Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

श्री वेङ्कटेश्वर अष्टोत्तर शत नामावलिः

ओं श्री वेङ्कटेशाय नमः ।
ओं श्रीनिवासाय नमः ।
ओं लक्ष्मीपतये नमः ।
ओं अनामयाय नमः ।
ओं अमृताशाय नमः ।
ओं जगद्वन्द्याय नमः ।
ओं गोविन्दाय नमः ।
ओं शाश्वताय नमः ।
ओं प्रभवे नमः ।
ओं शेषाद्रिनिलयाय नमः । 10
ओं देवाय नमः ।
ओं केशवाय नमः ।
ओं मधुसूदनाय नमः ।
ओं अमृताय नमः ।
ओं माधवाय नमः ।
ओं कृष्णाय नमः ।
ओं श्रीहरये नमः ।
ओं ज्ञानपञ्जराय नमः ।
ओं श्रीवत्सवक्षसे नमः ।
ओं सर्वेशाय नमः ।
ओं गोपालाय नमः ।
ओं पुरुषोत्तमाय नमः ।
ओं गोपीश्वराय नमः ।
ओं परस्मै ज्योतिषे नमः ।
ओं व्तॆकुण्ठ पतये नमः ।
ओं अव्ययाय नमः ।
ओं सुधातनवे नमः ।
ओं यादवेन्द्राय नमः ।
ओं नित्य यौवनरूपवते नमः ।
ओं चतुर्वेदात्मकाय नमः । 30
ओं विष्णवे नमः ।
ओं अच्युताय नमः ।
ओं पद्मिनीप्रियाय नमः ।
ओं धरापतये नमः ।
ओं सुरपतये नमः ।
ओं निर्मलाय नमः ।
ओं देवपूजिताय नमः ।
ओं चतुर्भुजाय नमः ।
ओं चक्रधराय नमः ।
ओं त्रिधाम्ने नमः । 40
ओं त्रिगुणाश्रयाय नमः ।
ओं निर्विकल्पाय नमः ।
ओं निष्कलङ्काय नमः ।
ओं निरान्तकाय नमः ।
ओं निरञ्जनाय नमः ।
ओं विराभासाय नमः ।
ओं नित्यतृप्ताय नमः ।
ओं निर्गुणाय नमः ।
ओं निरुपद्रवाय नमः ।
ओं गदाधराय नमः । 50
ओं शार्-ङ्गपाणये नमः ।
ओं नन्दकिने नमः ।
ओं शङ्खधारकाय नमः ।
ओं अनेकमूर्तये नमः ।
ओं अव्यक्ताय नमः ।
ओं कटिहस्ताय नमः ।
ओं वरप्रदाय नमः ।
ओं अनेकात्मने नमः ।
ओं दीनबन्धवे नमः ।
ओं आर्तलोकाभयप्रदाय नमः । 60
ओं आकाशराजवरदाय नमः ।
ओं योगिहृत्पद्ममन्दिराय नमः ।
ओं दामोदराय नमः ।
ओं जगत्पालाय नमः ।
ओं पापघ्नाय नमः ।
ओं भक्तवत्सलाय नमः ।
ओं त्रिविक्रमाय नमः ।
ओं शिंशुमाराय नमः ।
ओं जटामकुट शोभिताय नमः ।
ओं शङ्खमद्योल्लस-न्मञ्जुकिङ्किण्याढ्यकरण्डकाय नमः । 70
ओं नीलमोघश्याम तनवे नमः ।
ओं बिल्वपत्रार्चन प्रियाय नमः ।
ओं जगद्व्यापिने नमः ।
ओं जगत्कर्त्रे नमः ।
ओं जगत्साक्षिणे नमः ।
ओं जगत्पतये नमः ।
ओं चिन्तितार्थप्रदाय नमः ।
ओं जिष्णवे नमः ।
ओं दाशार्हाय नमः ।
ओं दशरूपवते नमः । 80
ओं देवकी नन्दनाय नमः ।
ओं शौरये नमः ।
ओं हयग्रीवाय नमः ।
ओं जनार्दनाय नमः ।
ओं कन्याश्रवणतारेज्याय नमः ।
ओं पीताम्बरधराय नमः ।
ओं अनघाय नमः ।
ओं वनमालिने नमः ।
ओं पद्मनाभाय नमः ।
ओं मृगयासक्त मानसाय नमः । 90
ओं अश्वारूढाय नमः ।
ओं खड्गधारिणे नमः ।
ओं धनार्जन समुत्सुकाय नमः ।
ओं घनसार लसन्मध्यकस्तूरी तिलकोज्ज्वलाय नमः ।
ओं सच्चितानन्दरूपाय नमः ।
ओं जगन्मङ्गल दायकाय नमः ।
ओं यज्ञरूपाय नमः ।
ओं यज्ञभोक्त्रे नमः ।
ओं चिन्मयाय नमः ।
ओं परमेश्वराय नमः । 100
ओं परमार्थप्रदायकाय नमः ।
ओं शान्ताय नमः ।
ओं श्रीमते नमः ।
ओं दोर्दण्ड विक्रमाय नमः ।
ओं परात्पराय नमः ।
ओं परस्मै ब्रह्मणे नमः ।
ओं श्रीविभवे नमः ।
ओं जगदीश्वराय नमः । 108

Recite with devotion and pure heart

Regular practice brings spiritual benefits