृत्योस्त्रा॑यतां॒
पात्वग्ंह॑सो॒
ज्योग्जी॒वा
ज॒राम॑
शीमहि
॥
1
॥
अष्टचत्वारिंशोऽनुवाकः
।
अ॒मु॒त्र॒भूया॒दध॒
यद्य॒मस्य॒
बृह॑स्पते
अ॒भिश॑स्ते॒रमु॑ञ्चः
।
प्रत्यौ॑हताम॒श्विना॑
मृत्युम॑स्मद्दे॒वाना॑मग्ने
भि॒षजा॒
शची॑भिः
॥
1
॥
एकोनपञ्चाशोऽनुवाकः
।
हरि॒ग्ं
हर॑न्त॒मनु॑यन्ति
दे॒वा
विश्व॒स्येशा॑नं
वृष॒भं
म॑ती॒नाम्
।
ब्रह्म॒सरू॑प॒मनु॑
मे॒दमागा॒दय॑नं॒
मा
विव॑धी॒र्विक्र॑मस्व
॥
1
॥
पञ्चाशोऽनुवाकः
।
शल्कै॑र॒ग्निमि॑न्धा॒न
उ॒भौ
लो॒कौ
स॑नेम॒हम्
।
उ॒भयो᳚र्लो॒कयो॑रृ॒ध्वाति॑
मृ॒त्युं
त॑राम्य॒हम्
॥
1
॥
एकपञ्चाशोऽनुवाकः
।
मा
छि॑दो
मृत्यो॒
मा
व॑धी॒र्मा
मे॒
बलं॒
विवृ॑हो॒
मा
प्रमो॑षीः
।
प्र॒जां
मा
मे॑
रीरिष॒
आयुरुग्र
नृचक्ष॑सं
त्वा
ह॒विषा॑
विधेम
॥
1
॥
द्विपञ्चाशोऽनुवाकः
।
मा
नो॑
म॒हान्त॑मु॒त
मा
नो॑
अर्भ॒कं
मा
न॒
उक्ष॑न्तमु॒त
मा
न॑
उक्षि॒तम्
।
मा
नो॑ऽवधीः
पि॒तरं॒
मोत
मा॒तरं॑
प्रि॒या
मा
न॑स्त॒नुवो॑
रुद्र
रीरिषः
॥
1
॥
त्रिपञ्चाशोऽनुवाकः
।
मा
न॑स्तो॒के
तन॑ये॒
मा
न॒
आयु॑षि॒
मा
नो॒
गोषु॒
मा
नो॒
अश्वे॑षु
रीरिषः
।
वी॒रान्मा
नो॑
रुद्र
भामि॒तोऽव॑धीर्ह॒विष्म॑न्तो॒
नम॑सा
विधेम
ते
॥
1
॥
चतुष्पञ्चाशोऽनुवाकः
।
प्रजा॑पते॒
न
त्वदे॒तान्य॒न्यो
विश्वा॑
जा॒तानि॒
परि॒
ता
ब॑भूव
।
यत्का॑मस्ते
जुहु॒मस्तन्नो॑
अस्तु
व॒यग्ं
स्या॑म॒
पत॑यो
रयी॒णाम्
॥
1
॥
पञ्चपञ्चाशोऽनुवाकः
।
स्व॒स्ति॒दा
वि॒शस्पति॑र्वृत्र॒हा
विमृधो॑
व॒शी
।
वृषेन्द्र॑:
पु॒र
ए॑तु
नः
स्वस्ति॒दा
अ॑भयङ्क॒रः
॥
1
॥
षट्पञ्चाशोऽनुवाकः
।
त्र्य॑म्बकं
यजामहे
सुग॒न्धिं
पु॑ष्टि॒वर्ध॑नम्
।
उ॒र्वा॒रु॒कमि॑व॒
बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒
माऽमृता᳚त्
॥
1
॥
सप्तपञ्चाशोऽनुवाकः
।
ये
ते॑
स॒हस्र॑म॒युतं॒
पाशा॒
मृत्यो॒
मर्त्या॑य॒
हन्त॑वे
।
तान्
य॒ज्ञस्य॑
मायया॒
सर्वा॒नव॑यजामहे
॥
1
॥
अष्टपञ्चाशोऽनुवाकः
।
मृत्यवे॒
स्वाहा॑
मृत्यवे॒
स्वाहा᳚
॥
1
॥
एकोनषष्टितमोऽनुवाकः
।
दे॒वकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि॒
स्वाहा᳚
।
म॒नु॒ष्य॑कृत॒स्यैन॑सोऽव॒यज॑नमसि॒
स्वाहा᳚
।
पि॒तृकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि॒
स्वाहा᳚
।
आ॒त्मकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि॒
स्वाहा᳚
।
अ॒न्यकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि॒
स्वाहा᳚
।
अ॒स्मत्कृ॑त॒स्यैन॑सोऽव॒यज॑नमसि॒
स्वाहा᳚
।
यद्दि॒वा
च॒
नक्तं॒
चैन॑श्चकृ॒म
तस्या॑व॒यज॑नमसि॒
स्वाहा᳚
।
यत्स्व॒प॑न्तश्च॒
जाग्र॑त॒श्चैन॑श्चकृ॒म
तस्या॑व॒यज॑नमसि॒
स्वाहा᳚
।
यत्सु॒षुप्त॑श्च॒
जाग्र॑त॒श्चैन॑श्चकृ॒म
तस्या॑व॒यज॑नमसि॒
स्वाहा᳚
।
यद्वि॒द्वाग्ंसश्चावि॑द्वाग्ंसश्चैन॑श्चकृ॒म
तस्या॑व॒यज॑नमसि॒
स्वाहा᳚
।
एनस
एनसोऽवयजनम॑सि
स्वा॒हा
॥
1
॥
षष्टितमोऽनुवाकः
।
यद्वो॑
देवाश्चकृ॒म
जि॒ह्वया॑
गु॒रु
मन॑सो
वा॒
प्रयु॑ती
देव॒हेड॑नम्
।
अरा॑वा॒
यो
नो॑
अ॒भि
दु॑च्छुना॒यते॒
तस्मि॒न्
तदेनो॑
वसवो॒
निधे॑तन॒
स्वाहा᳚
॥
1
॥
एकषष्टितमोऽनुवाकः
।
कामोऽकार्षी᳚न्नमो॒
नमः
।
कामोऽकार्षीत्कामः
करोति
नाहं
करोमि
कामः
कर्ता
नाहं
कर्ता
काम॑:
कार॒यिता
नाहं॑
कार॒यिता
एष
ते
काम
कामा॑य
स्वा॒हा
॥
1
॥
द्विषष्टितमोऽनुवाकः
।
मन्युरकार्षी᳚न्नमो॒
नमः
।
मन्युरकार्षीन्मन्युः
करोति
नाहं
करोमि
मन्युः
कर्ता
नाहं
कर्ता
मन्यु॑:
कार॒यिता
नाहं॑
कार॒यिता
एष
ते
मन्यो
मन्य॑वे
स्वा॒हा
॥
1
॥
त्रिषष्टितमोऽनुवाकः
।
तिलाञ्जुहोमि
सरसान्
सपिष्टान्
गन्धार
मम
चित्ते
रम॑न्तु
स्वा॒हा
॥
1
॥
गावो
हिरण्यं
धनमन्नपानग्ं
सर्वेषाग्ं
श्रि॑यै
स्वा॒हा
॥
2
॥
श्रियं
च
लक्ष्मिं
च
पुष्टिं
च
कीर्तिं॑
चानृ॒ण्यताम्
।
ब्राह्मण्यं
ब॑हुपु॒त्रताम्
।
श्रद्धामेधे
प्रजाः
सन्ददा॑तु
स्वा॒हा
॥
3
॥
चतुःषष्टितमोऽनुवाकः
।
तिलाः
कृष्णास्ति॑लाः
श्वे॒ता॒स्तिलाः
सौम्या
व॑शानु॒गाः
।
तिलाः
पुनन्तु॑
मे
पा॒पं॒
यत्किञ्चिद्
दुरितं
म॑यि
स्वा॒हा
॥
1
॥
चोर॒स्यान्नं
न॑वश्रा॒द्धं॒
ब्र॒ह्म॒हा
गु॑रुत॒ल्पगः
।
गोस्तेयग्ं
सु॑रापा॒नं॒
भ्रूणहत्या
तिला
शान्तिग्ं
शमय॑न्तु
स्वा॒हा
॥
2
॥
श्रीश्च
लक्ष्मीश्च
पुष्टीश्च
कीर्तिं॑
चानृ॒ण्यताम्
।
ब्रह्मण्यं
ब॑हुपु॒त्रताम्
।
श्रद्धामेधे
प्रज्ञा
तु
जातवेदः
सन्ददा॑तु
स्वा॒हा
॥
3
॥
पञ्चषष्टितमोऽनुवाकः
।
प्राणापानव्यानोदानसमाना
मे॑
शुध्य॒न्तां॒
ज्योति॑र॒हं
वि॒रजा॑
विपा॒प्मा
भू॑यास॒ग्ं
स्वाहा᳚
॥
1
॥
वाङ्मनश्चक्षुःश्रोत्रजिह्वाघ्राणरेतोबुद्ध्याकूतिःसङ्कल्पा
मे॑
शुध्य॒न्तां॒
ज्योति॑र॒हं
वि॒रजा॑
विपा॒प्मा
भू॑यास॒ग्ं
स्वाहा᳚
॥
2
॥
त्वक्चर्ममांसरुधिरमेदोमज्जास्नायवोऽस्थीनि
मे॑
शुध्य॒न्तां॒
ज्योति॑र॒हं
वि॒रजा॑
विपा॒प्मा
भू॑यास॒ग्ं
स्वाहा᳚
॥
3
॥
शिरःपाणिपादपार्श्वपृष्ठोरूधरजङ्घाशिश्नोपस्थपायवो
मे॑
शुध्य॒न्तां॒
ज्योति॑र॒हं
वि॒रजा॑
विपा॒प्मा
भू॑यास॒ग्ं
स्वाहा᳚
॥
4
॥
उत्तिष्ठ
पुरुष
हरित
पिङ्गल
लोहिताक्षि
देहि
देहि
ददापयिता
मे॑
शुध्य॒न्तां॒
ज्योति॑र॒हं
वि॒रजा॑
विपा॒प्मा
भू॑यास॒ग्ं
स्वाहा᳚
॥
5
॥
षट्षष्टितमोऽनुवाकः
।
पृथिव्यप्तेजोवायुराकाशा
मे॑
शुध्य॒न्तां॒
ज्योति॑र॒हं
वि॒रजा॑
विपा॒प्मा
भू॑यास॒ग्ं
स्वाहा᳚
॥
1
॥
शब्दस्पर्शरूपरसगन्धा
मे॑
शुध्य॒न्तां॒
ज्योति॑र॒हं
वि॒रजा॑
विपा॒प्मा
भू॑यास॒ग्ं
स्वाहा᳚
॥
2
॥
मनोवाक्कायकर्माणि
मे॑
शुध्य॒न्तां॒
ज्योति॑र॒हं
वि॒रजा॑
विपा॒प्मा
भू॑यास॒ग्ं
स्वाहा᳚
॥
3
॥
अव्यक्तभावैर॑हङ्का॒रै॒-
र्ज्योति॑र॒हं
वि॒रजा॑
विपा॒प्मा
भू॑यास॒ग्ं
स्वाहा᳚
॥
4
॥
आत्मा
मे॑
शुध्य॒न्तां॒
ज्योति॑र॒हं
वि॒रजा॑
विपा॒प्मा
भू॑यास॒ग्ं
स्वाहा᳚
॥
5
॥
अन्तरात्मा
मे॑
शुध्य॒न्तां॒
ज्योति॑र॒हं
वि॒रजा॑
विपा॒प्मा
भू॑यास॒ग्ं
स्वाहा᳚
॥
6
॥
परमात्मा
मे॑
शुध्य॒न्तां॒
ज्योति॑र॒हं
वि॒रजा॑
विपा॒प्मा
भू॑यास॒ग्ं
स्वाहा᳚
॥
7
॥
क्षु॒धे
स्वाहा᳚
।
क्षुत्पि॑पासाय॒
स्वाहा᳚
।
विवि॑ट्यै॒
स्वाहा᳚
।
ऋग्वि॑धानाय॒
स्वाहा᳚
।
क॒षो᳚त्काय॒
स्वाहा᳚
।
ओं
स्वाहा᳚
॥
8
॥
क्षु॒त्पि॒पा॒साम॑लां
ज्ये॒ष्ठा॒मलक्ष्मीर्नाश॑या॒म्यहम्
।
अभू॑तिमस॑मृद्धिं॒
च॒
सर्वान्नि॑र्णुद
मे
पाप्मा॑नग्ं
स्वा॒हा
॥
9
॥
अन्नमयप्राणमयमनोमयविज्ञानमयमानन्दमयमात्मा
मे॑
शुध्य॒न्तां॒
ज्योति॑र॒हं
वि॒रजा॑
विपा॒प्मा
भू॑यास॒ग्ं
स्वाहा᳚
॥
10
॥
सप्तषष्टितमोऽनुवाकः
।
अ॒ग्नये॒
स्वाहा᳚
।
विश्वे᳚भ्यो
दे॒वेभ्य॒:
स्वाहा᳚
।
ध्रु॒वाय॑
भू॒माय॒
स्वाहा᳚
।
ध्रु॒व॒क्षित॑ये
स्वाहा᳚
।
अ॒च्यु॒त॒क्षित॑ये॒
स्वाहा᳚
।
अ॒ग्नये᳚
स्विष्ट॒कृते॒
स्वाहा᳚
॥
धर्मा॑य॒
स्वाहा᳚
।
अध॑र्माय॒
स्वाहा᳚
।
अ॒द्भ्यः
स्वाहा᳚
।
ओ॒ष॒धि॒व॒न॒स्प॒तिभ्य॒:
स्वाहा᳚
।
र॒क्षो॒दे॒व॒ज॒नेभ्य॒:
स्वाहा᳚
।
गृह्याभ्य॒:
स्वाहा᳚
।
अ॒व॒साने᳚भ्य॒:
स्वाहा᳚
।
अ॒व॒सान॑पतिभ्य॒:
स्वाहा᳚
।
स॒र्व॒भू॒तेभ्य॒:
स्वाहा᳚
।
कामा॑य॒
स्वाहा᳚
।
अ॒न्तरि॑क्षाय॒
स्वाहा᳚
।
यदेज॑ति॒
जग॑ति॒
यच्च॒
चेष्ट॑ति॒
नाम्नो॑
भा॒गोऽयं
नाम्ने॒
स्वाहा᳚
।
पृ॒थि॒व्यै
स्वाहा᳚
।
अ॒न्तरि॑क्षाय॒
स्वाहा᳚
।
दि॒वे
स्वाहा᳚
।
सूर्या॑य॒
स्वाहा᳚
।
च॒न्द्रम॑से॒
स्वाहा᳚
।
नक्ष॑त्रेभ्य॒:
स्वाहा᳚
।
इन्द्रा॑य॒
स्वाहा᳚
।
बृह॒स्पत॑ये॒
स्वाहा᳚
।
प्र॒जाप॑तये॒
स्वाहा᳚
।
ब्रह्म॑णे॒
स्वाहा᳚
।
स्व॒धा
पि॒तृभ्यः
स्वाहा᳚
।
नमो॑
रु॒द्राय॑
पशुपत॑ये॒
स्वाहा᳚
।
दे॒वेभ्य॒:
स्वाहा᳚
।
पि॒तृभ्य॑:
स्व॒धास्तु॑
।
भू॒तेभ्यो॒
नम॑:
।
म॒नु॒ष्ये᳚भ्यो॒
हन्ता᳚
।
प्र॒जाप॑तये॒
स्वाहा᳚
।
परमेष्ठिने॒
स्वाहा᳚
॥
1
॥
यथा
कू॑पः
श॒तधा॑रः
स॒हस्र॑धारो॒
अक्षि॑तः
।
ए॒वा
मे॑
अस्तु
धा॒न्यग्ं
स॒हस्र॑धार॒मक्षि॑तम्
॥
धन॑धान्यै॒
स्वाहा᳚
॥
2
॥
ये
भू॒ताः
प्र॒चर॑न्ति॒
दिवा॒नक्तं॒
बलि॑मि॒च्छन्तो॑
वि॒तुद॑स्य॒
प्रेष्या᳚:
।
तेभ्यो॑
ब॒लिं
पु॑ष्टि॒कामो॑
हरामि॒
मयि॒
पुष्टिं॒
पुष्टि॑पतिर्दधातु॒
स्वाहा᳚
॥
3
॥
अष्टषष्टितमोऽनुवाकः
।
ओं᳚
तद्ब्र॒ह्म
ओं᳚
तद्वा॒युः
ओं᳚
तदा॒त्मा
ओं᳚
तत्स॒त्यं
ओं᳚
तत्सर्वम्᳚
ओं᳚
तत्पुरो॒र्नम॑:
॥
1
ओं
अन्तश्चरति॑
भूते॒षु॒
गु॒हायां
वि॑श्वमू॒र्तिषु
।
त्वं
यज्ञस्त्वं
वषट्कारस्त्वमिन्द्रस्त्वग्ं
रुद्रस्त्वं
विष्णुस्त्वं
ब्रह्म
त्वं॑
प्रजा॒पतिः
।
त्वं
त॑दाप॒
आपो॒
ज्योती॒
रसो॒ऽमृतं॒
ब्रह्म॒
भूर्भुव॒स्सुव॒रोम्
॥
2
एकोनसप्ततितमोऽनुवाकः
।
श्र॒द्धायां᳚
प्रा॒णे
निवि॑ष्टो॒ऽमृतं॑
जुहोमि
।
श्रद्धाया॑मपा॒ने
निवि॑ष्टो॒ऽमृतं॑
जुहोमि
।
श्र॒द्धायां᳚
व्या॒ने
निवि॑ष्टो॒ऽमृतं॑
जुहोमि
।
श्र॒द्धाया॑मुदा॒ने
निवि॑ष्टो॒ऽमृतं॑
जुहोमि
।
श्र॒द्धाया॑ग्ं
समा॒ने
निवि॑ष्टो॒ऽमृतं॑
जुहोमि
।
ब्रह्म॑णि
म
आ॒त्मामृ॑त॒त्वाय॑
॥
1
॥
अ॒मृ॒तो॒प॒स्तर॑णमसि
॥
2
॥
श्र॒द्धायां᳚
प्रा॒णे
निवि॑ष्टो॒ऽमृतं॑
जुहोमि
।
शि॒वो
मा॑
वि॒शाप्र॑दाहाय
।
प्रा॒णाय॒
स्वाहा᳚
॥
श्र॒द्धाया॑मपा॒ने
निवि॑ष्टो॒ऽमृतं॑
जुहोमि
।
शि॒वो
मा॑
वि॒शाप्र॑दाहाय
।
अ॒पा॒नाय॒
स्वाहा᳚
॥
श्र॒द्धायां᳚
व्या॒ने
निवि॑ष्टो॒ऽमृतं॑
जुहोमि
।
शि॒वो
मा॑
वि॒शाप्र॑दाहाय
।
व्या॒नाय॒
स्वाहा᳚
॥
श्र॒द्धा॑यामुदा॒ने
निवि॑ष्टो॒ऽमृतं॑
जुहोमि
।
शि॒वो
मा॑
वि॒शाप्र॑दाहाय
।
उ॒दा॒नाय॒
स्वाहा᳚
॥
श्र॒द्धाया॑ग्ं
समा॒ने
निवि॑ष्टो॒ऽमृतं॑
जुहोमि
।
शि॒वो
मा॑
वि॒शाप्र॑दाहाय
।
स॒मा॒नाय॒
स्वाहा᳚
॥
ब्रह्म॑णि
म
आ॒त्मामृ॑त॒त्वाय॑
॥
3
॥
अ॒मृ॒ता॒पि॒धा॒नम॑सि
॥
4
॥
सप्ततितमोऽनुवाकः
।
श्र॒द्धायां᳚
