हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
श्री राम हृदयम्
श्री
महादेव
उवाच
–
ततो
रामः
स्वयं
प्राह
हनुमन्तमुपस्थितम्
।
शऋणु
यत्वं
प्रवक्ष्यामि
ह्यात्मानात्मपरात्मनाम्
॥
1
॥
आकाशस्य
यथा
भेदस्त्रिविधो
दृश्यते
महान्
।
जलाशये
महाकाशस्तदवच्छिन्न
एव
हि
।
प्रतिबिम्बाख्यमपरं
दृश्यते
त्रिविधं
नभः
॥
2
॥
बुद्ध्यवच्छिन्नचैतन्यमेकं
पूर्णमथापरम्
।
आभासस्त्वपरं
बिम्बभूतमेवं
त्रिधा
चितिः
॥
3
॥
साभासबुद्धेः
कर्तृत्वमविच्छिन्नेऽविकारिणि
।
साक्षिण्यारोप्यते
भ्रान्त्या
जीवत्वं
च
तथाऽबुधैः
॥
4
॥
आभासस्तु
मृषाबुद्धिरविद्याकार्यमुच्यते
।
अविच्छिन्नं
तु
तद्ब्रह्म
विच्छेदस्तु
विकल्पितः
॥
5
॥
अविच्छिन्नस्य
पूर्णेन
एकत्वं
प्रतिपद्यते
।
तत्त्वमस्यादिवाक्यैश्च
साभासस्याहमस्तथा
॥
6
॥
ऐक्यज्ञानं
यदोत्पन्नं
महावाक्येन
चात्मनोः
।
तदाऽविद्या
स्वकार्यैश्च
नश्यत्येव
न
संशयः
॥
7
॥
एतद्विज्ञाय
मद्भक्तो
मद्भावायोपपद्यते
मद्भक्तिविमुखानां
हि
शास्त्रगर्तेषु
मुह्यताम्
।
न
ज्ञानं
न
च
मोक्षः
स्यात्तेषां
जन्मशतैरपि
॥
8
॥
इदं
रहस्यं
हृदयं
ममात्मनो
मयैव
साक्षात्कथितं
तवानघ
।
मद्भक्तिहीनाय
शठाय
न
त्वया
दातव्यमैन्द्रादपि
राज्यतोऽधिकम्
॥
9
॥ ॥
इति
श्री
राम
हृदयम्
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits