हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
आदित्य हृदयम्
ध्यानम्
–
नमस्सवित्रे
जगदेक
चक्षुसे
जगत्प्रसूति
स्थिति
नाशहेतवे
त्रयीमयाय
त्रिगुणात्म
धारिणे
विरिञ्चि
नारायण
शङ्करात्मने
ततो
युद्ध
परिश्रान्तं
समरे
चिन्तयास्थितम्
।
रावणं
चाग्रतो
दृष्ट्वा
युद्धाय
समुपस्थितम्
॥
1
॥
दैवतैश्च
समागम्य
द्रष्टुमभ्यागतो
रणम्
।
उपागम्याब्रवीद्रामं
अगस्त्यो
भगवान्
ऋषिः
॥
2
॥
राम
राम
महाबाहो
शृणु
गुह्यं
सनातनम्
।
येन
सर्वानरीन्
वत्स
समरे
विजयिष्यसि
॥
3
॥
आदित्यहृदयं
पुण्यं
सर्वशत्रु-विनाशनम्
।
जयावहं
जपेन्नित्यं
अक्षय्यं
परमं
शिवम्
॥
4
॥
सर्वमङ्गल-माङ्गल्यं
सर्वपाप-प्रणाशनम्
।
चिन्ताशोक-प्रशमनं
आयुर्वर्धनमुत्तमम्
॥
5
॥
रश्मिमन्तं
समुद्यन्तं
देवासुर
नमस्कृतम्
।
पूजयस्व
विवस्वन्तं
भास्करं
भुवनेश्वरम्
॥
6
॥
सर्वदेवात्मको
ह्येष
तेजस्वी
रश्मिभावनः
।
एष
देवासुर-गणान्
लोकान्
पाति
गभस्तिभिः
॥
7
॥
एष
ब्रह्मा
च
विष्णुश्च
शिवः
स्कन्दः
प्रजापतिः
।
महेन्द्रो
धनदः
कालो
यमः
सोमो
ह्यपां
पतिः
॥
8
॥
पितरो
वसवः
साध्या
ह्यश्विनौ
मरुतो
मनुः
।
वायुर्वह्निः
प्रजाप्राणः
ऋतुकर्ता
प्रभाकरः
॥
9
॥
आदित्यः
सविता
सूर्यः
खगः
पूषा
गभस्तिमान्
।
सुवर्णसदृशो
भानुः
हिरण्यरेता
दिवाकरः
॥
10
॥
हरिदश्वः
सहस्रार्चिः
सप्तसप्ति-र्मरीचिमान्
।
तिमिरोन्मथनः
शम्भुः
त्वष्टा
मार्ताण्डकोंऽशुमान्
॥
11
॥
हिरण्यगर्भः
शिशिरः
तपनो
भास्करो
रविः
।
अग्निगर्भोऽदितेः
पुत्रः
शङ्खः
शिशिरनाशनः
॥
12
॥
व्योमनाथ-स्तमोभेदी
ऋग्यजुःसाम-पारगः
।
घनावृष्टिरपां
मित्रः
विन्ध्यवीथी
प्लवङ्गमः
॥
13
॥
आतपी
मण्डली
मृत्युः
पिङ्गलः
सर्वतापनः
।
कविर्विश्वो
महातेजा
रक्तः
सर्वभवोद्भवः
॥
14
॥
नक्षत्र
ग्रह
ताराणां
अधिपो
विश्वभावनः
।
तेजसामपि
तेजस्वी
द्वादशात्म-न्नमोऽस्तु
ते
॥
15
॥
नमः
पूर्वाय
गिरये
पश्चिमायाद्रये
नमः
।
ज्योतिर्गणानां
पतये
दिनाधिपतये
नमः
॥
16
॥
जयाय
जयभद्राय
हर्यश्वाय
नमो
नमः
।
नमो
नमः
सहस्रांशो
आदित्याय
नमो
नमः
॥
17
॥
नम
उग्राय
वीराय
सारङ्गाय
नमो
नमः
।
नमः
पद्मप्रबोधाय
मार्ताण्डाय
नमो
नमः
॥
18
॥
ब्रह्मेशानाच्युतेशाय
सूर्यायादित्य-वर्चसे
।
भास्वते
सर्वभक्षाय
रौद्राय
वपुषे
नमः
॥
19
॥
तमोघ्नाय
हिमघ्नाय
शत्रुघ्नाया
मितात्मने
।
कृतघ्नघ्नाय
देवाय
ज्योतिषां
पतये
नमः
॥
20
॥
तप्त
चामीकराभाय
वह्नये
विश्वकर्मणे
।
नमस्तमोऽभि
निघ्नाय
रवये
लोकसाक्षिणे
॥
21
॥
नाशयत्येष
वै
भूतं
तदेव
सृजति
प्रभुः
।
पायत्येष
तपत्येष
वर्षत्येष
गभस्तिभिः
॥
22
॥
एष
सुप्तेषु
जागर्ति
भूतेषु
परिनिष्ठितः
।
एष
एवाग्निहोत्रं
च
फलं
चैवाग्नि
होत्रिणाम्
॥
23
॥
वेदाश्च
क्रतवश्चैव
क्रतूनां
फलमेव
च
।
यानि
कृत्यानि
लोकेषु
सर्व
एष
रविः
प्रभुः
॥
24
॥
फलश्रुतिः
–
एन
मापत्सु
कृच्छ्रेषु
कान्तारेषु
भयेषु
च
।
कीर्तयन्
पुरुषः
कश्चिन्नावशीदति
राघव
॥
25
॥
पूजयस्वैन
मेकाग्रः
देवदेवं
जगत्पतिम्
।
एतत्
त्रिगुणितं
जप्त्वा
युद्धेषु
विजयिष्यसि
॥
26
॥
अस्मिन्
क्षणे
महाबाहो
रावणं
त्वं
वधिष्यसि
।
एवमुक्त्वा
तदागस्त्यो
जगाम
च
यथागतम्
॥
27
॥
एतच्छ्रुत्वा
महातेजा
नष्टशोकोऽभवत्तदा
।
धारयामास
सुप्रीतो
राघवः
प्रयतात्मवान्
॥
28
॥
आदित्यं
प्रेक्ष्य
जप्त्वा
तु
परं
हर्षमवाप्तवान्
।
त्रिराचम्य
शुचिर्भूत्वा
धनुरादाय
वीर्यवान्
॥
29
॥
रावणं
प्रेक्ष्य
हृष्टात्मा
युद्धाय
समुपागमत्
।
सर्वयत्नेन
महता
वधे
तस्य
धृतोऽभवत्
॥
30
॥
अथ
रविरवदन्निरीक्ष्य
रामं
मुदितमनाः
परमं
प्रहृष्यमाणः
।
निशिचरपतिसङ्क्षयं
विदित्वा
सुरगणमध्यगतो
वचस्त्वरेति
॥
31
॥
इत्यार्षे
श्रीमद्रामायणे
वाल्मिकीये
आदिकाव्ये
युद्धकाण्डे
पञ्चाधिक
शततमः
सर्गः
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits