हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
श्री वेङ्कटेश मङ्गलाशासनम्
श्रियः
कान्ताय
कल्याणनिधये
निधयेऽर्थिनाम्
।
श्रीवेङ्कट
निवासाय
श्रीनिवासाय
मङ्गलम्
॥
1
॥
लक्ष्मी
सविभ्रमालोक
सुभ्रू
विभ्रम
चक्षुषे
।
चक्षुषे
सर्वलोकानां
वेङ्कटेशाय
मङ्गलम्
॥
2
॥
श्रीवेङ्कटाद्रि
शृङ्गाग्र
मङ्गलाभरणाङ्घ्रये
।
मङ्गलानां
निवासाय
श्रीनिवासाय
मङ्गलम्
॥
3
॥
सर्वावयव
सौन्दर्य
सम्पदा
सर्वचेतसाम्
।
सदा
सम्मोहनायास्तु
वेङ्कटेशाय
मङ्गलम्
॥
4
॥
नित्याय
निरवद्याय
सत्यानन्द
चिदात्मने
।
सर्वान्तरात्मने
श्रीमद्-वेङ्कटेशाय
मङ्गलम्
॥
5
॥
स्वत
स्सर्वविदे
सर्व
शक्तये
सर्वशेषिणे
।
सुलभाय
सुशीलाय
वेङ्कटेशाय
मङ्गलम्
॥
6
॥
परस्मै
ब्रह्मणे
पूर्णकामाय
परमात्मने
।
प्रयुञ्जे
परतत्त्वाय
वेङ्कटेशाय
मङ्गलम्
॥
7
॥
आकालतत्त्व
मश्रान्त
मात्मना
मनुपश्यताम्
।
अतृप्त्यमृत
रूपाय
वेङ्कटेशाय
मङ्गलम्
॥
8
॥
प्रायः
स्वचरणौ
पुंसां
शरण्यत्वेन
पाणिना
।
कृपयाऽऽदिशते
श्रीमद्-वेङ्कटेशाय
मङ्गलम्
॥
9
॥
दयाऽमृत
तरङ्गिण्या
स्तरङ्गैरिव
शीतलैः
।
अपाङ्गै
स्सिञ्चते
विश्वं
वेङ्कटेशाय
मङ्गलम्
॥
10
॥
स्रग्-भूषाम्बर
हेतीनां
सुषमाऽऽवहमूर्तये
।
सर्वार्ति
शमनायास्तु
वेङ्कटेशाय
मङ्गलम्
॥
11
॥
श्रीवैकुण्ठ
विरक्ताय
स्वामि
पुष्करिणीतटे
।
रमया
रममाणाय
वेङ्कटेशाय
मङ्गलम्
॥
12
॥
श्रीमत्-सुन्दरजा
मातृमुनि
मानसवासिने
।
सर्वलोक
निवासाय
श्रीनिवासाय
मङ्गलम्
॥
13
॥
मङ्गला
शासनपरैर्-मदाचार्य
पुरोगमैः
।
सर्वैश्च
पूर्वैराचार्यैः
सत्कृतायास्तु
मङ्गलम्
॥
14
॥
श्री
पद्मावती
समेत
श्री
श्रीनिवास
परब्रह्मणे
नमः
Recite with devotion and pure heart
Regular practice brings spiritual benefits