हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
श्री राम द्वादशनाम स्तोत्रम्
प्रथमं
श्रीधरं
विद्याद्द्वितीयं
रघुनायकम्
।
तृतीयं
रामचन्द्रं
च
चतुर्थं
रावणान्तकम्
॥
1
॥
पञ्चमं
लोकपूज्यं
च
षष्ठमं
जानकीपतिम्
।
सप्तमं
वासुदेवं
च
श्रीरामं
चाऽष्टमं
तथा
॥
2
॥
नवमं
जलदश्यामं
दशमं
लक्ष्मणाग्रजम्
।
एकादशं
च
गोविन्दं
द्वादशं
सेतुबन्धनम्
॥
3
॥
द्वादशैतानि
नामानि
यः
पठेच्छ्रद्धयान्वितः
।
अर्धरात्रे
तु
द्वादश्यां
कुष्ठदारिद्र्यनाशनम्
॥
4
॥
अरण्ये
चैव
सङ्ग्रामे
अग्नौ
भयनिवारणम्
।
ब्रह्महत्या
सुरापानं
गोहत्यादि
निवारणम्
॥
5
॥
सप्तवारं
पठेन्नित्यं
सर्वारिष्टनिवारणम्
।
ग्रहणे
च
जले
स्थित्वा
नदीतीरे
विशेषतः
।
अश्वमेधशतं
पुण्यं
ब्रह्मलोकं
गमिष्यति
॥
6
॥
इति
श्री
स्कान्दपुराणे
उत्तरखण्डे
श्री
उमामहेश्वरसंवादे
श्री
राम
द्वादशनामस्तोत्रम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits