हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
सुब्रह्मण्य हृदय स्तोत्रम्
अस्य
श्रीसुब्रह्मण्यहृदयस्तोत्रमहामन्त्रस्य,
अगस्त्यो
भगवान्
ऋषिः,
अनुष्टुप्छन्दः,
श्रीसुब्रह्मण्यो
देवता,
सौं
बीजं,
स्वाहा
शक्तिः,
श्रीं
कीलकं,
श्रीसुब्रह्मण्य
प्रसादसिद्ध्यर्थे
जपे
विनियोगः
॥
करन्यासः
–
सुब्रह्मण्याय
अङ्गुष्ठाभ्यां
नमः
।
षण्मुखाय
तर्जनीभ्यां
नमः
।
शक्तिधराय
मध्यमाभ्यां
नमः
।
षट्कोणसंस्थिताय
अनामिकाभ्यां
नमः
।
सर्वतोमुखाय
कनिष्ठिकाभ्यां
नमः
।
तारकान्तकाय
करतलकरपृष्ठाभ्यां
नमः
॥
हृदयादि
न्यासः
–
सुब्रह्मण्याय
हृदयाय
नमः
।
षण्मुखाय
शिरसे
स्वाहा
।
शक्तिधराय
शिखायै
वषट्
।
षट्कोणसंस्थिताय
कवचाय
हुम्
।
सर्वतोमुखाय
नेत्रत्रयाय
वौषट्
।
तारकान्तकाय
अस्त्राय
फट्
।
भूर्भुवस्सुवरोमिति
दिग्बन्धः
॥
ध्यानम्
।
षड्वक्त्रं
शिखिवाहनं
त्रिनयनं
चित्राम्बरालङ्कृतं
वज्रं
शक्तिमसिं
त्रिशूलमभयं
खेटं
धनुश्चक्रकम्
।
पाशं
कुक्कुटमङ्कुशं
च
वरदं
दोर्भिर्दधानं
सदा
ध्यायामीप्सित
सिद्धिदं
शिवसुतं
श्रीद्वादशाक्षं
गुहम्
॥
लमित्यादि
पञ्चपूजां
कुर्यात्
।
पीठिका
।
सत्यलोके
सदानन्दे
मुनिभिः
परिवेष्टितम्
।
पप्रच्छुर्मुनयः
सर्वे
ब्रह्माणं
जगतां
गुरुम्
॥
1
॥
भगवन्
सर्वलोकेश
सर्वज्ञ
कमलासन
।
सदानन्द
ज्ञानमूर्ते
सर्वभूतहिते
रत
॥
2
॥
बहुधा
प्रोक्तमेतस्य
गुहस्य
चरितं
महत्
।
हृदयं
श्रोतुमिच्छामः
तस्यैव
क्रौञ्चभेदिनः
॥
3
॥
ब्रह्मोवाच
।
शृण्वन्तु
मुनयः
सर्वे
गुह्याद्गुह्यतरं
महत्
।
सुब्रह्मण्यस्य
हृदयं
सर्वभूतहितोदयम्
॥
4
॥
सर्वार्थसिद्धिदं
पुण्यं
सर्वकार्यैक
साधनम्
।
धर्मार्थकामदं
गुह्यं
धनधान्यप्रवर्धनम्
॥
5
॥
रहस्यमेतद्देवानां
अदेयं
यस्य
कस्यचित्
।
सर्वमित्रकरं
गोप्यं
तेजोबलसमन्वितम्
॥
6
॥
प्रवक्ष्यामि
हितार्थं
वः
परितुष्टेन
चेतसा
।
हृत्पद्मकर्णिकामध्ये
ध्यायेत्सर्वमनोहरम्
॥
7
॥
अथ
हृदयम्
।
सुवर्णमण्डपं
दिव्यं
रत्नतोरणराजितम्
।
रत्नस्तम्भसहस्रैश्च
शोभितं
परमाद्भुतम्
॥
8
॥
परमानन्दनिलयं
भास्वत्सूर्यसमप्रभम्
।
देवदानवगन्धर्वगरुडैर्यक्षकिन्नरैः
। ॥
9
॥
सेवार्थमागतैः
सिद्धैः
साध्यैरध्युषितं
सदा
।
महायोगीन्द्रसंसेव्यं
मन्दारतरुमण्डितम्
॥
10
॥
मणिविद्रुमवेदीभिर्महतीभिरुदञ्चितम्
।
तन्मध्येऽनन्तरत्न
श्रीच्छटामण्डलशोभितम्
॥
11
॥
रत्नसिंहासनं
दिव्यं
रविकोटिसमप्रभम्
।
सर्वाश्चर्यमयं
पुण्यं
सर्वतः
सुपरिष्कृतम्
॥
12
॥
तन्मध्येऽष्टदलं
पद्मं
उद्यदर्कप्रभोदयम्
।
निगमागमरोलम्बलम्बितं
चिन्मयोदयम्
॥
13
॥
दिव्यं
तेजोमयं
दिव्यं
देवताभिर्नमस्कृतम्
।
देदीप्यमानं
