हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
स्कन्दोपनिषत्
यत्रासम्भिन्नतां
याति
स्वातिरिक्तभिदाततिः
।
संविन्मात्रं
परं
ब्रह्म
तत्स्वमात्रं
विजृम्भते
॥
ओं
सह
नाववतु
।
सह
नौ
भुनक्तु
।
सह
वीर्यं
करवावहै
।
तेजस्वि
नावधीतमस्तु
मा
विद्विषावहै
।
ओं
शान्तिः
शान्तिः
शान्तिः
॥
अच्युतोऽस्मि
महादेव
तव
कारुण्यलेशतः
।
विज्ञानघन
एवास्मि
शिवोऽस्मि
किमतः
परम्
॥
1
॥
न
निजं
निजवद्भात्यन्तःकरणजृम्भणात्
।
अन्तःकरणनाशेन
संविन्मात्रस्थितो
हरिः
॥
2
॥
संविन्मात्रस्थितश्चाहमजोऽस्मि
किमतः
परम्
।
व्यतिरिक्तं
जडं
सर्वं
स्वप्नवच्च
विनश्यति
॥
3
॥
चिज्जडानां
तु
यो
द्रष्टा
सोऽच्युतो
ज्ञानविग्रहः
।
स
एव
हि
महादेवः
स
एव
हि
महाहरिः
॥
4
॥
स
एव
हि
ज्योतिषां
ज्योतिः
स
एव
परमेश्वरः
।
स
एव
हि
परं
ब्रह्म
तद्ब्रह्माहं
न
संशयः
॥
5
॥
जीवः
शिवः
शिवो
जीवः
स
जीवः
केवलः
शिवः
।
तुषेण
बद्धो
व्रीहिः
स्यात्तुषाभावेन
तण्डुलः
॥
6
॥
एवं
बद्धस्तथा
जीवः
कर्मनाशे
सदाशिवः
।
पाशबद्धस्तथा
जीवः
पाशमुक्तः
सदाशिवः
॥
7
॥
शिवाय
विष्णुरूपाय
शिवरूपाय
विष्णवे
।
शिवस्य
हृदयं
विष्णुर्विष्णोश्च
हृदयं
शिवः
॥
8
॥
यथा
शिवमयो
विष्णुरेवं
विष्णुमयः
शिवः
।
यथान्तरं
न
पश्यामि
तथा
मे
स्वस्तिरायुषि
॥
9
॥
यथान्तरं
न
भेदाः
स्युः
शिवकेशवयोस्तथा
।
देहो
देवालयः
प्रोक्तः
स
जीवः
केवलः
शिवः
।
त्यजेदज्ञाननिर्माल्यं
सोऽहंभावेन
पूजयेत्
॥
10
॥
अभेददर्शनं
ज्ञानं
ध्यानम्
निर्विषयं
मनः
।
स्नानं
मनोमलत्यागः
शौचमिन्द्रियनिग्रहः
॥
11
॥
ब्रह्मामृतं
पिबेद्भैक्ष्यमाचरेद्देहरक्षणे
।
वसेदेकान्तिको
भूत्वा
चैकान्ते
द्वैतवर्जिते
॥
12
॥
इत्येवमाचरेद्धीमान्स
एवं
मुक्तिमाप्नुयात्
।
श्रीपरमधाम्ने
स्वस्ति
चिरायुष्योन्नम
इति
॥
13
॥
विरिञ्चिनारायणशङ्करात्मकं
नृसिंह
देवेश
तव
प्रसादतः
।
अचिन्त्यमव्यक्तमनन्तमव्ययं
वेदात्मकं
ब्रह्म
निजं
विजानते
॥
14
॥
तद्विष्णोः
परमं
पदं
सदा
पश्यन्ति
सूरयः
।
दिवीव
चक्षुराततम्
।
तद्विप्रासो
विपन्यवो
जागृवांसः
समिन्धते
।
विष्णोर्यत्परमं
पदम्
।
इत्येतन्निर्वाणानुशासनमिति
वेदानुशासनमिति
वेदानुशासनमित्युपनिषत्
॥
15
॥
ओं
सह
नाववतु
।
सह
नौ
भुनक्तु
।
सह
वीर्यं
करवावहै
।
तेजस्वि
नावधीतमस्तु
मा
विद्विषावहै
।
ओं
शान्तिः
शान्तिः
शान्तिः
॥
इति
स्कन्दोपनिषत्समाप्ता
।