Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

श्री दत्त अथर्वशीर्षम्

ओं नमो भगवते दत्तात्रेयाय अवधूताय दिगम्बराय विधिहरिहराय आदितत्त्वाय आदिशक्तये ॥ 1 ॥
त्वं चराचरात्मकः सर्वव्यापी सर्वसाक्षी त्वं दिक्कालातीतः त्वं द्वन्द्वातीतः ॥ 2 ॥
त्वं विश्वात्मकः त्वं विश्वाधारः विश्वेशः विश्वनाथः त्वं विश्वनाटकसूत्रधारः त्वमेव केवलं कर्तासि त्वं अकर्तासि च नित्यम् ॥ 3 ॥
त्वं आनन्दमयः ध्यानगम्यः त्वं आत्मानन्दः त्वं परमानन्दः त्वं सच्चिदानन्दः त्वमेव चैतन्यः चैतन्यदत्तात्रेयः ओं चैतन्यदत्तात्रेयाय नमः ॥ 4 ॥
त्वं भक्तवत्सलः भक्ततारकः भक्तरक्षकः दयाघनः भजनप्रियः त्वं पतितपावनः करुणाकरः भवभयहरः ॥ 5 ॥
त्वं भक्तकारणसम्भूतः अत्रिसुतः अनसूयात्मजः त्वं श्रीपादश्रीवल्लभः त्वं गाणगग्रामनिवासी श्रीमन्नृसिंहसरस्वती त्वं श्रीनृसिंहभानः अक्कलकोटनिवासी श्रीस्वामीसमर्थः त्वं करवीरनिवासी परमसद्गुरु श्रीकृष्णसरस्वती त्वं श्रीसद्गुरु माधवसरस्वती ॥ 6 ॥
त्वं स्मर्तृगामी श्रीगुरूदत्तः शरणागतोऽस्मि त्वाम् । दीने आर्ते मयि दयां कुरु तव एकमात्रदृष्टिक्षेपः दुरितक्षयकारकः ।
हे भगवन् वरददत्तात्रेय मामुद्धर मामुद्धर मामुद्धर इति प्रार्थयामि । ओं द्रां दत्तात्रेयाय नमः ॥ 7 ॥
ओं दिगम्बराय विद्महे अवधूताय धीमहि तन्नो दत्तः प्रचोदयात् ॥
इति श्री दत्त अथर्वशीर्षम् ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits