हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
मन्यु सूक्तम्
(ṛ
।
ve
।
10
।
83,84)
यस्ते᳚
म॒न्यो-ऽवि॑धद्
वज्र
सायक॒
सह॒
ओजः॑
पुष्यति॒
विश्व॑मानु॒षक्
।
सा॒ह्याम॒
दास॒मार्य॒-न्त्वया᳚
यु॒जा
सह॑स्कृतेन॒
सह॑सा॒
सह॑स्वता
॥
1
॥
म॒न्युरिन्द्रो᳚
म॒न्युरे॒वास॑
दे॒वो
म॒न्युर्
होता॒
वरु॑णो
जा॒तवे᳚दाः
।
म॒न्युं-विँश॑
ईलते॒
मानु॑षी॒र्याः
पा॒हि
नो᳚
मन्यो॒
तप॑सा
स॒जोषाः᳚
॥
2
॥
अ॒भी᳚हि
मन्यो
त॒वस॒स्तवी᳚या॒-न्तप॑सा
यु॒जा
वि
ज॑हि
शत्रू᳚न्
।
अ॒मि॒त्र॒हा
वृ॑त्र॒हा
द॑स्यु॒हा
च॒
विश्वा॒
वसू॒न्या
भ॑रा॒
त्व-न्नः॑
॥
3
॥
त्वं
हि
म᳚न्यो
अ॒भिभू᳚त्योजा-स्स्वय॒म्भूर्भामो᳚
अभिमातिषा॒हः
।
वि॒श्वच॑र्-षणि॒-स्सहु॑रि॒-स्सहा᳚वान॒स्मास्वोजः॒
पृत॑नासु
धेहि
॥
4
॥
अ॒भा॒ग-स्सन्नप॒
परे᳚तो
अस्मि॒
तव॒
क्रत्वा᳚
तवि॒षस्य॑
प्रचेतः
।
त-न्त्वा᳚
मन्यो
अक्र॒तुर्जि॑हीला॒हं
स्वात॒नूर्ब॑ल॒देया᳚य॒
मेहि॑
॥
5
॥
अ॒य-न्ते᳚
अ॒स्म्युप॒
मेह्य॒र्वाङ्
प्र॑तीची॒न-स्स॑हुरे
विश्वधायः
।
मन्यो᳚
वज्रिन्न॒भि
मामा
व॑वृत्स्वहना᳚व॒
दस्यू᳚न्
ऋ॒त
बो᳚ध्या॒पेः
॥
6
॥
अ॒भि
प्रेहि॑
दक्षिण॒तो
भ॑वा॒
मे-ऽधा᳚
वृ॒त्राणि॑
जङ्घनाव॒
भूरि॑
।
जु॒होमि॑
ते
ध॒रुण॒-म्मध्वो॒
अग्र॑मुभा
उ॑पां॒शु
प्र॑थ॒मा
पि॑बाव
॥
7
॥
त्वया᳚
मन्यो
स॒रथ॑मारु॒जन्तो॒
हर्ष॑माणासो
धृषि॒ता
म॑रुत्वः
।
ति॒ग्मेष॑व॒
आयु॑धा
सं॒शिशा᳚ना
अ॒भि
प्रय᳚न्तु॒
नरो᳚
अ॒ग्निरू᳚पाः
॥
8
॥
अ॒ग्निरि॑व
मन्यो
त्विषि॒त-स्स॑हस्व
सेना॒नीर्नः॑
सहुरे
हू॒त
ए᳚धि
।
ह॒त्वाय॒
शत्रू॒न्
वि
भ॑जस्व॒
वेद॒
ओजो॒
मिमा᳚नो॒
विमृधो᳚
नुदस्व
॥
9
॥
सह॑स्व
मन्यो
अ॒भिमा᳚तिम॒स्मे
रु॒ज-न्मृ॒ण-न्प्र॑मृ॒ण-न्प्रेहि॒
शत्रू᳚न्
।
उ॒ग्र-न्ते॒
पाजो᳚
न॒न्वा
रु॑रुध्रे
व॒शी
वश᳚-न्नयस
एकज॒
त्वम्
॥
10
॥
एको᳚
बहू॒नाम॑सि
मन्यवीलि॒तो
विशं᳚विँशं-युँ॒धये॒
सं
शि॑शाधि
।
अकृ॑त्तरु॒-क्त्वया᳚
यु॒जा
व॒य-न्द्यु॒मन्त॒-ङ्घोषं᳚-विँज॒याय॑
कृण्महे
॥
11
वि॒जे॒ष॒कृदिन्द्र॑
इवानवब्र॒वो॒(ओ)3॑-ऽस्माक᳚-म्मन्यो
अधि॒पा
भ॑वे॒ह
3
प्रि॒य-न्ते॒
नाम॑
सहुरे
गृणीमसि
वि॒द्मातमुत्सं॒-यँत॑
आब॒भूथ॑
॥
12
॥
आभू᳚त्या
सह॒जा
व॑ज्र
सायक॒
सहो᳚
बिभर्ष्यभिभूत॒
उत्त॑रम्
।
क्रत्वा᳚
नो
मन्यो
स॒हमे॒द्ये᳚धि
महाध॒नस्य॑
पुरुहूत
सं॒सृजि॑
॥
13
॥
संसृ॑ष्ट॒-न्धन॑मु॒भयं᳚
स॒माकृ॑तम॒स्मभ्य᳚-न्दत्तां॒-वँरु॑णश्च
म॒न्युः
।
भिय॒-न्दधा᳚ना॒
हृद॑येषु॒
शत्र॑वः॒
परा᳚जितासो॒
अप॒
निल॑यन्ताम्
॥
14
॥
धन्व॑ना॒गाधन्व॑
ना॒जिञ्ज॑येम॒
धन्व॑ना
ती॒व्रा-स्स॒मदो᳚
जयेम
।
धनु-श्शत्रो᳚रपका॒म-ङ्कृ॑णोति॒
धन्व॑
ना॒सर्वाः᳚
प्र॒दिशो᳚
जयेम
॥
ओं
शान्ता॑
पृथिवी
शि॑वम॒न्तरिक्ष॒-न्द्यौर्नो᳚
दे॒व्य-ऽभ॑यन्नो
अस्तु
।
शि॒वा॒
दिशः॑
प्र॒दिश॑
उ॒द्दिशो᳚
न॒-ऽआपो᳚
वि॒श्वतः॒
परि॑पान्तु
स॒र्वत॒-श्शान्ति॒-श्शान्ति॒-श्शान्तिः॑
॥