अम्भोधिमध्ये रविकोट्यनेकप्रभां ददात्याश्रितजीवमध्ये ।
ओं हंसः ओं तस्मै कुमाराय नमो अस्तु ॥ 1 ॥
विराजयोगस्य फलेन साक्ष्यं ददाति नमः कुमाराय तस्मै ।
ओं हंसः ओं तस्मै कुमाराय नमो अस्तु ॥ 2 ॥
योऽतीतकाले स्वमतात् गृहीत्वा श्रुतिं करोत्यन्यजीवान् स्वकोले ।
ओं हंसः ओं तस्मै कुमाराय नमो अस्तु ॥ 3 ॥
यस्यांश्च जीवेन सम्प्राप्नुवन्ति द्विभागजीवांश्च समैककाले ।
ओं हंसः ओं तस्मै कुमाराय नमो अस्तु ॥ 4 ॥
प्रचोदयान्नाद हृदिस्थितेन मन्त्राण्यजीवं प्रकटीकरोति ।
ओं हंसः ओं तस्मै कुमाराय नमो अस्तु ॥ 5 ॥
बान्धव्यकल्लोलहृद्वारिदूरे विमानमार्गस्य च यः करोति ।
ओं हंसः ओं तस्मै कुमाराय नमो अस्तु ॥ 6 ॥
सद्दीक्षया शास्त्रशब्दस्मृतिर्हृद्वातांश्च छिन्नादनुभूतिरूपम् ।
ओं हंसः ओं तस्मै कुमाराय नमो अस्तु ॥ 7 ॥
दीक्षाविधिज्ञानचतुर्विधान्य प्रचोदयान्मन्त्रदैवाद्वरस्य ।
ओं हंसः ओं तस्मै कुमाराय नमो अस्तु ॥ 8 ॥
कोट्यद्भुते सप्तभिरेव मन्त्रैः दत्वा सुखं कश्चिति यस्य पादम् ।
ओं हंसः ओं तस्मै कुमाराय नमो अस्तु ॥ 9 ॥
स्वस्वाधिकारांश्च विमुक्तदेवाः शीर्षेण सम्योगयेद्यस्य पादम् ।
ओं हंसः ओं तस्मै कुमाराय नमो अस्तु ॥ 10 ॥
हुङ्कारशब्देन सृष्टिप्रभावं जीवस्य दत्तं स्ववरेण येन ।
ओं हंसः ओं तस्मै कुमाराय नमो अस्तु ॥ 11 ॥
वीराजपत्रस्थ कुमारभूतिं यो भक्तहस्तेन संस्वीकरोति ।
ससर्वसम्पत् समवाप्तिपूर्णः भवेद्धि सम्याति तं दीर्घमायुः ॥
एतादृशानुग्रहभासिताय साकल्यकोलाय वै षण्मुखाय ।
ओं हंसः ओं तस्मै कुमाराय नमो अस्तु ॥ 12 ॥
ओं श्री सुब्रह्मण्याय नमः ॥