हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
श्री वेङ्कटेश्वर वज्र कवच स्तोत्रम्
मार्कण्डेय
उवाच
।
नारायणं
परब्रह्म
सर्व-कारण-कारणम्
।
प्रपद्ये
वेङ्कटेशाख्यं
तदेव
कवचं
मम
॥
1
॥
सहस्र-शीर्षा
पुरुषो
वेङ्कटेश-श्शिरोऽवतु
।
प्राणेशः
प्राण-निलयः
प्राणान्
रक्षतु
मे
हरिः
॥
2
॥
आकाशरा-ट्सुतानाथ
आत्मानं
मे
सदावतु
।
देवदेवोत्तमो
पायाद्देहं
मे
वेङ्कटेश्वरः
॥
3
॥
सर्वत्र
सर्वकालेषु
मङ्गाम्बाजा-निरीश्वरः
।
पालयेन्मां
सदा
कर्म-साफल्यं
नः
प्रयच्छतु
॥
4
॥
य
एत-द्वज्रकवच-मभेद्यं
वेङ्कटेशितुः
।
सायं
प्रातः
पठेन्नित्यं
मृत्युं
तरति
निर्भयः
॥
5
॥
इति
मार्कण्डेय-कृतं
श्री
वेङ्कटेश्वर
वज्रकवच-स्तोत्रं
सम्पूर्णम्
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits