हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
पितृ सूक्तम्
उदी॑रता॒मव॑र॒
उत्परा॑स॒
उन्म॑ध्य॒माः
पि॒तर॑:
सो॒म्यास॑:
।
असुं॒
य
ई॒युर॑वृ॒का
ऋ॑त॒ज्ञास्ते
नो॑ऽवन्तु
पि॒तरो॒
हवे॑षु
॥
01
इ॒दं
पि॒तृभ्यो॒
नमो॑
अस्त्व॒द्य
ये
पूर्वा॑सो॒
य
उप॑रास
ई॒युः
।
ये
पार्थि॑वे॒
रज॒स्या
निष॑त्ता॒
ये
वा॑
नू॒नं
सु॑वृ॒जना॑सु
वि॒क्षु
॥
02
आहं
पि॒तॄन्सु॑वि॒दत्रा॑ँ
अवित्सि॒
नपा॑तं
च
वि॒क्रम॑णं
च॒
विष्णो॑:
।
ब॒र्हि॒षदो॒
ये
स्व॒धया॑
सु॒तस्य॒
भज॑न्त
पि॒त्वस्त
इ॒हाग॑मिष्ठाः
॥
03
बर्हि॑षदः
पितर
ऊ॒त्य(1)र्वागि॒मा
वो॑
ह॒व्या
च॑कृमा
जु॒षध्व॑म्
।
त
आ
ग॒ताव॑सा॒
शन्त॑मे॒नाथा॑
न॒:
शं
योर॑र॒पो
द॑धात
॥
04
उप॑हूताः
पि॒तर॑:
सो॒म्यासो॑
बर्हि॒ष्ये॑षु
नि॒धिषु॑
प्रि॒येषु॑
।
त
आ
ग॑मन्तु॒
त
इ॒ह
श्रु॑व॒न्त्वधि॑
ब्रुवन्तु॒
ते॑ऽवन्त्व॒स्मान्
॥
05
आच्या॒
जानु॑
दक्षिण॒तो
नि॒षद्ये॒मं
य॒ज्ञम॒भि
गृ॑णीत॒
विश्वे॑
।
मा
हिं॑सिष्ट
पितर॒:
केन॑
चिन्नो॒
यद्व॒
आग॑:
पुरु॒षता॒
करा॑म
॥
06
आसी॑नासो
अरु॒णीना॑मु॒पस्थे॑
र॒यिं
ध॑त्त
दा॒शुषे॒
मर्त्या॑य
।
पु॒त्रेभ्य॑:
पितर॒स्तस्य॒
वस्व॒:
प्र
य॑च्छत॒
त
इ॒होर्जं॑
दधात
॥
07
ये
न॒:
पूर्वे॑
पि॒तर॑:
सो॒म्यासो॑ऽनूहि॒रे
सो॑मपी॒थं
वसि॑ष्ठाः
।
तेभि॑र्य॒मः
सं॑ररा॒णो
ह॒वींष्यु॒शन्नु॒शद्भि॑:
प्रतिका॒मम॑त्तु
॥
08
ये
ता॑तृ॒षुर्दे॑व॒त्रा
जेह॑माना
होत्रा॒विद॒:
स्तोम॑तष्टासो
अ॒र्कैः
।
आग्ने॑
याहि
सुवि॒दत्रे॑भिर॒र्वाङ्
स॒त्यैः
क॒व्यैः
पि॒तृभि॑र्घर्म॒सद्भि॑:
॥
09
ये
स॒त्यासो॑
हवि॒रदो॑
हवि॒ष्पा
इन्द्रे॑ण
दे॒वैः
स॒रथं॒
दधा॑नाः
।
आग्ने॑
याहि
स॒हस्रं॑
देवव॒न्दैः
परै॒:
पूर्वै॑:
पि॒तृभि॑र्घर्म॒सद्भि॑:
॥
10
अग्नि॑ष्वात्ताः
पितर॒
एह
ग॑च्छत॒
सद॑:सदः
सदत
सुप्रणीतयः
।
अ॒त्ता
ह॒वींषि॒
प्रय॑तानि
ब॒र्हिष्यथा॑
र॒यिं
सर्व॑वीरं
दधातन
॥
11
त्वम॑ग्न
ईलि॒तो
जा॑तवे॒दोऽवा॑ड्ढ॒व्यानि॑
सुर॒भीणि॑
कृ॒त्वी
।
प्रादा॑:
पि॒तृभ्य॑:
स्व॒धया॒
ते
अ॑क्षन्न॒द्धि
त्वं
दे॑व॒
प्रय॑ता
ह॒वींषि॑
॥
12
ये
चे॒ह
पि॒तरो॒
ये
च॒
नेह
यांश्च॑
वि॒द्म
याँ
उ॑
च॒
न
प्र॑वि॒द्म
।
त्वं
वे॑त्थ॒
यति॒
ते
जा॑तवेदः
स्व॒धाभि॑र्य॒ज्ञं
सुकृ॑तं
जुषस्व
॥
13
ये
अ॑ग्निद॒ग्धा
ये
अन॑ग्निदग्धा॒
मध्ये॑
दि॒वः
स्व॒धया॑
मा॒दय॑न्ते
।
तेभि॑:
स्व॒रालसु॑नीतिमे॒तां
य॑थाव॒शं
त॒न्वं॑
कल्पयस्व
॥
14
ओं
शान्ति॒:
शान्ति॒:
शान्ति॑:
।