हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
श्री वेङ्कटेश्वर मङ्गलाष्टकम्
श्रीक्षोण्यौ
रमणीयुगं
सुरमणीपुत्रोऽपि
वाणीपतिः
पौत्रश्चन्द्रशिरोमणिः
फणिपतिः
शय्या
सुराः
सेवकाः
।
तार्क्ष्यो
यस्य
रथो
महश्च
भवनं
ब्रह्माण्डमाद्यः
पुमान्
श्रीमद्वेङ्कटभूधरेन्द्ररमणः
कुर्याद्धरिर्मङ्गलम्
॥
1
॥
यत्तेजो
रविकोटिकोटिकिरणान्
धिक्कृत्य
जेजीयते
यस्य
श्रीवदनाम्बुजस्य
सुषमा
राकेन्दुकोटीरपि
।
सौन्दर्यं
च
मनोभवानपि
बहून्
कान्तिश्च
कादम्बिनीं
श्रीमद्वेङ्कटभूधरेन्द्ररमणः
कुर्याद्धरिर्मङ्गलम्
॥
2
॥
नानारत्न
किरीटकुण्डलमुखैर्भूषागणैर्भूषितः
श्रीमत्कौस्तुभरत्न
भव्यहृदयः
श्रीवत्ससल्लाञ्छनः
।
विद्युद्वर्णसुवर्णवस्त्ररुचिरो
यः
शङ्खचक्रादिभिः
श्रीमद्वेङ्कटभूधरेन्द्ररमणः
कुर्याद्धरिर्मङ्गलम्
॥
3
॥
यत्फाले
मृगनाभिचारुतिलको
नेत्रेऽब्जपत्रायते
कस्तूरीघनसारकेसरमिलच्छ्रीगन्धसारो
द्रवैः
।
गन्धैर्लिप्ततनुः
सुगन्धसुमनोमालाधरो
यः
प्रभुः
श्रीमद्वेङ्कटभूधरेन्द्ररमणः
कुर्याद्धरिर्मङ्गलम्
॥
4
॥
एतद्दिव्यपदं
ममास्ति
भुवि
तत्सम्पश्यतेत्यादरा-
-द्भक्तेभ्यः
स्वकरेण
दर्शयति
यद्दृष्ट्याऽतिसौख्यं
गतः
।
एतद्भक्तिमतो
महानपि
भवाम्भोधिर्नदीति
स्पृशन्
श्रीमद्वेङ्कटभूधरेन्द्ररमणः
कुर्याद्धरिर्मङ्गलम्
॥
5
॥
यः
स्वामी
सरसस्तटे
विहरतो
श्रीस्वामिनाम्नः
सदा
सौवर्णालयमन्दिरो
विधिमुखैर्बर्हिर्मुखैः
सेवितः
।
यः
शत्रून्
हनयन्
निजानवति
च
श्रीभूवराहात्मकः
श्रीमद्वेङ्कटभूधरेन्द्ररमणः
कुर्याद्धरिर्मङ्गलम्
॥
6
॥
यो
ब्रह्मादिसुरान्
मुनींश्च
मनुजान्
ब्रह्मोत्सवायागतान्
दृष्ट्वा
हृष्टमना
बभूव
बहुशस्तैरर्चितः
संस्तुतः
।
तेभ्यो
यः
प्रददाद्वरान्
बहुविधान्
लक्ष्मीनिवासो
विभुः
श्रीमद्वेङ्कटभूधरेन्द्ररमणः
कुर्याद्धरिर्मङ्गलम्
॥
7
॥
यो
देवो
भुवि
वर्तते
कलियुगे
वैकुण्ठलोकस्थितो
भक्तानां
परिपालनाय
सततं
कारुण्यवारां
निधिः
।
श्रीशेषाख्यमहीन्ध्रमस्तकमणिर्भक्तैकचिन्तामणिः
श्रीमद्वेङ्कटभूधरेन्द्ररमणः
कुर्याद्धरिर्मङ्गलम्
॥
8
॥
शेषाद्रिप्रभुमङ्गलाष्टकमिदं
तुष्टेन
यस्येशितुः
प्रीत्यर्थं
रचितं
रमेशचरणद्वन्द्वैकनिष्ठावता
।
वैवाह्यादिशुभक्रियासु
पठितं
यैः
साधु
तेषामपि
श्रीमद्वेङ्कटभूधरेन्द्ररमणः
कुर्याद्धरिर्मङ्गलम्
॥
9
॥
इति
श्री
वेङ्कटेश
मङ्गलाष्टकम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits