हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
श्री वेङ्कटेश्वर भुजङ्गम्
मुखे
चारुहासं
करे
शङ्खचक्रं
गले
रत्नमालां
स्वयं
मेघवर्णम्
।
तथा
दिव्यशस्त्रं
प्रियं
पीतवस्त्रं
धरन्तं
मुरारिं
भजे
वेङ्कटेशम्
॥
1
॥
सदाभीतिहस्तं
मुदाजानुपाणिं
लसन्मेखलं
रत्नशोभाप्रकाशम्
।
जगत्पादपद्मं
महत्पद्मनाभं
धरन्तं
मुरारिं
भजे
वेङ्कटेशम्
॥
2
॥
अहो
निर्मलं
नित्यमाकाशरूपं
जगत्कारणं
सर्ववेदान्तवेद्यम्
।
विभुं
तापसं
सच्चिदानन्दरूपं
धरन्तं
मुरारिं
भजे
वेङ्कटेशम्
॥
3
॥
श्रिया
विष्टितं
वामपक्षप्रकाशं
सुरैर्वन्दितं
ब्रह्मरुद्रस्तुतं
तम्
।
शिवं
शङ्करं
स्वस्तिनिर्वाणरूपं
धरन्तं
मुरारिं
भजे
वेङ्कटेशम्
॥
4
॥
महायोगसाद्ध्यं
परिभ्राजमानं
चिरं
विश्वरूपं
सुरेशं
महेशम्
।
अहो
शान्तरूपं
सदाध्यानगम्यं
धरन्तं
मुरारिं
भजे
वेङ्कटेशम्
॥
5
॥
अहो
मत्स्यरूपं
तथा
कूर्मरूपं
महाक्रोडरूपं
तथा
नारसिंहम्
।
भजे
कुब्जरूपं
विभुं
जामदग्न्यं
धरन्तं
मुरारिं
भजे
वेङ्कटेशम्
॥
6
॥
अहो
बुद्धरूपं
तथा
कल्किरूपं
प्रभुं
शाश्वतं
लोकरक्षामहन्तम्
।
पृथक्काललब्धात्मलीलावतारं
धरन्तं
मुरारिं
भजे
वेङ्कटेशम्
॥
7
॥
इति
श्रीवेङ्कटेशभुजङ्गं
सम्पूर्णम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits