Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

श्री श्रीनिवास विद्या मन्त्राः

शुक्लपक्षे हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् च॒न्द्रां हि॒रण्म॑यीं-लँ॒क्ष्मी-ञ्जात॑वेदो म॒ आव॑ह श्री.1 स॒हस्र॑शीर्​षा॒ पुरु॑षः स॒ह॒स्रा॒क्ष-स्स॒हस्र॑पात् भूमिं॑-विँ॒श्वतो॑ वृ॒त्वा अत्य॑तिष्ठद्दशाङ्गु॒लम् पु.1 ता-म्म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् यस्यां॒ हिर॑ण्यं-विँ॒न्देय॒-ङ्गामश्व॒-म्पुरु॑षान॒हम् श्री.2 पुरु॑ष ए॒वेदग्ं सर्वम्᳚ यद्भू॒तं-यँच्च॒ भव्यम्᳚ उ॒तामृ॑त॒त्वस्येशा॑नः य॒दन्ने॑नाति॒रोह॑ति पु.2 अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना॑दप्र॒बोधि॑नीम् श्रिय॑-न्दे॒वीमुप॑ह्वये॒ श्रीर्मा॑दे॒वीर्जु॑षताम् श्री.3 ए॒तावा॑नस्य महि॒मा अतो॒ ज्यायाग्॑श्च॒ पूरु॑षः पादो᳚-ऽस्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृत॑-न्दि॒वि पु.3 कां॒ सो᳚स्मि॒तां हिर॑ण्यप्रा॒कारा॑मा॒र्द्रा-ञ्ज्वल॑न्ती-न्तृ॒प्ता-न्त॒र्पय॑न्तीम् प॒द्मे॒ स्थि॒ता-म्प॒द्मव॑र्णा॒-न्तामि॒होप॑ह्वये॒ श्रियम् श्री.4 त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः पादो᳚-ऽस्ये॒हा-ऽऽभ॑वा॒त्पुनः॑ ततो॒ विष्व॒ङ्व्य॑क्रामत् सा॒श॒ना॒न॒श॒ने अ॒भि पु.4 च॒न्द्रा-म्प्र॑भा॒सां-यँ॒शसा॒ ज्वल॑न्तीं॒ श्रियं॑-लोँ॒के दे॒वजु॑ष्टामुदा॒राम् ता-म्प॒द्मिनी॑मीं॒ शर॑णम॒ह-म्प्रप॑द्ये-ऽल॒क्ष्मीर्मे॑ नश्यता॒-न्त्वां-वृँ॑णे श्री.5 तस्मा᳚द्वि॒राड॑जायत वि॒राजो॒ अधि॒ पूरु॑षः जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो॑ पु॒रः पु.5 आ॒दि॒त्यव॑र्णे॒ तप॒सो-ऽधि॑जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षो-ऽथ बि॒ल्वः तस्य॒ फला॑नि॒ तप॒सा नु॑दन्तु मा॒यान्त॑रा॒याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः श्री.6 यत्पुरु॑षेण ह॒विषा᳚ दे॒वा य॒ज्ञमत॑न्वत व॒स॒न्तो अ॑स्यासी॒दाज्यम्᳚ ग्री॒ष्म इ॒ध्मश्श॒रद्ध॒विः पु.6 उपै॑तु॒ मा-न्दे॑वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह प्रा॒दु॒र्भू॒तो-ऽस्मि॑ राष्ट्रे॒-ऽस्मिन् की॒र्तिमृ॑द्धि-न्द॒दातु॑ मे श्री.7 स॒प्तास्या॑सन्परि॒धयः॑ त्रि-स्स॒प्त स॒मिधः॑ कृ॒ताः दे॒वा यद्य॒ज्ञ-न्त॑न्वा॒नाः अब॑ध्न॒न्पुरु॑ष-म्प॒शुम् पु.7 क्षुत्पि॑पा॒साम॑ला-ञ्ज्ये॒ष्ठाम॑ल॒क्ष्मी-न्ना॑शया॒म्यहम् अभू॑ति॒मस॑मृद्धि॒-ञ्च सर्वा॒-न्निर्णु॑द मे॒ गृहा॑त् श्री.8 तं-यँ॒ज्ञ-म्ब॒र्​हिषि॒ प्रौक्षन्॑ पुरु॑ष-ञ्जा॒तम॑ग्र॒तः तेन॑ दे॒वा अय॑जन्त सा॒ध्या ऋष॑यश्च॒ ये पु.8 ग॒न्ध॒द्वा॒रा-न्दु॑राध॒र्​षा॒-न्नि॒त्यपु॑ष्टा-ङ्करी॒षिणी᳚म् ई॒श्वरी॑ग्ं सर्व॑भूता॒ना॒-न्तामि॒होप॑ह्वये॒ श्रियम् श्री.9 तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुतः॑ सम्भृ॑त-म्पृषदा॒ज्यम् प॒शूग्‍स्ताग्‍श्च॑क्रे वाय॒व्यान्॑ आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये पु.9 मन॑सः॒ काम॒माकू॑तिं-वाँ॒च-स्स॒त्यम॑शीमहि प॒शू॒नां रू॒पमन्न॑स्य॒ मयि॒ श्री-श्श्र॑यतां॒-यँशः॑ श्री.10 तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुतः॑ ऋच॒-स्सामा॑नि जज्ञिरे छन्दाग्ं॑सि जज्ञिरे॒ तस्मा᳚त् यजु॒स्तस्मा॑दजायत पु.10 क॒र्दमे॑न प्र॑जाभू॒ता॒ म॒यि॒ सम्भ॑व क॒र्दम श्रियं॑-वाँ॒सय॑ मे कु॒ले मा॒तर॑-म्पद्म॒मालि॑नीम् श्री.11 तस्मा॒दश्वा॑ अजायन्त ये के चो॑भ॒याद॑तः गावो॑ जज्ञिरे॒ तस्मा᳚त् तस्मा᳚ज्जा॒ता अ॑जा॒वयः॑ पु.11 आपः॑ सृ॒जन्तु॑ स्नि॒ग्धा॒नि॒ चि॒क्ली॒त व॑स मे॒ गृहे नि च॑ दे॒वी-म्मा॒तरं॒ श्रियं॑-वाँ॒सय॑ मे कु॒ले श्री.12 यत्पुरु॑षं॒-व्यँ॑दधुः क॒ति॒धा व्य॑कल्पयन्न् मुख॒-ङ्किम॑स्य॒ कौ बा॒हू कावू॒रू पादा॑वुच्येते पु.12 आ॒र्द्रा-म्पु॒ष्करि॑णी-म्पु॒ष्टि॒-म्पि॒ङ्ग॒ला-म्प॑द्ममा॒लिनीम् च॒न्द्रां हि॒रण्म॑यीं-लँ॒क्ष्मी-ञ्जात॑वेदो म॒ आव॑ह श्री.13 ब्रा॒ह्म॒णो᳚-ऽस्य॒ मुख॑मासीत् बा॒हू रा॑ज॒न्यः॑ कृ॒तः ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ प॒द्भ्याग्ं शू॒द्रो अ॑जायत पु.13 आ॒र्द्रां-यँः॒ करि॑णीं-यँ॒ष्टिं॒ सु॒व॒र्णां हे॑ममा॒लिनीम् सू॒र्यां हि॒रण्म॑यीं-लँ॒क्ष्मी॒-ञ्जात॑वेदो म॒ आवह श्री.14 च॒न्द्रमा॒ मन॑सो जा॒तः चक्षो॒-स्सूर्यो॑ अजायत मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ प्रा॒णाद्वा॒युर॑जायत पु.14 ता-म्म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् यस्यां॒ हि॑रण्य॒-म्प्रभू॑त॒-ङ्गावो॑ दा॒स्यो-ऽश्वा᳚न्वि॒न्देय॒-म्पुरु॑षान॒हम् श्री.15 नाभ्या॑ आसीद॒न्तरि॑क्षम् शी॒र्​ष्णो द्यौ-स्सम॑वर्तत प॒द्भ्या-म्भूमि॒र्दिश॒-श्श्रोत्रा᳚त् तथा॑ लो॒काग्ं अ॑कल्पयन्न् पु.15 कृष्णपक्षे स॒हस्र॑शीर्​षा॒ पुरु॑षः स॒ह॒स्रा॒क्ष-स्स॒हस्र॑पात् भूमिं॑-विँ॒श्वतो॑ वृ॒त्वा अत्य॑तिष्ठद्दशाङ्गु॒लम् पु.1 हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् च॒न्द्रां हि॒रण्म॑यीं-लँ॒क्ष्मी-ञ्जात॑वेदो म॒ आव॑ह श्री.1 पुरु॑ष ए॒वेदग्ं सर्वम्᳚ यद्भू॒तं-यँच्च॒ भव्यम्᳚ उ॒तामृ॑त॒त्वस्येशा॑नः य॒दन्ने॑नाति॒रोह॑ति पु.2 ता-म्म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् यस्यां॒ हिर॑ण्यं-विँ॒न्देय॒-ङ्गामश्व॒-म्पुरु॑षान॒हम् श्री.2 ए॒तावा॑नस्य महि॒मा अतो॒ ज्यायाग्॑श्च॒ पूरु॑षः पादो᳚-ऽस्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृत॑-न्दि॒वि पु.3 अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना॑दप्र॒बोधि॑नीम् श्रिय॑-न्दे॒वीमुप॑ह्वये॒ श्रीर्मा॑दे॒वीर्जु॑षताम् श्री.3 त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः पादो᳚-ऽस्ये॒हा-ऽऽभ॑वा॒त्पुनः॑ ततो॒ विष्व॒ङ्व्य॑क्रामत् सा॒श॒ना॒न॒श॒ने अ॒भि पु.4 कां॒ सो᳚स्मि॒तां हिर॑ण्यप्रा॒कारा॑मा॒र्द्रा-ञ्ज्वल॑न्ती-न्तृ॒प्ता-न्त॒र्पय॑न्तीम् प॒द्मे॒ स्थि॒ता-म्प॒द्मव॑र्णा॒-न्तामि॒होप॑ह्वये॒ श्रियम् श्री.4 तस्मा᳚द्वि॒राड॑जायत वि॒राजो॒ अधि॒ पूरु॑षः जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो॑ पु॒रः पु.5 च॒न्द्रा-म्प्र॑भा॒सां-यँ॒शसा॒ ज्वल॑न्तीं॒ श्रियं॑-लोँ॒के दे॒वजु॑ष्टामुदा॒राम् ता-म्प॒द्मिनी॑मीं॒ शर॑णम॒ह-म्प्रप॑द्ये-ऽल॒क्ष्मीर्मे॑ नश्यता॒-न्त्वां-वृँ॑णे श्री.5 यत्पुरु॑षेण ह॒विषा᳚ दे॒वा य॒ज्ञमत॑न्वत व॒स॒न्तो अ॑स्यासी॒दाज्यम्᳚ ग्री॒ष्म इ॒ध्मश्श॒रद्ध॒विः पु.6 आ॒दि॒त्यव॑र्णे॒ तप॒सो-ऽधि॑जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षो-ऽथ बि॒ल्वः तस्य॒ फला॑नि॒ तप॒सा नु॑दन्तु मा॒यान्त॑रा॒याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः श्री.6 स॒प्तास्या॑सन्परि॒धयः॑ त्रि-स्स॒प्त स॒मिधः॑ कृ॒ताः दे॒वा यद्य॒ज्ञ-न्त॑न्वा॒नाः अब॑ध्न॒न्पुरु॑ष-म्प॒शुम् पु.7 उपै॑तु॒ मा-न्दे॑वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह प्रा॒दु॒र्भू॒तो-ऽस्मि॑ राष्ट्रे॒-ऽस्मिन् की॒र्तिमृ॑द्धि-न्द॒दातु॑ मे श्री.7 तं-यँ॒ज्ञ-म्ब॒र्​हिषि॒ प्रौक्षन्॑ पुरु॑ष-ञ्जा॒तम॑ग्र॒तः तेन॑ दे॒वा अय॑जन्त सा॒ध्या ऋष॑यश्च॒ ये पु.8 क्षुत्पि॑पा॒साम॑ला-ञ्ज्ये॒ष्ठाम॑ल॒क्ष्मी-न्ना॑शया॒म्यहम् अभू॑ति॒मस॑मृद्धि॒-ञ्च सर्वा॒-न्निर्णु॑द मे॒ गृहा॑त् श्री.8 तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुतः॑ सम्भृ॑त-म्पृषदा॒ज्यम् प॒शूग्‍स्ताग्‍श्च॑क्रे वाय॒व्यान्॑ आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये पु.9 ग॒न्ध॒द्वा॒रा-न्दु॑राध॒र्​षा॒-न्नि॒त्यपु॑ष्टा-ङ्करी॒षिणी᳚म् ई॒श्वरी॑ग्ं सर्व॑भूता॒ना॒-न्तामि॒होप॑ह्वये॒ श्रियम् श्री.9 तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुतः॑ ऋच॒-स्सामा॑नि जज्ञिरे छन्दाग्ं॑सि जज्ञिरे॒ तस्मा᳚त् यजु॒स्तस्मा॑दजायत पु.10 मन॑सः॒ काम॒माकू॑तिं-वाँ॒च-स्स॒त्यम॑शीमहि प॒शू॒नां रू॒पमन्न॑स्य॒ मयि॒ श्री-श्श्र॑यतां॒-यँशः॑ श्री.10 तस्मा॒दश्वा॑ अजायन्त ये के चो॑भ॒याद॑तः गावो॑ जज्ञिरे॒ तस्मा᳚त् तस्मा᳚ज्जा॒ता अ॑जा॒वयः॑ पु.11 क॒र्दमे॑न प्र॑जाभू॒ता॒ म॒यि॒ सम्भ॑व क॒र्दम श्रियं॑-वाँ॒सय॑ मे कु॒ले मा॒तर॑-म्पद्म॒मालि॑नीम् श्री.11 यत्पुरु॑षं॒-व्यँ॑दधुः क॒ति॒धा व्य॑कल्पयन्न् मुख॒-ङ्किम॑स्य॒ कौ बा॒हू कावू॒रू पादा॑वुच्येते पु.12 आपः॑ सृ॒जन्तु॑ स्नि॒ग्धा॒नि॒ चि॒क्ली॒त व॑स मे॒ गृहे नि च॑ दे॒वी-म्मा॒तरं॒ श्रियं॑-वाँ॒सय॑ मे कु॒ले श्री.12 ब्रा॒ह्म॒णो᳚-ऽस्य॒ मुख॑मासीत् बा॒हू रा॑ज॒न्यः॑ कृ॒तः ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ प॒द्भ्याग्ं शू॒द्रो अ॑जायत पु.13 आ॒र्द्रा-म्पु॒ष्करि॑णी-म्पु॒ष्टि॒-म्पि॒ङ्ग॒ला-म्प॑द्ममा॒लिनीम् च॒न्द्रां हि॒रण्म॑यीं-लँ॒क्ष्मी-ञ्जात॑वेदो म॒ आव॑ह श्री.13 च॒न्द्रमा॒ मन॑सो जा॒तः चक्षो॒-स्सूर्यो॑ अजायत मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ प्रा॒णाद्वा॒युर॑जायत पु.14 आ॒र्द्रां-यँः॒ करि॑णीं-यँ॒ष्टिं॒ सु॒व॒र्णां हे॑ममा॒लिनीम् सू॒र्यां हि॒रण्म॑यीं-लँ॒क्ष्मी॒-ञ्जात॑वेदो म॒ आवह श्री.14 नाभ्या॑ आसीद॒न्तरि॑क्षम् शी॒र्​ष्णो द्यौ-स्सम॑वर्तत प॒द्भ्या-म्भूमि॒र्दिश॒-श्श्रोत्रा᳚त् तथा॑ लो॒काग्ं अ॑कल्पयन्न् पु.15 ता-म्म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् यस्यां॒ हि॑रण्य॒-म्प्रभू॑त॒-ङ्गावो॑ दा॒स्यो-ऽश्वा᳚न्वि॒न्देय॒-म्पुरु॑षान॒हम् श्री.15