रुचिभिर्विशालं
सुमनोहरम्
॥
14
॥
तन्मध्ये
सर्वलोकेशं
ध्यायेत्सर्वाङ्गसुन्दरम्
।
अनन्तादित्यसङ्काशं
आश्रिताभीष्टदायकम्
॥
15
॥
अचिन्त्यज्ञानविज्ञानतेजोबलसमन्वितम्
।
सर्वायुधधरं
दिव्यं
सर्वाश्चर्यमयं
गुहम्
॥
16
॥
महार्ह
रत्नखचित
षट्किरीटविराजितम्
।
शशाङ्कार्धकलारम्य
समुद्यन्मौलिभूषणम्
॥
17
॥
मदनोज्ज्वलकोदण्डमङ्गलभ्रूविराजितम्
।
विस्तीर्णारुणपद्मश्री
विलसद्द्वादशेक्षणम्
॥
18
॥
चारुश्रीवर्णसम्पूर्णमुखशोभाविभासुरम्
।
मणिप्रभासमग्रश्रीस्फुरन्मकरकुण्डलम्
॥
19
॥
लसद्दर्पणदर्पाढ्य
गण्डस्थलविराजितम्
।
दिव्यकाञ्चनपुष्पश्रीनासापुटविराजितम्
॥
20
॥
मन्दहासप्रभाजालमधुराधर
शोभितम्
।
सर्वलक्षणलक्ष्मीभृत्कम्बुकन्धर
सुन्दरम्
॥
21
॥
महानर्घमहारत्नदिव्यहारविराजितम्
।
समग्रनागकेयूरसन्नद्धभुजमण्डलम्
॥
22
॥
रत्नकङ्कणसम्भास्वत्कराग्र
श्रीमहोज्ज्वलम्
।
महामणिकवाटाभवक्षःस्थलविराजितम्
॥
23
॥
अतिगाम्भीर्यसम्भाव्यनाभीनवसरोरुहम्
।
रत्नश्रीकलिताबद्धलसन्मध्यप्रदेशकम्
॥
24
॥
स्फुरत्कनकसंवीतपीताम्बरसमावृतम्
।
शृङ्गाररससम्पूर्ण
रत्नस्तम्भोपमोरुकम्
॥
25
॥
स्वर्णकाहलरोचिष्णु
जङ्घायुगलमण्डलम्
।
रत्नमञ्जीरसन्नद्ध
रमणीय
पदाम्बुजम्
॥
26
॥
भक्ताभीष्टप्रदं
देवं
ब्रह्मविष्ण्वादिसंस्तुतम्
।
कटाक्षैः
करुणादक्षैस्तोषयन्तं
जगत्पतिम्
॥
27
॥
चिदानन्दज्ञानमूर्तिं
सर्वलोकप्रियङ्करम्
।
शङ्करस्यात्मजं
देवं
ध्यायेच्छरवणोद्भवम्
॥
28
॥
अनन्तादित्यचन्द्राग्नि
तेजः
सम्पूर्णविग्रहम्
।
सर्वलोकैकवरदं
सर्वविद्यार्थतत्त्वकम्
॥
29
॥
सर्वेश्वरं
सर्वविभुं
सर्वभूतहिते
रतम्
।
एवं
ध्यात्वा
तु
हृदयं
षण्मुखस्य
महात्मनः
॥
30
॥
सर्वान्कामानवाप्नोति
सम्यक्
ज्ञानं
च
विन्दति
।
शुचौ
देशे
समासीनः
शुद्धात्मा
चरिताह्निकः
॥
31
॥
प्राङ्मुखो
यतचित्तश्च
जपेद्धृदयमुत्तमम्
।
सकृदेव
मनुं
जप्त्वा
सम्प्राप्नोत्यखिलं
शुभम्
॥
32
॥
इदं
सर्वाघहरणं
मृत्युदारिद्र्यनाशनम्
।
सर्वसम्पत्करं
पुण्यं
सर्वरोगनिवारणम्
॥
33
॥
सर्वकामकरं
दिव्यं
सर्वाभीष्टप्रदायकम्
।
प्रजाकरं
राज्यकरं
भाग्यदं
बहुपुण्यदम्
॥
34
॥
गुह्याद्गुह्यतरं
भूयो
देवानामपि
दुर्लभम्
।
इदं
तु
नातपस्काय
नाभक्ताय
कदाचन
॥
35
॥
न
चाशुश्रूषवे
देयं
न
मदान्धाय
कर्हिचित्
।
सच्छिष्याय
कुलीनाय
स्कन्दभक्तिरताय
च
॥
36
॥
सतामभिमतायेदं
दातव्यं
धर्मवर्धनम्
।
य
इदं
परमं
पुण्यं
नित्यं
जपति
मानवः
।
तस्य
श्री
भगवान्
स्कन्दः
प्रसन्नो
भवति
ध्रुवम्
॥
37
॥
इति
श्रीस्कान्दपुराणे
सुब्रह्मण्यहृदयस्तोत्रम्
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits