हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
कुमार सूक्तम्
ऋषिः
वामदेवः,
देवता
अग्निः,
सोमकः
साहदेव्यः,
अश्विनौ,
छन्दः
गायत्री,
विराड्गायत्री,
निचृद्गायत्री,
स्वरः
षड्जः
अ॒ग्निर्होता॑
नो
अध्व॒रे
वा॒जी
सन्परि॑
णीयते
।
दे॒वो
दे॒वेषु॑
य॒ज्ञियः॑
॥
परि॑
त्रिवि॒ष्ट्य॑ध्व॒रं
यात्य॒ग्नी
र॒थीरि॑व
।
आ
दे॒वेषु॒
प्रयो॒
दध॑त्
॥
परि॒
वाज॑पतिः
क॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत्
।
दध॒द्रत्ना॑नि
दा॒शुषे॑
॥
अ॒यं
यः
सृञ्ज॑ये
पु॒रो
दै॑ववा॒ते
स॑मि॒ध्यते॑
।
द्यु॒माँ
अ॑मित्र॒दम्भ॑नः
॥
अस्य॑
घा
वी॒र
ईव॑तो॒ऽग्नेरी॑शीत॒
मर्त्यः॑
।
ति॒ग्मज॑म्भस्य
मी॒ळ्हुषः॑
॥
तमर्व॑न्तं॒
न
सा॑न॒सिम॑रु॒षं
न
दि॒वः
शिशु॑म्
।
म॒र्मृ॒ज्यन्ते॑
दि॒वेदि॑वे
॥
बोध॒द्यन्मा॒
हरि॑भ्यां
कुमा॒रः
सा॑हदे॒व्यः
।
अच्छा॒
न
हू॒त
उद॑रम्
॥
उ॒त
त्या
य॑ज॒ता
हरी॑
कुमा॒रात्सा॑हदे॒व्यात्
।
प्रय॑ता
स॒द्य
आ
द॑दे
॥
ए॒ष
वां॑
देवावश्विना
कुमा॒रः
सा॑हदे॒व्यः
।
दी॒र्घायु॑रस्तु॒
सोम॑कः
॥
तं
यु॒वं
दे॑वावश्विना
कुमा॒रं
सा॑हदे॒व्यम्
।
दी॒र्घायु॑षं
कृणोतन
॥
ऋषिः-1,
कुमार
आत्रेयो,
वृशो
वा
जार
उभी
वा;
वृशो
जारः
॥
देवता-
अग्निः
॥
छन्दः-
त्रिष्टुपः
स्वराट्पङ्क्तिः
निवृत्त्रिष्टुप;
भुरिवपङ्क्तिः
विराट्त्रिष्टुप्;
निचृदतिजगती
॥
स्वरः-
धैवतः;
पञ्चमः,
निषादः
॥
कु॒मा॒रं
मा॒ता
यु॑व॒तिः
समु॑ब्धं॒
गुहा॑
बिभर्ति॒
न
द॑दाति
पि॒त्रे
।
अनी॑कमस्य॒
न
मि॒नज्जना॑सः
पु॒रः
प॑श्यन्ति॒
निहि॑तमर॒तौ
॥
कमे॒तं
त्वं
यु॑वते
कुमा॒रं
पेषी॑
बिभर्षि॒
महि॑षी
जजान
।
पू॒र्वीर्हि
गर्भः॑
श॒रदो॑
व॒वर्धाप॑श्यं
जा॒तं
यदसू॑त
मा॒ता
॥
हिर॑ण्यदन्तं॒
शुचि॑वर्णमा॒रात्क्षेत्रा॑दपश्य॒मायु॑धा॒
मिमा॑नम्
।
द॒दा॒नो
अ॑स्मा
अ॒मृतं॑
वि॒पृक्व॒त्किं
माम॑नि॒न्द्राः
कृ॑णवन्ननु॒क्थाः
॥
क्षेत्रा॑दपश्यं
सनु॒तश्चर॑न्तं
सु॒मद्यू॒थं
न
पु॒रु
शोभ॑मानम्
।
न
ता
अ॑गृभ्र॒न्नज॑निष्ट॒
हि
षः
पलि॑क्नी॒रिद्यु॑व॒तयो॑
भवन्ति
॥
के
मे॑
मर्य॒कं
वि
य॑वन्त॒
गोभि॒र्न
येषां॑
गो॒पा
अर॑णश्चि॒दास॑
।
य
ईं॑
जगृ॒भुरव॒
ते
सृ॑ज॒न्त्वाजा॑ति
प॒श्व
उप॑
नश्चिकि॒त्वान्
॥
व॒सां
राजा॑नं
वस॒तिं
जना॑ना॒मरा॑तयो॒
नि
द॑धु॒र्मर्त्ये॑षु
।
ब्रह्मा॒ण्यत्रे॒रव॒
तं
सृ॑जन्तु
निन्दि॒तारो॒
निन्द्या॑सो
भवन्तु
॥
शुन॑श्चि॒च्छेपं॒
निदि॑तं
स॒हस्रा॒द्यूपा॑दमुञ्चो॒
अश॑मिष्ट॒
हि
षः
।
ए॒वास्मद॑ग्ने॒
वि
मु॑मुग्धि॒
पाशा॒न्होत॑श्चिकित्व
इ॒ह
तू
नि॒षद्य॑
॥
हृ॒णी॒यमा॑नो॒
अप॒
हि
मदैयेः॒
प्र
मे॑
दे॒वानां॑
व्रत॒पा
उ॑वाच
।
इन्द्रो॑
वि॒द्वाँ
अनु॒
हि
त्वा॑
च॒चक्ष॒
तेना॒हम॑ग्ने॒
अनु॑शिष्ट॒
आगा॑म्
॥
वि
ज्योति॑षा
बृह॒ता
भा॑त्य॒ग्निरा॒विर्विश्वा॑नि
कृणुते
महि॒त्वा
।
प्रादे॑वीर्मा॒याः
स॑हते
दु॒रेवाः॒
शिशी॑ते॒
शृङ्गे॒
रक्ष॑से
वि॒निक्षे॑
॥
उ॒त
स्वा॒नासो॑
दि॒वि
ष॑न्त्व॒ग्नेस्ति॒ग्मायु॑धा॒
रक्ष॑से॒
हन्त॒वा
उ॑
।
मदे॑
चिदस्य॒
प्र
रु॑जन्ति॒
भामा॒
न
व॑रन्ते
परि॒बाधो॒
अदे॑वीः
॥
ए॒तं
ते॒
स्तोमं॑
तुविजात॒
विप्रो॒
रथं॒
न
धीरः॒
स्वपा॑
अतक्षम्
।
यदीद॑ग्ने॒
प्रति॒
त्वं
दे॑व॒
हर्याः॒
स्व॑र्वतीर॒प
ए॑ना
जयेम
॥
तु॒वि॒ग्रीवो॑
वृष॒भो
वा॑वृधा॒नो॑ऽश॒त्र्व1॒॑र्यः
सम॑जाति॒
वेदः॑
।
इती॒मम॒ग्निम॒मृता॑
अवोचन्ब॒र्हिष्म॑ते॒
मन॑वे॒
शर्म॑
यंसद्ध॒विष्म॑ते॒
मन॑वे॒
शर्म॑
यंसत्
॥