प्रा॒णे
निवि॑श्या॒मृत॑ग्ं
हु॒तम्
।
प्रा॒णमन्ने॑नाप्यायस्व
॥
श्र॒द्धाया॑मपा॒ने
निवि॑श्या॒मृत॑ग्ं
हु॒तम्
।
अ॒पा॒नमन्ने॑नाप्यायस्व
॥
श्र॒द्धायां᳚
व्या॒ने
निवि॑श्या॒मृत॑ग्ं
हु॒तम्
।
व्या॒नमन्ने॑नाप्यायस्व
॥
श्र॒द्धाया॑मुदा॒ने
निवि॑श्या॒मृत॑ग्ं
हु॒तम्
।
उ॒दा॒नमन्ने॑नाप्यायस्व
॥
श्र॒द्धाया॑ग्ं
समा॒ने
निवि॑श्या॒मृत॑ग्ं
हु॒तम्
।
स॒मा॒नमन्ने॑नाप्यायस्व
॥
एकसप्ततितमोऽनुवाकः
।
अङ्गुष्ठमात्रः
पुरुषोऽङ्गुष्ठं
च॑
समा॒श्रितः
।
ईशः
सर्वस्य
जगतः
प्रभुः
प्रीणातु॑
विश्व॒भुक्
॥
1
॥
द्विसप्ततितमोऽनुवाकः
।
वाङ्
म॑
आ॒सन्
।
न॒सोः
प्रा॒णः
।
अ॒क्ष्योश्चक्षु॑:
।
कर्ण॑यो॒:
श्रोत्रम्᳚
।
बा॒हु॒वोर्बलम्᳚
।
उ॒रु॒वोरोज᳚:
।
अरि॑ष्टा॒
विश्वा॒न्यङ्गा॑नि
त॒नूः
।
त॒नुवा॑
मे
स॒ह
नम॑स्ते
अस्तु॒
मा
मा॑
हिग्ंसीः
॥
1
॥
त्रिसप्ततितमोऽनुवाकः
।
वय॑:
सुप॒र्णा
उप॑सेदु॒रिन्द्रं॑
प्रि॒यमे॑धा॒
ऋष॑यो॒
नाध॑मानाः
।
अप॑
ध्वा॒न्तमू॑र्णु॒हि
पू॒र्धि
चक्षु॑र्मुमु॒ग्ध्य॑स्मान्नि॒धये॑व
ब॒द्धान्
॥
1
॥
चतुःसप्ततितमोऽनुवाकः
।
प्राणानां
ग्रन्थिरसि
रुद्रो
मा॑
विशा॒न्तकः
।
तेनान्नेना᳚प्यायस्व
॥
1
॥
पञ्चसप्ततितमोऽनुवाकः
।
नमो
रुद्राय
विष्णवे
मृत्यु॑र्मे
पा॒हि
॥
1
॥
षट्सप्ततितमोऽनुवाकः
।
त्वमग्ने
द्युभि॒स्त्वमा॑शुशुक्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑
।
त्वं
वने᳚भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं
नृ॒णां
नृ॑पते
जायसे॒
शुचि॑:
॥
1
॥
सप्तसप्ततितमोऽनुवाकः
।
शि॒वेन॑
मे॒
सन्ति॑ष्ठस्व
स्यो॒नेन॑
मे॒
सन्ति॑ष्ठस्व
सुभू॒तेन॑
मे॒
सन्ति॑ष्ठस्व
ब्रह्मवर्च॒सेन॑
मे॒
सन्ति॑ष्ठस्व
य॒ज्ञस्यर्द्धि॒मनु॒सन्ति॑ष्ठ॒स्वोप॑
ते
यज्ञ॒
नम॒
उप॑
ते॒
नम॒
उप॑
ते॒
नम॑:
॥
1
॥
अष्टसप्ततितमोऽनुवाकः
।
स॒त्यं
परं॒
परग्ं॑
स॒त्यग्ं
स॒त्येन॒
न
सु॑व॒र्गाल्लो॒काच्च्य॑वन्ते
क॒दाच॒न
स॒ताग्ं
हि
स॒त्यं
तस्मा᳚त्स॒त्ये
र॑मन्ते
॥
1
॥
तप॒
इति॒
तपो॒
नानश॑ना॒त्परं॒
यद्धि॒
परं
तप॒स्तद्॑
दुर्धर्षं
तद्
दुरा॑धष॒
तस्मा॒त्तप॑सि
रमन्ते॒
॥
2
॥
दम॒
इति॒
निय॑तं
ब्रह्मचा॒रिण॒स्तस्मा॒द्दमे॑
रमन्ते॒
॥
3
॥
शम॒
इत्यर॑ण्ये
मु॒नय॒स्तमा॒च्छमे॑
रमन्ते
॥
4
॥
दा॒नमिति॒
सर्वा॑णि
भू॒तानि॑
प्रशग्ंस॑न्ति
दा॒नान्नाति॑दु॒ष्करं॒
तस्मा᳚द्दा॒ने
र॑मन्ते
॥
5
॥
ध॒र्म
इति॒
धर्मे॑ण
सर्व॑मि॒दं
परिगृ॑हीतं
ध॒र्मान्नाति॑दुश्चरं॒
तस्मा᳚द्ध॒र्मे
र॑मन्ते
॥
6
॥
प्र॒जन॒
इति॒
भूया॑ग्ंस॒स्तस्मा॒त्
भूयि॑ष्ठाः
प्रजा॑यन्ते॒
तस्मा॒त्
भूयि॑ष्ठाः
प्र॒जन॑ने
रमन्ते॒
॥
7
॥
अग्नय॒
इत्या॑ह॒
तस्मा॑द॒ग्नय॒
आधा॑तव्याः
॥
8
॥
अग्निहो॒त्रमित्या॑ह॒
तस्मा॑दग्निहो॒त्रे
र॑मन्ते
॥
9
॥
य॒ज्ञ
इति॑
य॒ज्ञेन॒
हि
दे॒वा
दिवं॑
ग॒तास्तस्मा᳚द्य॒ज्ञे
र॑मन्ते
॥
10
॥
मान॒समिति॑
वि॒द्वाग्ंस॒स्तस्मा᳚द्वि॒द्वाग्ंस॑
ए॒व
मा॑न॒से
र॑मन्ते
॥
11
॥
न्या॒स
इति॑
ब्र॒ह्मा
ब्र॒ह्मा
हि
पर॒:
परो॑
हि
ब्र॒ह्मा
तानि॒
वा
ए॒तान्यव॑राणि॒
तपाग्ंसि
न्या॒स
ए॒वात्य॑रेचय॒त्
य
ए॒वं
वेदे᳚त्युप॒निष॑त्
॥
12
॥
एकोनाशीतितमोऽनुवाकः
।
प्रा॒जा॒प॒त्यो
हारु॑णिः
सुप॒र्णेय॑:
प्र॒जाप॑तिं
पि॒तर॒मुप॑ससार॒
किं
भ॑गव॒न्तः
प॑र॒मं
व॑द॒न्तीति॒
तस्मै॒
प्रो॑वाच
॥
1
॥
स॒त्येन॑
वा॒युरावा॑ति
स॒त्येना॑दि॒त्यो
रो॑चते
दि॒वि
स॒त्यं
वा॒चः
प्र॑ति॒ष्ठा
स॒त्ये
स॒र्वं
प्रति॑ष्ठितं॒
तस्मा᳚त्स॒त्यं
प॑रमं॒
वद॑न्ति॒
॥
2
॥
तप॑सा
दे॒वा
दे॒वता॒मग्र॑
आय॒न्
तप॒सार्ष॑य॒:
सुव॒रन्व॑विन्द॒न्
तप॑सा
स॒पत्ना॒न्प्रणु॑दा॒माराती॒स्तप॑सि
स॒र्वं
प्रति॑ष्ठितं॒
तस्मा॒त्तप॑:
पर॒मं
वद॑न्ति॒
॥
3
॥
दमे॑न
दा॒न्ताः
कि॒ल्बिष॑मवधू॒न्वन्ति॒
दमे॑न
ब्रह्मचा॒रिण॒:
सुव॑रगच्छ॒न्
दमो॑
भू॒तानां᳚
दुरा॒धर्षं॒
दमे॑
स॒र्वं
प्रति॑ष्ठितं॒
तस्मा॒द्दम॑:
प॒रमं
वद॑न्ति॒
॥
4
॥
शमे॑न
शा॒न्ताः
शि॒वमा॒चर॑न्ति॒
शमे॑न
ना॒कं
मु॒नयो॒ऽन्ववि॑न्द॒न्
शमो॑
भू॒तानां᳚
दुरा॒धर्षं॒
शमे॑
स॒र्वं
प्रति॑ष्ठितं
तस्मा॒च्छम॑:
पर॒मं
वद॑न्ति
॥
5
॥
दा॒नं
य॒ज्ञानां॒
वरू॑थं॒
दक्षि॑णा
लो॒के
दा॒तारग्ं॑
सर्वभू॒तान्यु॑पजी॒वन्ति॑
दा॒नेनारा॑ती॒रपा॑नुदन्त
दा॒नेन॑
द्विष॒न्तो
मि॒त्रा
भ॑वन्ति
दा॒ने
स॒र्वं
प्रति॑ष्ठितं॒
तस्मा᳚द्दा॒नं
प॑र॒मं
वद॑न्ति
॥
6
॥
ध॒र्मो
विश्व॑स्य॒
जग॑तः
प्रति॒ष्ठा
लो॒के
ध॒र्मिष्ठ
प्र॒जा
उ॑पस॒र्पन्ति॑
ध॒र्मेण॑
पा॒पम॑प॒नुद॑ति
ध॒र्मे
स॒र्वं
प्रति॑ष्ठितं॒
तस्मा᳚द्ध॒र्मं
प॑र॒मं
वद॑न्ति
॥
7
॥
प्र॒जन॑नं॒
वै
प्र॑ति॒ष्ठा
लो॒के
सा॒धु
प्र॒जाया᳚स्त॒न्तुं
त॑न्वा॒नः
पि॑तृ॒णाम॑नु॒णो
भव॑ति॒
तदे॑व
त॒स्यानृ॑णं॒
तस्मा᳚त्
प्र॒जन॑नं
पर॒मं
वद॑न्ति
॥
8
॥
अ॒ग्नयो॒
वै
त्रयी॑
वि॒द्या
दे॑व॒यान॒:
पन्था॑
गार्हप॒त्य
ऋक्
पृ॑थि॒वी
र॑थन्त॒रम॑न्वाहार्य॒पच॑न॒:
यजु॑र॒न्तरि॑क्षं
वामदे॒व्यमा॑हव॒नीय॒:
साम॑
सुव॒र्गो
लो॒को
बृ॒हत्तस्मा॑द॒ग्नीन्
प॑र॒मं
वद॑न्ति
॥
9
॥
अग्निहो॒त्रग्ं
सा॑यं
प्रा॒तर्गृ॒हाणां॒
निष्कृ॑ति॒:
स्वि॑ष्टग्ं
सुहु॒तं
य॑ज्ञक्रतू॒नां
प्राय॑णग्ं
सुव॒र्गस्य॑
लो॒कस्य॒
ज्योति॒स्तस्मा॑दग्निहो॒त्रं
प॑र॒मं
वद॑न्ति
॥
10
॥
य॒ज्ञ
इति॑
य॒ज्ञो
हि
दे॒वानां᳚
य॒ज्ञेन॒
हि
दे॒वा
दिवं॑
ग॒ता
य॒ज्ञेनासु॑रा॒नपा॑नुदन्त
य॒ज्ञेन॑
द्विष॒न्तो
मि॒त्रा
भ॑वन्ति
य॒ज्ञे
स॒र्वं
प्र॑तिष्ठितं॒
तस्मा᳚द्य॒ज्ञं
प॑र॒मं
वद॑न्ति
॥
11
॥
मान॒सं
वै
प्रा॑जाप॒त्यं
प॒वित्रं॑
मान॒सेन॒
मन॑सा
सा॒धु
प॑श्यति
मन॒सा
ऋष॑यः
प्र॒जा
अ॑सृजन्त
मान॒से
स॒र्वं
प्रति॑ष्ठितं॒
तस्मा᳚न्मान॒सं
प॑र॒मं
वद॑न्ति
॥
12
॥
न्या॒स
इ॒त्याहु॑र्मनी॒षिणो॑
ब्र॒ह्माणं॑
ब्र॒ह्मा
विश्व॑:
कत॒मः
स्व॑यम्भूः
प्र॒जाप॑तिः
संवत्स॒र
इति॑
॥
13
॥
संवत्स॒रोऽसावा॑दि॒त्यो
य
ए॒ष
आ॑दि॒त्ये
पुरु॑ष॒:
स
प॑रमे॒ष्ठी
ब्रह्मा॒त्मा
॥
14
॥
याभि॑रादि॒त्यस्तप॑ति
र॒श्मिभि॒स्ताभि॑:
प॒र्जन्यो॑
वर्षति
प॒र्जन्ये॑नौषधिवनस्प॒तय॒:
प्रजा॑यन्त
ओषधिवनस्प॒तिभि॒रन्नं॑
भव॒त्यन्ने॑न
प्रा॒णाः
प्रा॒णैर्बलं॒
बले॑न॒
तप॒स्तप॑सा
श्र॒द्धा
श्र॒द्धया॑
मे॒धा
मे॒धया॑
मनी॒षा
म॑नी॒षया॒
मनो॒
मन॑सा॒
शान्ति॒:
शान्त्या॑
चि॒त्तं
चि॒त्तेन॒
स्मृति॒:
स्मृत्या॒
स्मार॒ग्ं
स्मारे॑ण
वि॒ज्ञानं॑
वि॒ज्ञाने॑ना॒त्मानं॑
वेदयति॒
तस्मा॑द॒न्नं
दद॒न्सर्वा᳚ण्ये॒तानि॑
ददा॒त्यन्ना᳚त्प्रा॒णा
भ॑वन्ति
भू॒ता॑नां
प्रा॒णैर्मनो॒
मन॑सश्च
वि॒ज्ञानं॑
वि॒ज्ञाना॑दान॒न्दो
ब्र॑ह्म
यो॒निः
॥
15
॥
स
वा
ए॒ष
पुरु॑षः
पञ्च॒धा
प॑ञ्चा॒त्मा
येन॒
सर्व॑मि॒दं
प्रोतं॑
पृथि॒वी
चा॒न्तरि॑क्षं
च॒
द्यौ॑श्च॒
दिश॑श्चावान्तरदि॒शाश्च॒
स
वै
सर्व॑मि॒दं
जग॒त्स
स॒भूतग्ं॑
स
भ॒व्यं
जि॑ज्ञासक्लृ॒प्त
ऋ॑त॒जा
रयिष्ठा॑:
श्र॒द्धा
स॒त्यो
पह॑स्वान्त॒मसो॒परि॑ष्टा॒त्
।
ज्ञात्वा॑
तमे॒वं
मन॑सा
हृ॒दा
च॒
भूयो॑
न
मृ॒त्युमुप॑याहि
वि॒द्वान्
।
तस्मा᳚न्न्या॒समे॒षां
तप॑सामतिरिक्त॒माहु॑:
॥
16
॥
वसुर॒ण्वो॑
वि॒भूर॑सि
प्रा॒णे
त्वमसि॑
सन्धा॒ता
ब्रह्म॑न्
त्वमसि॑
विश्व॒सृत्ते॑जो॒दास्त्वम॑स्य॒ग्नेर॑सि
वर्चो॒दास्त्वम॑सि॒
सूर्य॑स्य
द्युम्नो॒दास्त्वम॑सि
च॒न्द्रम॑स
उपया॒मगृ॑हीतोऽसि
ब्र॒ह्मणे᳚
त्वा॒
महसे॒
॥
17
॥
ओमित्या॒त्मानं॑
युञ्जीत
।
एतद्वै
म॑होप॒निष॑दं
दे॒वानां॒
गुह्य॒म्
।
य
ए॒वं
वेद॑
ब्र॒ह्मणो॑
महि॒मान॑माप्नोति॒
तस्मा᳚द्ब्रह्मणो॑
महि॒मान॑मित्युप॒निषत्
॥
18
॥
अशीतितमोऽनुवाकः
।
तस्यै॒वं
वि॒दुषो॑
य॒ज्ञस्या॒त्मा
यज॑मानः
श्र॒द्धा
पत्नी॒
शरी॑रमि॒ध्ममुरो॒
वेदि॒र्लोमा॑नि
ब॒र्हिर्वे॒द॒:
शिखा॒
हृद॑यं॒
यूप॒:
काम
आज्यं॑
म॒न्युः
प॒शुस्तपो॒ऽग्निर्दम॑:
शमयि॒ता
दानं
दक्षि॑णा॒
वाग्घोता᳚
प्रा॒ण
उ॑द्गा॒ता
चक्षु॑रध्व॒र्युर्मनो॒
ब्रह्मा॒
श्रोत्र॑म॒ग्नीत्
याव॒द्ध्रिय॑ते॒
सा
दी॒क्षा
यदश्ना॑ति॒
तद्धवि॒र्यत्पिब॑ति॒
तद॑स्य
सोमपा॒नं
यद्रम॑ते॒
तदु॑प॒सदो॒
यत्स॒ञ्चर॑त्युप॒विश॑त्यु॒त्तिष्ठ॑ते
च॒
स
प्र॑व॒र्ग्यो॑
यन्मुखं॒
तदा॑हव॒नीयो॒
या
व्याहृ॑तिरहु॒तिर्यद॑स्य
वि॒ज्ञानं॒
तज्जु॒होति॒
यत्सा॒यं
प्रा॒तर॑त्ति॒
तत्स॒मिधं॒
यत्प्रा॒तर्म॒ध्यन्दि॑नग्ं
सा॒यं
च॒
तानि॒
सव॑नानि॒
ये
अ॑होरा॒त्रे
ते
द॑र्शपूर्णमा॒सौ
ये᳚ऽर्धमा॒साश्च॒
मासा᳚श्च॒
ते
चा॑तुर्मा॒स्यानि॒
य
ऋ॒तव॒स्ते
प॑शुब॒न्धा
ये
सं॑वत्स॒राश्च॒
परिवत्स॒राश्च॒
तेऽह॑र्ग॒णाः
स॑र्ववेद॒सं
वा
ए॒तत्स॒त्रं
यन्मर॑णं॒
तद॑व॒भृथ॑
ए॒तद्वै
ज॑रामर्यमग्निहो॒त्रग्ंस॒त्रं
य
ए॒वं
वि॒द्वानु॑द॒गय॑ने
प्र॒मीय॑ते
दे॒वाना॑मे॒व
म॑हि॒मानं॑
ग॒त्वादि॒त्यस्य॒
सायु॑ज्यं
गच्छ॒त्यथ॒
यो
द॑क्षि॒णे
प्र॒मीय॑ते
पितृ॒णामे॒व
म॑हि॒मानं॑
ग॒त्वा
च॒न्द्रम॑स॒:
सायु॑ज्यं
गच्छत्ये॒तौ
वै
सू᳚र्याचन्द्र॒मसो᳚र्महि॒मानौ᳚
ब्राह्म॒णो
वि॒द्वान॒भिज॑यति॒
तस्मा᳚द्
ब्रह्मणो॑
महि॒मान॑माप्नोति॒
तस्मा᳚द्
ब्र॒ह्मणो॑
महि॒मान॑मित्युप॒निष॑त्
॥
1
॥
ओं
शं
नो॑
मि॒त्रः
शं
वरु॑णः
।
शं
नो॑
भवत्यर्य॒मा
।
शं
न॒
इन्द्रो॒
बृह॒स्पति॑:
।
शं
नो॒
विष्णु॑रुरुक्र॒मः
।
नमो॒
ब्रह्म॑णे
।
नम॑स्ते
वायो
।
त्वमे॒व
प्र॒त्यक्षं॒
ब्रह्मा॑सि
।
त्वामे॒व
प्र॒त्यक्षं॒
ब्रह्मावा॑दिषम्
।
ऋ॒तम॑वादिषम्
।
स॒त्यम॑वादिषम्
।
तन्मामा॑वीत्
।
तद्व॒क्तार॑मावीत्
।
आवी॒न्माम्
।
आवी॑द्व॒क्तारम्᳚
॥
ओं
स॒ह
ना॑ववतु
।
स॒ह
नौ॑
भुनक्तु
।
स॒ह
वी॒र्यं॑
करवावहै
।
ते॒ज॒स्वि
ना॒वधी॑तमस्तु॒
।
मा
वि॑द्विषा॒वहै᳚
।
ओं
शान्ति॒:
शान्ति॒:
शान्ति॑:
॥
इति
महानारायणोपनिषत्
॥