हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
श्री सूक्तम्
ओम्
हिर॑ण्यवर्णां॒
हरि॑णीं
सु॒वर्ण॑रज॒तस्र॑जाम्
।
च॒न्द्रां
हि॒रण्म॑यीं-लँ॒क्ष्मी-ञ्जात॑वेदो
म॒माव॑ह
॥
ता-म्म॒
आव॑ह॒
जात॑वेदो
ल॒क्ष्मीमन॑पगा॒मिनी᳚म्
।
यस्यां॒
हिर॑ण्यं-विँ॒न्देय॒-ङ्गामश्व॒-म्पुरु॑षान॒हम्
॥
अ॒श्व॒पू॒र्वां
र॑थम॒ध्यां
ह॒स्तिना॑द-प्र॒बोधि॑नीम्
।
श्रिय॑-न्दे॒वीमुप॑ह्वये॒
श्रीर्मा॑
दे॒वीर्जु॑षताम्
॥
कां॒सो᳚स्मि॒
तां
हिर॑ण्यप्रा॒कारा॑मा॒र्द्रा-ञ्ज्वल॑न्ती-न्तृ॒प्ता-न्त॒र्पय॑न्तीम्
।
प॒द्मे॒
स्थि॒ता-म्प॒द्मव॑र्णा॒-न्तामि॒होप॑ह्वये॒
श्रियम्
॥
च॒न्द्रा-म्प्र॑भा॒सां-यँ॒शसा॒
ज्वल॑न्तीं॒
श्रियं॑-लोँ॒के
दे॒वजु॑ष्टामुदा॒राम्
।
ता-म्प॒द्मिनी॑मीं॒
शर॑णम॒ह-म्प्रप॑द्ये-ऽल॒क्ष्मीर्मे॑
नश्यता॒-न्त्वां-वृँ॑णे
॥
आ॒दि॒त्यव॑र्णे॒
तप॒सो-ऽधि॑जा॒तो
वन॒स्पति॒स्तव॑
वृ॒क्षो-ऽथ॑
बि॒ल्वः
।
तस्य॒
फला॑नि॒
तप॒सानु॑दन्तु
मा॒यान्त॑रा॒याश्च॑
बा॒ह्या
अ॑ल॒क्ष्मीः
॥
उपै॑तु॒
मा-न्दे॑वस॒खः
की॒र्तिश्च॒
मणि॑ना
स॒ह
।
प्रा॒दु॒र्भू॒तो-ऽस्मि॑
राष्ट्रे॒-ऽस्मिन्
की॒र्ति॒मृ॑द्धि-न्द॒दातु॑
मे
॥
क्षु॒त्पि॒पा॒साम॑ला-ञ्ज्ये॒ष्ठाम॒ल॒क्षी-र्ना॑शया॒म्यहम्
।
अभू॑ति॒मस॑मृद्धि॒-ञ्च
स॒र्वा॒-न्निर्णु॑द
मे॒
गृहात्
॥
ग॒न्ध॒द्वा॒रा-न्दु॑राध॒र्षा॒-न्नि॒त्यपु॑ष्टा-ङ्करी॒षिणी᳚म्
।
ई॒श्वरीग्ं॑
सर्व॑भूता॒ना॒-न्तामि॒होप॑ह्वये॒
श्रियम्
॥
श्री᳚र्मे
भ॒जतु
।
अल॒क्षी᳚र्मे
न॒श्यतु
।
मन॑सः॒
काम॒माकू॑तिं-वाँ॒च-स्स॒त्यम॑शीमहि
।
प॒शू॒नाग्ं
रू॒पमन्य॑स्य॒
मयि॒
श्री-श्श्र॑यतां॒-यँशः॑
॥
क॒र्दमे॑न
प्र॑जाभू॒ता॒
म॒यि॒
सम्भ॑व
क॒र्दम
।
श्रियं॑-वाँ॒सय॑
मे
कु॒ले॒
मा॒तर॑-म्पद्म॒मालि॑नीम्
॥
आपः॑
सृ॒जन्तु॑
स्नि॒ग्धा॒नि॒
चि॒क्ली॒त
व॑स
मे॒
गृहे
।
नि
च॑
दे॒वी-म्मा॒तरं॒
श्रियं॑-वाँ॒सय॑
मे
कु॒ले
॥
आ॒र्द्रा-म्पु॒ष्करि॑णी-म्पु॒ष्टिं॒
पि॒ङ्ग॒ला-म्प॑द्ममा॒लिनीम्
।
च॒न्द्रां
हि॒रण्म॑यीं-लँ॒क्ष्मी-ञ्जात॑वेदो
म॒माव॑ह
॥
आ॒र्द्रां-यँः॒
करि॑णीं-यँ॒ष्टिं॒
सु॒व॒र्णां
हे॑ममा॒लिनीम्
।
सू॒र्यां
हि॒रण्म॑यीं-लँ॒क्ष्मी॒-ञ्जात॑वेदो
म॒माव॑ह
॥
ता-म्म॒
आव॑ह॒
जात॑वेदो
ल॒क्षीमन॑पगा॒मिनी᳚म्
।
यस्यां॒
हिर॑ण्य॒-म्प्रभू॑त॒-ङ्गावो॑
दा॒स्यो-ऽश्वा᳚न्,
वि॒न्देय॒-म्पुरु॑षान॒हम्
॥
यश्शुचिः॑
प्रयतो
भू॒त्वा॒
जु॒हुया॑-दाज्य॒-मन्व॑हम्
।
श्रियः॑
प॒ञ्चद॑शर्च-ञ्च
श्री॒काम॑स्सत॒त॒-ञ्ज॑पेत्
॥
आनन्दः
कर्द॑मश्चै॒व
चिक्ली॒त
इ॑ति
वि॒श्रुताः
।
ऋष॑य॒स्ते
त्र॑यः
पुत्रा-स्स्व॒यं॒
श्रीरे॑व
दे॒वता
॥
पद्मानने
प॑द्म
ऊ॒रू॒
प॒द्माक्षी
प॑द्मस॒म्भवे
।
त्व-म्मा᳚-म्भ॒जस्व॑
पद्मा॒क्षी
ये॒न
सौख्यं॑-लँभा॒म्यहम्
॥
अ॒श्वदा॑यी
च
गोदा॒यी॒
ध॒नदा॑यी
म॒हाध॑ने
।
धन॑-म्मे॒
जुष॑ता-न्दे॒वी
स॒र्वका॑मार्थ॒
सिद्ध॑ये
॥
पुत्रपौत्र
धन-न्धान्यं
हस्त्यश्वाजाविगो
रथम्
।
प्रजाना-म्भवसि
माता
आयुष्मन्त-ङ्करोतु
माम्
॥
चन्द्राभां-लँक्ष्मीमीशानां
सूर्याभां᳚
श्रियमीश्वरीम्
।
चन्द्र
सूर्याग्नि
सर्वाभां
श्री
महालक्ष्मी-मुपास्महे
॥
धन-मग्नि-र्धनं-वाँयु-र्धनं
सूर्यो॑
धनं-वँसुः
।
धनमिन्द्रो
बृहस्पति-र्वरु॑ण-न्धनम॑श्नुते
॥
वैनतेय
सोम-म्पिब
सोम॑-म्पिबतु
वृत्रहा
।
सोम॒-न्धनस्य
सोमिनो॒
मह्य॑-न्ददातु
सोमिनी॑
॥
न
क्रोधो
न
च
मात्स॒र्य-न्न
लोभो॑
नाशुभा
मतिः
।
भवन्ति
कृत
पुण्याना-म्भ॒क्तानां
श्री
सू᳚क्त-ञ्जपेत्सदा
॥
वर्ष᳚न्तु॒
ते
वि॑भाव॒रि॒
दि॒वो
अभ्रस्य
विद्यु॑तः
।
रोह᳚न्तु
सर्व॑बीजान्यव
ब्रह्म
द्वि॒षो᳚
ज॑हि
॥
पद्मप्रिये
पद्मिनि
पद्महस्ते
पद्मालये
पद्म-दलायताक्षी
।
विश्वप्रिये
विष्णु
मनोनुकूले
त्वत्पादपद्म-म्मयि
सन्निधत्स्व
॥
या
सा
पद्मासनस्था
विपुलकटितटी
पद्मपत्रायताक्षी
।
गम्भीरा
वर्तनाभि-स्स्तनभरनमिता
शुभ्र
वस्तोत्तरीया
॥
लक्ष्मी-र्दिव्यै-र्गजेन्द्रै-र्मणिगण
खचितै-स्स्नापिता
हेमकुम्भैः
।
नित्यं
सा
पद्महस्ता
मम
वसतु
गृहे
सर्व
माङ्गल्ययुक्ता
॥
लक्ष्मी-ङ्क्षीर
समुद्र
राजतनयां
श्रीरङ्ग
धामेश्वरीम्
।
दासीभूत
समस्त
देव
वनितां-लोँकैक
दीपाङ्कुराम्
।
श्रीमन्मन्द
कटाक्ष
लब्ध
विभव
ब्रह्मेन्द्र
गङ्गाधराम्
।
त्वा-न्त्रैलोक्य
कुटुम्बिनीं
सरसिजां-वँन्दे
मुकुन्दप्रियाम्
॥
सिद्धलक्ष्मी-र्मोक्षलक्ष्मी-र्जयलक्ष्मी-स्सरस्वती
।
श्रीलक्ष्मी-र्वरलक्ष्मीश्च
प्रसन्ना
मम
सर्वदा
॥
वराङ्कुशौ
पाशमभीति
मुद्राम्
।
करैर्वहन्ती-ङ्कमलासनस्थाम्
।
बालार्ककोटि
प्रतिभा-न्त्रिनेत्राम्
।
भजे-ऽहमम्बा-ञ्जगदीश्वरी-न्ताम्
॥
सर्वमङ्गल
माङ्गल्ये
शिवे
सर्वार्थ
साधिके
।
शरण्ये
त्य्रम्बके
देवी
नारायणि
नमोस्तुते
॥
ओ-म्म॒हा॒दे॒व्यै
च॑
वि॒द्महे॑
विष्णुप॒त्नी
च॑
धीमहि
।
तन्नो॑
लक्ष्मीः
प्रचो॒दया᳚त्
॥
श्री-र्वर्च॑स्व॒-मायु॑ष्य॒-मारो᳚ग्य॒-मावी॑धा॒त्-शोभ॑मान-म्मही॒यते᳚
।
धा॒न्य-न्ध॒न-म्प॒शु-म्ब॒हुपु॑त्रला॒भं
श॒तसं᳚वँत्स॒र-न्दी॒र्घमायुः॑
॥
ओं
शान्ति॒-श्शान्ति॒-श्शान्तिः॑
॥