हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
कालिकोपनिषत्
अथ
हैनं
ब्रह्मरन्ध्रे
ब्रह्मस्वरूपिणीमाप्नोति
।
सुभगां
त्रिगुणितां
मुक्तासुभगां
कामरेफेन्दिरां
समस्तरूपिणीमेतानि
त्रिगुणितानि
तदनु
कूर्चबीजं
व्योमषष्ठस्वरां
बिन्दुमेलनरूपां
तद्द्वयं
मायाद्वयं
दक्षिणे
कालिके
चेत्यभिमुखगतां
तदनु
बीजसप्तकमुच्चार्य
बृहद्भानुजायामुच्चरेत्
।
स
तु
शिवमयो
भवेत्
।
सर्वसिद्धीश्वरो
भवेत्
।
गतिस्तस्यास्तीति
।
नान्यस्य
गतिरस्ताति
।
स
तु
वागीश्वरः
।
स
तु
नारीश्वरः
।
स
तु
देवेश्वरः
।
स
तु
सर्वेश्वरः
।
अभिनवजलदसङ्काशा
घनस्तनी
कुटिलदंष्ट्रा
शवासना
कालिका
ध्येया
।
त्रिकोणं
पञ्चकोणं
नवकोणं
पद्मम्
।
तस्मिन्
देवी
सर्वाङ्गेऽभ्यर्च्य
तदिदं
सर्वाङ्गं
ओं
काली
कपालिनी
कुल्ला
कुरुकुल्ला
विरोधिनी
विप्रचित्ता
उग्रा
उग्रप्रभा
दीप्ता
नीला
घना
बलाका
मात्रा
मुद्राऽमिता
चैव
पञ्चदशकोणगाः
।
ब्राह्मी
नारायणी
माहेश्वरी
कौमारी
अपराजिता
वाराही
नारसिंहिका
चेत्यष्टपत्रगाः
।
षोडशस्वरभेदेन
प्रथमेन
मन्त्रविभागः
।
तन्मूलेनावाहनं
तेनैव
पूजनम्
।
य
एवं
मन्त्रराजं
नियमेन
वा
लक्षमावर्तयति
स
पाप्मानं
हन्ति
।
स
ब्रह्मत्वं
भजति
।
सः
अमृतत्वं
भजति
।
स
आयुरारोग्यमैश्वर्यं
भजति
।
सदा
पञ्चमकारेण
पूजयेत्
।
सदा
गुरुभक्तो
भवेत्
।
सदा
देवभक्तो
भवेत्
।
धर्मिष्ठतां
पुष्टिमहतवाचं
विप्रा
लभन्ते
।
मन्त्रजापिनो
ह्यात्मा
विद्याप्रपूरितो
भवति
।
स
जीवन्मुक्तो
भवति
।
स
सर्वशास्त्रं
जानाति
।
स
सर्वपुण्यकारी
भवति
।
स
सर्वयज्ञयाजी
भवति
।
राजानो
दासतां
यान्ति
।
जप्त्वा
स
सर्वमेतं
मन्त्रराजं
स्वयं
शिव
एवाहमित्यणिमादिविभूतीनामीश्वरः
कालिकां
लभेत्
॥
आवयोः
पात्रभूतः
सन्
सुकृती
त्यक्तकल्मषः
।
जीवन्मुक्तः
स
विज्ञेयो
यस्मै
लब्धा
हि
दक्षिणा
॥
दशांशं
होमयेत्तदनु
तर्पयेत्
।
अथ
हैके
यज्ञान्
कामानद्वैतज्ञानादीननिरुद्धसरस्वतीति
।
अथ
हैषः
कालिकामनुजापी
यः
सदा
शुद्धात्मा
ज्ञानवैराग्ययुक्तः
शाम्भवीदीक्षासु
रक्तः
शाक्तासु
।
यदि
वा
ब्रह्मचारी
रात्रौ
नग्नः
सर्वदा
मधुनाऽशक्तो
मनसा
जपपूजादिनियमवान्
।
योषित्प्रियकरो
भगोदकेन
तर्पणं
तेनैव
पूजनं
कुर्यात्
।
सर्वदा
कालिकारूपमात्मानं
विभावयेत्
।
स
सर्वदा
योषिदासक्तो
भवेत्
।
स
सर्वहत्यां
तरति
तेन
मधुदानेन
।
अथ
पञ्चमकारेण
सर्वमायादिविद्यां
पशुधनधान्यं
सर्वेशत्वं
च
कवित्वं
च
।
नान्यः
परमः
पन्था
विद्यते
मोक्षाय
ज्ञानाय
धर्माधर्माय
।
तत्सर्वं
भूतं
भव्यं
यत्किञ्चिद्दृश्यमानं
स्थावरजङ्गमं
तत्सर्वं
कालिकातन्त्रे
ओतं
प्रोतं
वेद
।
य
एवं
मनुजापी
स
पाप्मानं
तरति
।
स
भ्रूणहत्यां
तरति
।
सोऽगम्यागमनं
तरति
।
स
सर्वसुखमाप्नोति
।
स
सर्वं
जानाति
।
स
सर्वसंन्यासी
भवति
।
स
विरक्तो
भवति
।
स
सर्ववेदाध्यायी
भवति
।
स
सर्वमन्त्रजापी
भवति
।
स
सर्वशास्रवेत्ता
भवति
।
स
सर्वज्ञानकारी
भवति
।
स
आवयोर्मित्रभूतो
भवति
।
इत्याह
भगवान्
शिवः
।
निर्विकल्पेन
मनसा
स
वन्द्यो
भवति
॥
अथ
हैनाम्
।
मूलाधारे
स्मरेद्दिव्यं
त्रिकोणं
तेजसां
निधिम्
।
शिखा
आनीय
तस्याग्नेरथ
तूर्ध्वं
व्यवस्थिता
॥
नीलतोयदमध्यस्था
विद्युल्लेखेव
भास्वरा
।
नीवारशूकवत्तन्वी
पीता
भास्वत्यणूपमा
॥
तस्याः
शिखाया
मध्ये
परमात्मा
व्यवस्थितः
।
स
ब्रह्मा
स
शिवः
सेन्द्रः
सोऽक्षरः
परमः
स्वराट्
॥
स
एव
विष्णुः
स
प्राणः
स
कालोऽग्निः
स
चन्द्रमाः
।
इति
कुण्डलिनीं
ध्यात्वा
सर्वपापैः
प्रमुच्यते
॥
महापातकेभ्यः
पूतो
भूत्वा
सर्वमन्त्रसिद्धिं
कृत्वा
भैरवो
भवेत्
।
महाकालभैरवोऽस्य
ऋषिः
।
उष्णिक्
छन्दः
कालिका
देवता
।
ह्रीं
बीजं
ह्रूं
शक्तिः
क्रीं
कीलकं
अनिरुद्धसरस्वती
देवता
।
कवित्वे
पाण्डित्यार्थे
जपे
विनियोगः
।
इत्येवमृषिच्छन्दोदैवतं
ज्ञात्वा
मन्त्र
साफल्यमश्नुते
।
अथर्वविद्यां
प्रथममेकं
द्वयं
त्रयं
वा
नामद्वयसम्पुटितं
कृत्वा
योजयेत्
।
गतिस्तस्यास्तीति
।
नान्यस्य
गतिरस्तीति
।
ओं
सत्यम्
।
ओं
तत्सत्
॥
अथ
हैनं
गुरुं
परितोष्यैनं
मन्त्रराजं
गृह्णीयात्
।
मन्त्रराजं
गुरुस्तमपि
शिष्याय
सत्कुलीनाय
विद्याभक्ताय
सुवेषां
स्त्रियं
स्पृष्ट्वा
स्वयं
निशायां
निरुपद्रवः
परिपूज्य
एकाकी
शिवगेहे
लक्षं
तदर्धं
वा
जपित्वा
दद्यात्
।
ओं
ओं
ओं
सत्यं
सत्यं
सत्यम्
।
नान्यप्रकारेण
सिद्धिर्भवति
।
अथाह
वै
कालिकामनोस्तारामनोस्त्रिपुरामनोः
सर्वदुर्गामनोर्वा
स्वरूपसिद्धिरेवमिति
शिवम्
॥
इत्याथर्वणे
सौभाग्यकाण्डे
कालिकोपनिषत्
समाप्ता
।