हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
श्री वेङ्कटेश्वर अष्टोत्तरशत नामस्तोत्रम्
ओं
श्रीवेङ्कटेशः
श्रीवासो
लक्ष्मी
पतिरनामयः
।
अमृतांशो
जगद्वन्द्यो
गोविन्द
श्शाश्वतः
प्रभुः
॥
1
॥
शेषाद्रिनिलयो
देवः
केशवो
मधुसूदनः
अमृतो
माधवः
कृष्णः
श्रीहरिर्
ज्ञानपञ्जरः
॥
2
॥
श्रीवत्सवक्षाः
सर्वेशो
गोपालः
पुरुषोत्तमः
।
गोपीश्वरः
परञ्ज्योति-र्वैकुण्ठपति-रव्ययः
॥
3
॥
सुधातनु-र्यादवेन्द्रो
नित्ययौवनरूपवान्
।
चतुर्वेदात्मको
विष्णु-रच्युतः
पद्मिनीप्रियः
॥
4
॥
धरापति-स्सुरपति-र्निर्मलो
देव
पूजितः
।
चतुर्भुज-श्चक्रधर-स्त्रिधामा
त्रिगुणाश्रयः
॥
5
॥
निर्विकल्पो
निष्कलङ्को
निरान्तको
निरञ्जनः
।
निराभासो
नित्यतृप्तो
निर्गुणो
निरुपद्रवः
॥
6
॥
गदाधर-श्शार्ङ्गपाणि-र्नन्दकी
शङ्खधारकः
।
अनेकमूर्ति-रव्यक्तः
कटिहस्तो
वरप्रदः
॥
7
॥
अनेकात्मा
दीनबन्धु-रार्तलोकाभयप्रदः
।
आकाशराजवरदो
योगिहृत्पद्ममन्दिरः
॥
8
॥
दामोदरो
जगत्पालः
पापघ्नो
भक्तवत्सलः
।
त्रिविक्रम-श्शिंशुमारो
जटामकुटशोभितः
॥
9
॥
शङ्खमध्योल्लसन्मञ्जु
किङ्किणाढ्यकरण्ढकः
।
नीलमेघश्यामतनु-र्बिल्वपत्रार्चनप्रियः
॥
10
॥
जगद्व्यापी
जगत्कर्ता
जगत्साक्षी
जगत्पतिः
।
चिन्तितार्थप्रदो
जिष्णु-र्दाशार्हो
दशरूपवान्
॥
11
॥
देवकीनन्दन-श्शौरि-र्हयग्रीवो
जनार्दनः
।
कन्याश्रवणतारेज्यः
पीताम्बरधरोऽनघः
॥
12
॥
वनमाली
पद्मनाभो
मृगयासक्त
मानसः
।
अश्वारूढः
खड्गधारी
धनार्जन
समुत्सुकः
॥
13
॥
घनसारलसन्मध्य
कस्तूरी
तिलकोज्ज्वलः
।
सच्चिदानन्दरूपश्च
जगन्मङ्गलदायकः
॥
14
॥
यज्ञरूपो
यज्ञभोक्ता
चिन्मयः
परमेश्वरः
।
परमार्थप्रदः
शान्तः
श्रीमान्
दोर्दण्डविक्रमः
॥
15
॥
परात्परः
परम्ब्रह्म
श्रीविभु-र्जगदीश्वरः
।
एवं
श्रीवेङ्कटेशस्य
नाम्ना-मष्टोत्तरं
शतम्
॥
पठतां
शृण्वतां
भक्त्या
सर्वाभीष्टप्रदं
शुभम्
।
त्रिसन्ध्यं
यः
पघेन्निष्यं
सर्वान्
कामिवाप्नु
यात्
॥ ॥
श्री
वेङ्कटेश्वरार्पणमस्तु
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits