हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
श्री ललिता त्रिशति स्तोत्रम्
अगस्त्य
उवाच
।
अश्वानन
महाबुद्धे
सर्वशास्त्रविशारद
।
कथितं
ललितादेव्याश्चरितं
परमाद्भुतम्
॥
1
॥
पूर्वं
प्रादुर्भवो
मातुस्ततः
पट्टाभिषेचनम्
।
भण्डासुरवधश्चैव
विस्तरेण
त्वयोदितः
॥
2
॥
वर्णितं
श्रीपुरं
चापि
महाविभवविस्तरम्
।
श्रीमत्पञ्चदशाक्षर्याः
महिमा
वर्णितस्तथा
॥
3
॥
षोढान्यासादयो
न्यासाः
न्यासखण्डे
समीरिताः
।
अन्तर्यागक्रमश्चैव
बहिर्यागक्रमस्तथा
॥
4
॥
महायागक्रमश्चैव
पूजाखण्डे
प्रकीर्तिताः
।
[समीरितः]
पुरश्चरणखण्डे
तु
जपलक्षणमीरितम्
॥
5
॥
होमखण्डे
त्वया
प्रोक्तो
होमद्रव्यविधिक्रमः
।
चक्रराजस्य
विद्यायाः
श्रीदेव्या
देशिकात्मनोः
॥
6
॥
रहस्यखण्डे
तादात्म्यं
परस्परमुदीरितम्
।
स्तोत्रखण्डे
बहुविधाः
स्तुतयः
परिकीर्तिताः
॥
7
॥
मन्त्रिणीदण्डिनीदेव्योः
प्रोक्ते
नामसहस्रके
।
न
तु
श्रीललितादेव्याः
प्रोक्तं
नामसहस्रकम्
॥
8
॥
तत्र
मे
संशयो
जातो
हयग्रीव
दयानिधे
।
किं
वा
त्वया
विस्मृतं
तज्ज्ञात्वा
वा
समुपेक्षितम्
॥
9
॥
मम
वा
योग्यता
नास्ति
श्रोतुं
नामसहस्रकम्
।
किमर्थं
भवता
नोक्तं
तत्र
मे
कारणं
वद
॥
10
॥
सूत
उवाच
।
इति
पृष्टो
हयग्रीवो
मुनिना
कुम्भजन्मना
।
प्रहृष्टो
वचनं
प्राह
तापसं
कुम्भसम्भवम्
॥
11
॥
श्रीहयग्रीव
उवाच
।
लोपामुद्रापतेऽगस्त्य
सावधानमनाः
शृणु
।
नाम्नां
सहस्रं
यन्नोक्तं
कारणं
तद्वदामि
ते
॥
12
॥
रहस्यमिति
मत्वाहं
नोक्तवांस्ते
न
चान्यथा
।
पुनश्च
पृच्छते
भक्त्या
तस्मात्तत्ते
वदाम्यहम्
॥
13
॥
ब्रूयाच्छिष्याय
भक्ताय
रहस्यमपि
देशिकः
।
भवता
न
प्रदेयं
स्यादभक्ताय
कदाचन
॥
14
॥
न
शठाय
न
दुष्टाय
नाविश्वासाय
कर्हिचित्
।
श्रीमातृभक्तियुक्ताय
श्रीविद्याराजवेदिने
॥
15
॥
उपासकाय
शुद्धाय
देयं
नामसहस्रकम्
।
यानि
नामसहस्राणि
सद्यः
सिद्धिप्रदानि
वै
॥
16
॥
तन्त्रेषु
ललितादेव्यास्तेषु
मुख्यमिदं
मुने
।
श्रीविद्यैव
तु
मन्त्राणां
तत्र
कादिर्यथा
परा
॥
17
॥
पुराणां
श्रीपुरमिव
शक्तीनां
ललिता
तथा
।
श्रीविद्योपासकानां
च
यथा
देवो
परः
शिवः
॥
18
॥
तथा
नामसहस्रेषु
परमेतत्प्रकीर्तितम्
।
यथास्य
पठनाद्देवी
प्रीयते
ललिताम्बिका
॥
19
॥
अन्यनामसहस्रस्य
पाठान्न
प्रीयते
तथा
।
श्रीमातुः
प्रीतये
तस्मादनिशं
कीर्तयेदिदम्
॥
20
॥
बिल्वपत्रैश्चक्रराजे
योऽर्चयेल्ललिताम्बिकाम्
।
पद्मैर्वा
तुलसीपुष्पैरेभिर्नामसहस्रकैः
॥
21
॥
[पत्रैः]
सद्यः
प्रसादं
कुरुते
तस्य
सिंहासनेश्वरी
।
चक्राधिराजमभ्यर्च्य
जप्त्वा
पञ्चदशाक्षरीम्
॥
22
॥
जपान्ते
कीर्तयेन्नित्यमिदं
नामसहस्रकम्
।
जपपूजाद्यशक्तश्चेत्पठेन्नामसहस्रकम्
॥
23
॥
साङ्गार्चने
साङ्गजपे
यत्फलं
तदवाप्नुयात्
।
उपासने
स्तुतीरन्याः
पठेदभ्युदयो
हि
सः
॥
24
॥
इदं
नामसहस्रं
तु
कीर्तयेन्नित्यकर्मवत्
।
चक्रराजार्चनं
देव्या
जपो
नाम्नां
च
कीर्तनम्
॥
25
॥
भक्तस्य
कृत्यमेतावदन्यदभ्युदयं
विदुः
।
भक्तस्यावश्यकमिदं
नामसाहस्रकीर्तनम्
॥
26
॥
तत्र
हेतुं
प्रवक्ष्यामि
शृणु
त्वं
कुम्भसम्भव
।
पुरा
श्रीललितादेवी
भक्तानां
हितकाम्यया
॥
27
॥
वाग्देवीर्वशिनीमुख्याः
समाहूयेदमब्रवीत्
।
वाग्देवता
वशिन्याद्याः
शृणुध्वं
वचनं
मम
॥
28
॥
भवत्यो
मत्प्रसादेन
प्रोल्लसद्वाग्विभूतयः
।
मद्भक्तानां
वाग्विभूतिप्रदाने
विनियोजिताः
॥
29
॥
मच्चक्रस्य
रहस्यज्ञा
मम
नामपरायणाः
।
मम
स्तोत्रविधानाय
तस्मादाज्ञापयामि
वः
॥
30
॥
कुरुध्वमङ्कितं
स्तोत्रं
मम
नामसहस्रकैः
।
येन
भक्तैः
स्तुताया
मे
सद्यः
प्रीतिः
परा
भवेत्
॥
31
॥
इत्याज्ञप्तास्ततो
देव्यः
श्रीदेव्या
ललिताम्बया
।
रहस्यैर्नामभिर्दिव्यैश्चक्रुः
स्तोत्रमनुत्तमम्
॥
32
॥
रहस्यनामसाहस्रमिति
तद्विश्रुतं
परम्
।
ततः
कदाचित्सदसि
स्थित्वा
सिंहासनेऽम्बिका
॥
33
॥
स्वसेवावसरं
प्रादात्सर्वेषां
कुम्भसम्भव
।
सेवार्थमागतास्तत्र
ब्रह्माणीब्रह्मकोटयः
॥
34
॥
लक्ष्मीनारायणानां
च
कोटयः
समुपागताः
।
गौरीकोटिसमेतानां
रुद्राणामपि
कोटयः
॥
35
॥
मन्त्रिणीदण्डिनीमुख्याः
सेवार्थं
यः
समागताः
।
शक्तयो
विविधाकारास्तासां
सङ्ख्या
न
विद्यते
॥
36
॥
दिव्यौघा
मानवौघाश्च
सिद्धौघाश्च
समागताः
।
तत्र
श्रीललितादेवी
सर्वेषां
दर्शनं
ददौ
॥
37
॥
तेषु
दृष्ट्वोपविष्टेषु
स्वे
स्वे
स्थाने
यथाक्रमम्
।
तत्र
श्रीललितादेवीकटाक्षाक्षेपचोदिताः
॥
38
॥
उत्थाय
वशिनीमुख्या
बद्धाञ्जलिपुटास्तदा
।
अस्तुवन्नामसाहस्रैः
स्वकृतैर्ललिताम्बिकाम्
॥
39
॥
श्रुत्वा
स्तवं
प्रसन्नाभूल्ललिता
परमेश्वरी
।
ते
सर्वे
विस्मयं
जग्मुर्ये
तत्र
सदसि
स्थिताः
॥
40
॥
ततः
प्रोवाच
ललिता
सदस्यान्
देवतागणान्
।
देव्युवाच
।
ममाज्ञयैव
वाग्देव्यश्चक्रुः
स्तोत्रमनुत्तमम्
॥
41
॥
अङ्कितं
नामभिर्दिव्यैर्मम
प्रीतिविधायकैः
।
तत्पठध्वं
सदा
यूयं
स्तोत्रं
मत्प्रीतिवृद्धये
॥
42
॥
प्रवर्तयध्वं
भक्तेषु
मम
नामसाहस्रकम्
।
इदं
नामसहस्रं
मे
यो
भक्तः
पठते
सकृत्
॥
43
॥
स
मे
प्रियतमो
ज्ञेयस्तस्मै
कामान्
ददाम्यहम्
।
श्रीचक्रे
मां
समभ्यर्च्य
जप्त्वा
पञ्चदशाक्षरीम्
॥
44
॥
पश्चान्नामसहस्रं
मे
कीर्तयेन्मम
तुष्टये
।
मामर्चयतु
वा
मा
वा
विद्यां
जपतु
वा
न
वा
॥
45
॥
कीर्तयेन्नामसाहस्रमिदं
मत्प्रीतये
सदा
।
मत्प्रीत्या
सकलान्कामांल्लभते
नात्र
संशयः
॥
46
॥
तस्मान्नामसहस्रं
मे
कीर्तयध्वं
सदादरात्
।
श्रीहयग्रीव
उवाच
।
इति
श्रीललितेशानी
शास्ति
देवान्
सहानुगान्
॥
47
॥
तदाज्ञया
तदारभ्य
ब्रह्मविष्णुमहेश्वराः
।
शक्तयो
मन्त्रिणीमुख्या
इदं
नामसहस्रकम्
॥
48
॥
पठन्ति
भक्त्या
सततं
ललितापरितुष्टये
।
तस्मादवश्यं
भक्तेन
कीर्तनीयमिदं
मुने
॥
49
॥
आवश्यकत्वे
हेतुस्ते
मया
प्रोक्तो
मुनीश्वर
।
इदानीं
नामसाहस्रं
वक्ष्यामि
श्रद्धया
शृणु
॥
50
॥
इति
श्रीब्रह्माण्डपुराणे
हयग्रीवागस्त्यसंवादे
ललितासहस्रनामपूर्वभागो
नाम
प्रथमोऽध्यायः
॥
अस्य
श्रीललिता
त्रिशतीस्तोत्र
महामंत्रस्य,
भगवान्
हयग्रीव
ऋषिः,
अनुष्टुप्
छंदः,
श्रीललितामहात्रिपुरसुंदरी
देवता,
ऐं
बीजं,
सौः
शक्तिः,
क्लीं
कीलकं,
मम
चतुर्विधपुरुषार्थफलसिद्ध्यर्थे
जपे
विनियोगः
।
ऐमित्यादिभिरंगन्यासकरन्यासाः
कार्याः
।
ध्यानम्
।
अतिमधुरचापहस्ता-
-मपरिमितामोदबाणसौभाग्याम्
।
अरुणामतिशयकरुणा-
-मभिनवकुलसुंदरीं
वंदे
।
श्री
हयग्रीव
उवाच
।
ककाररूपा
कल्याणी
कल्याणगुणशालिनी
।
कल्याणशैलनिलया
कमनीया
कलावती
॥
1
॥
कमलाक्षी
कल्मषघ्नी
करुणामृतसागरा
।
कदंबकाननावासा
कदंबकुसुमप्रिया
॥
2
॥
कंदर्पविद्या
कंदर्पजनकापांगवीक्षणा
।
कर्पूरवीटिसौरभ्यकल्लोलितककुप्तटा
॥
3
॥
कलिदोषहरा
कंजलोचना
कम्रविग्रहा
।
कर्मादिसाक्षिणी
कारयित्री
कर्मफलप्रदा
॥
4
॥
एकाररूपा
चैकाक्षर्येकानेकाक्षराकृतिः
।
एतत्तदित्यनिर्देश्या
चैकानंदचिदाकृतिः
॥
5
॥
एवमित्यागमाबोध्या
चैकभक्तिमदर्चिता
।
एकाग्रचित्तनिर्ध्याता
चैषणारहितादृता
॥
6
॥
एलासुगंधिचिकुरा
चैनःकूटविनाशिनी
।
एकभोगा
चैकरसा
चैकैश्वर्यप्रदायिनी
॥
7
॥
एकातपत्रसाम्राज्यप्रदा
चैकांतपूजिता
।
एधमानप्रभा
चैजदनेकजगदीश्वरी
॥
8
॥
एकवीरादिसंसेव्या
चैकप्राभवशालिनी
।
ईकाररूपा
चेशित्री
चेप्सितार्थप्रदायिनी
॥
9
॥
ईदृगित्यविनिर्देश्या
चेश्वरत्वविधायिनी
।
ईशानादिब्रह्ममयी
चेशित्वाद्यष्टसिद्धिदा
॥
10
॥
ईक्षित्रीक्षणसृष्टांडकोटिरीश्वरवल्लभा
।
ईडिता
चेश्वरार्धांगशरीरेशाधिदेवता
॥
11
॥
ईश्वरप्रेरणकरी
चेशतांडवसाक्षिणी
।
ईश्वरोत्संगनिलया
चेतिबाधाविनाशिनी
॥
12
॥
ईहाविरहिता
चेशशक्तिरीषत्स्मितानना
।
लकाररूपा
ललिता
लक्ष्मीवाणीनिषेविता
॥
13
॥
लाकिनी
ललनारूपा
लसद्दाडिमपाटला
।
ललंतिकालसत्फाला
ललाटनयनार्चिता
॥
14
॥
लक्षणोज्ज्वलदिव्यांगी
लक्षकोट्यंडनायिका
।
लक्ष्यार्था
लक्षणागम्या
लब्धकामा
लतातनुः
॥
15
॥
ललामराजदलिका
लंबिमुक्तालतांचिता
।
लंबोदरप्रसूर्लभ्या
लज्जाढ्या
लयवर्जिता
॥
16
॥
ह्रींकाररूपा
ह्रींकारनिलया
ह्रींपदप्रिया
।
ह्रींकारबीजा
ह्रींकारमंत्रा
ह्रींकारलक्षणा
॥
17
॥
ह्रींकारजपसुप्रीता
ह्रींमती
ह्रींविभूषणा
।
ह्रींशीला
ह्रींपदाराध्या
ह्रींगर्भा
ह्रींपदाभिधा
॥
18
॥
ह्रींकारवाच्या
ह्रींकारपूज्या
ह्रींकारपीठिका
।
ह्रींकारवेद्या
ह्रींकारचिंत्या
ह्रीं
ह्रींशरीरिणी
॥
19
॥
हकाररूपा
हलधृक्पूजिता
हरिणेक्षणा
।
हरप्रिया
हराराध्या
हरिब्रह्मेंद्रवंदिता
॥
20
॥
हयारूढासेवितांघ्रिर्हयमेधसमर्चिता
।
हर्यक्षवाहना
हंसवाहना
हतदानवा
॥
21
॥
हत्यादिपापशमनी
हरिदश्वादिसेविता
।
हस्तिकुंभोत्तुंगकुचा
हस्तिकृत्तिप्रियांगना
॥
22
॥
हरिद्राकुंकुमादिग्धा
हर्यश्वाद्यमरार्चिता
।
हरिकेशसखी
हादिविद्या
हालामदालसा
॥
23
॥
सकाररूपा
सर्वज्ञा
सर्वेशी
सर्वमंगला
।
सर्वकर्त्री
सर्वभर्त्री
सर्वहंत्री
सनातना
॥
24
॥
सर्वानवद्या
सर्वांगसुंदरी
सर्वसाक्षिणी
।
सर्वात्मिका
सर्वसौख्यदात्री
सर्वविमोहिनी
॥
25
॥
सर्वाधारा
सर्वगता
सर्वावगुणवर्जिता
।
सर्वारुणा
सर्वमाता
सर्वभूषणभूषिता
॥
26
॥
ककारार्था
कालहंत्री
कामेशी
कामितार्थदा
।
कामसंजीवनी
कल्या
कठिनस्तनमंडला
॥
27
॥
करभोरूः
कलानाथमुखी
कचजितांबुदा
।
कटाक्षस्यंदिकरुणा
कपालिप्राणनायिका
॥
28
॥
कारुण्यविग्रहा
कांता
कांतिधूतजपावलिः
।
कलालापा
कंबुकंठी
करनिर्जितपल्लवा
॥
29
॥
कल्पवल्लीसमभुजा
कस्तूरीतिलकांचिता
।
हकारार्था
हंसगतिर्हाटकाभरणोज्ज्वला
॥
30
॥
हारहारिकुचाभोगा
हाकिनी
हल्यवर्जिता
।
हरित्पतिसमाराध्या
हठात्कारहतासुरा
॥
31
॥
हर्षप्रदा
हविर्भोक्त्री
हार्दसंतमसापहा
।
हल्लीसलास्यसंतुष्टा
हंसमंत्रार्थरूपिणी
॥
32
॥
हानोपादाननिर्मुक्ता
हर्षिणी
हरिसोदरी
।
हाहाहूहूमुखस्तुत्या
हानिवृद्धिविवर्जिता
॥
33
॥
हय्यंगवीनहृदया
हरिगोपारुणांशुका
।
लकाराख्या
लतापूज्या
लयस्थित्युद्भवेश्वरी
॥
34
॥
लास्यदर्शनसंतुष्टा
लाभालाभविवर्जिता
।
लंघ्येतराज्ञा
लावण्यशालिनी
लघुसिद्धिदा
॥
35
॥
लाक्षारससवर्णाभा
लक्ष्मणाग्रजपूजिता
।
लभ्येतरा
लब्धभक्तिसुलभा
लांगलायुधा
॥
36
॥
लग्नचामरहस्तश्रीशारदापरिवीजिता
।
लज्जापदसमाराध्या
लंपटा
लकुलेश्वरी
॥
37
॥
लब्धमाना
लब्धरसा
लब्धसंपत्समुन्नतिः
।
ह्रींकारिणी
ह्रींकाराद्या
ह्रींमध्या
ह्रींशिखामणिः
॥
38
॥
ह्रींकारकुंडाग्निशिखा
ह्रींकारशशिचंद्रिका
।
ह्रींकारभास्कररुचिर्ह्रींकारांभोदचंचला
॥
39
॥
ह्रींकारकंदांकुरिका
ह्रींकारैकपरायणा
।
ह्रींकारदीर्घिकाहंसी
ह्रींकारोद्यानकेकिनी
॥
40
॥
ह्रींकारारण्यहरिणी
ह्रींकारावालवल्लरी
।
ह्रींकारपंजरशुकी
ह्रींकारांगणदीपिका
॥
41
॥
ह्रींकारकंदरासिंही
ह्रींकारांभोजभृंगिका
।
ह्रींकारसुमनोमाध्वी
ह्रींकारतरुमंजरी
॥
42
॥
सकाराख्या
समरसा
सकलागमसंस्तुता
।
सर्ववेदांततात्पर्यभूमिः
सदसदाश्रया
॥
43
॥
सकला
सच्चिदानंदा
साध्या
सद्गतिदायिनी
।
सनकादिमुनिध्येया
सदाशिवकुटुंबिनी
॥
44
॥
सकालाधिष्ठानरूपा
सत्यरूपा
समाकृतिः
।
सर्वप्रपंचनिर्मात्री
समनाधिकवर्जिता
॥
45
॥
सर्वोत्तुंगा
संगहीना
सगुणा
सकलेष्टदा
।
ककारिणी
काव्यलोला
कामेश्वरमनोहरा
॥
46
॥
कामेश्वरप्राणनाडी
कामेशोत्संगवासिनी
।
कामेश्वरालिंगितांगी
कामेश्वरसुखप्रदा
॥
47
॥
कामेश्वरप्रणयिनी
कामेश्वरविलासिनी
।
कामेश्वरतपःसिद्धिः
कामेश्वरमनःप्रिया
॥
48
॥
कामेश्वरप्राणनाथा
कामेश्वरविमोहिनी
।
कामेश्वरब्रह्मविद्या
कामेश्वरगृहेश्वरी
॥
49
॥
कामेश्वराह्लादकरी
कामेश्वरमहेश्वरी
।
कामेश्वरी
कामकोटिनिलया
कांक्षितार्थदा
॥
50
॥
लकारिणी
लब्धरूपा
लब्धधीर्लब्धवांछिता
।
लब्धपापमनोदूरा
लब्धाहंकारदुर्गमा
॥
51
॥
लब्धशक्तिर्लब्धदेहा
लब्धैश्वर्यसमुन्नतिः
।
लब्धवृद्धिर्लब्धलीला
लब्धयौवनशालिनी
॥
52
॥
लब्धातिशयसर्वांगसौंदर्या
लब्धविभ्रमा
।
लब्धरागा
लब्धपतिर्लब्धनानागमस्थितिः
॥
53
॥
लब्धभोगा
लब्धसुखा
लब्धहर्षाभिपूरिता
।
ह्रींकारमूर्तिर्ह्रींकारसौधशृंगकपोतिका
॥
54
॥
ह्रींकारदुग्धाब्धिसुधा
ह्रींकारकमलेंदिरा
।
ह्रींकारमणिदीपार्चिर्ह्रींकारतरुशारिका
॥
55
॥
ह्रींकारपेटकमणिर्ह्रींकारादर्शबिंबिता
।
ह्रींकारकोशासिलता
ह्रींकारास्थाननर्तकी
॥
56
॥
ह्रींकारशुक्तिकामुक्तामणिर्ह्रींकारबोधिता
।
ह्रींकारमयसौवर्णस्तंभविद्रुमपुत्रिका
॥
57
॥
ह्रींकारवेदोपनिषद्
ह्रींकाराध्वरदक्षिणा
।
ह्रींकारनंदनारामनवकल्पकवल्लरी
॥
58
॥
ह्रींकारहिमवद्गंगा
ह्रींकारार्णवकौस्तुभा
।
ह्रींकारमंत्रसर्वस्वा
ह्रींकारपरसौख्यदा
॥
59
॥
उत्तरपीठिका
(फलशृतिः)
हयग्रीव
उवाच
।
इत्येवं
ते
मयाख्यातं
देव्या
नामशतत्रयम्
।
रहस्यातिरहस्यत्वाद्गोपनीयं
त्वया
मुने
॥
1
॥
शिववर्णानि
नामानि
श्रीदेव्या
कथितानि
हि
।
शक्त्यक्षराणि
नामानि
कामेशकथितानि
च
॥
2
॥
उभयाक्षरनामानि
ह्युभाभ्यां
कथितानि
वै
।
तदन्यैर्ग्रथितं
स्तोत्रमेतस्य
सदृशं
किमु
॥
3
॥
नानेन
सदृशं
स्तोत्रं
श्रीदेवीप्रीतिदायकम्
।
लोकत्रयेऽपि
कल्याणं
संभवेन्नात्र
संशयः
॥
4
॥
सूत
उवाच
।
इति
हयमुखगीतं
स्तोत्रराजं
निशम्य
प्रगलितकलुषोऽभूच्चित्तपर्याप्तिमेत्य
।
निजगुरुमथ
नत्वा
कुंभजन्मा
तदुक्तं
पुनरधिकरहस्यं
ज्ञातुमेवं
जगाद
॥
5
॥
अगस्त्य
उवाच
।
अश्वानन
महाभाग
रहस्यमपि
मे
वद
।
शिववर्णानि
कान्यत्र
शक्तिवर्णानि
कानि
हि
॥
6
॥
उभयोरपि
वर्णानि
कानि
वा
वद
देशिक
।
इति
पृष्टः
कुंभजेन
हयग्रीवोऽवदत्पुनः
॥
7
॥
हयग्रीव
उवाच
।
तव
गोप्यं
किमस्तीह
साक्षादंबानुशासनात्
।
इदं
त्वतिरहस्यं
ते
वक्ष्यामि
शृणु
कुंभज
॥
8
॥
एतद्विज्ञानमात्रेण
श्रीविद्या
सिद्धिदा
भवेत्
।
कत्रयं
हद्वयं
चैव
शैवो
भागः
प्रकीर्तितः
॥
9
॥
शक्त्यक्षराणि
शेषाणि
ह्रींकार
उभयात्मकः
।
एवं
विभागमज्ञात्वा
ये
विद्याजपशालिनः
॥
10
॥
न
तेषां
सिद्धिदा
विद्या
कल्पकोटिशतैरपि
।
चतुर्भिः
शिवचक्रैश्च
शक्तिचक्रैश्च
पंचभिः
॥
11
॥
नवचक्रैश्च
संसिद्धं
श्रीचक्रं
शिवयोर्वपुः
।
त्रिकोणमष्टकोणं
च
दशकोणद्वयं
तथा
॥
12
॥
चतुर्दशारं
चैतानि
शक्तिचक्राणि
पंच
च
।
बिंदुश्चाष्टदलं
पद्मं
पद्मं
षोडशपत्रकम्
॥
13
॥
चतुरश्रं
च
चत्वारि
शिवचक्राण्यनुक्रमात्
।
त्रिकोणे
बैंदवं
श्लिष्टं
अष्टारेऽष्टदलांबुजम्
॥
14
॥
दशारयोः
षोडशारं
भूगृहं
भुवनाश्रके
।
शैवानामपि
शाक्तानां
चक्राणां
च
परस्परम्
॥
15
॥
अविनाभावसंबंधं
यो
जानाति
स
चक्रवित्
।
त्रिकोणरूपिणी
शक्तिर्बिंदुरूपपरः
शिवः
॥
16
॥
अविनाभावसंबंधं
तस्माद्बिंदुत्रिकोणयोः
।
एवं
विभागमज्ञात्वा
श्रीचक्रं
यः
समर्चयेत्
॥
17
॥
न
तत्फलमवाप्नोति
ललितांबा
न
तुष्यति
।
ये
च
जानंति
लोकेऽस्मिन्
श्रीविद्याचक्रवेदिनः
॥
18
॥
सामन्यवेदिनः
सर्वे
विशेषज्ञोऽतिदुर्लभः
।
स्वयंविद्याविशेषज्ञो
विशेषज्ञं
समर्चयेत्
॥
19
॥
तस्मै
देयं
ततो
ग्राह्यमशक्तस्तस्य
दापयेत्
।
अंधं
तमः
प्रविशंति
येऽविद्यां
समुपासते
॥
20
॥
इति
श्रुतिरपाहैतानविद्योपासकान्पुनः
।
विद्यान्योपासकानेव
निंदत्यारुणिकी
श्रुतिः
॥
21
॥
अश्रुता
सश्रुतासश्च
यज्वानो
येऽप्ययज्वनः
।
स्वर्यंतो
नापेक्षंते
इंद्रमग्निं
च
ये
विदुः
॥
22
॥
सिकता
इव
संयंति
रश्मिभिः
समुदीरिताः
।
अस्माल्लोकादमुष्माच्चेत्याह
चारण्यकश्रुतिः
॥
23
॥
यस्य
नो
पश्चिमं
जन्म
यदि
वा
शंकरः
स्वयम्
।
तेनैव
लभ्यते
विद्या
श्रीमत्पंचदशाक्षरी
॥
24
॥
इति
मंत्रेषु
बहुधा
विद्याया
महिमोच्यते
।
मोक्षैकहेतुविद्या
तु
श्रीविद्या
नात्र
संशयः
॥
25
॥
न
शिल्पादिज्ञानयुक्ते
विद्वच्छब्धः
प्रयुज्यते
।
मोक्षैकहेतुविद्या
सा
श्रीविद्यैव
न
संशयः
॥
26
॥
तस्माद्विद्याविदेवात्र
विद्वान्विद्वानितीर्यते
।
स्वयं
विद्याविदे
दद्यात्ख्यापयेत्तद्गुणान्सुधीः
॥
27
॥
स्वयंविद्यारहस्यज्ञो
विद्यामाहात्म्यवेद्यपि
।
विद्याविदं
नार्चयेच्चेत्को
वा
तं
पूजयेज्जनः
॥
28
॥
प्रसंगादिदमुक्तं
ते
प्रकृतं
शृणु
कुंभज
।
यः
कीर्तयेत्सकृद्भक्त्या
दिव्यनामशतत्रयम्
॥
29
॥
तस्य
पुण्यमहं
वक्ष्ये
शृणु
त्वं
कुंभसंभव
।
रहस्यनामसाहस्रपाठे
यत्फलमीरितम्
॥
30
॥
तत्फलं
कोटिगुणितमेकनामजपाद्भवेत्
।
कामेश्वरीकामेशाभ्यां
कृतं
नामशतत्रयम्
॥
31
॥
नान्येन
तुलयेदेतत्
स्तोत्रेणान्यकृतेन
च
।
श्रियः
परंपरा
यस्य
भावि
वा
चोत्तरोत्तरम्
॥
32
॥
तेनैव
लभ्यते
चैतत्पश्चाच्छ्रेयः
परीक्षयेत्
।
अस्या
नाम्नां
त्रिशत्यास्तु
महिमा
केन
वर्ण्यते
॥
33
॥
या
स्वयं
शिवयोर्वक्त्रपद्माभ्यां
परिनिःसृता
।
नित्यं
षोडशसंख्याकान्विप्रानादौ
तु
भोजयेत्
॥
34
॥
अभ्यक्तांस्तिलतैलेन
स्नातानुष्णेन
वारिणा
।
अभ्यर्च्य
गंधपुष्पाद्यैः
कामेश्वर्यादिनामभिः
॥
35
॥
सूपापूपैः
शर्कराद्यैः
पायसैः
फलसंयुतैः
।
विद्याविदो
विशेषेण
भोजयेत्षोडश
द्विजान्
॥
36
॥
एवं
नित्यार्चनं
कुर्यादादौ
ब्राह्मणभोजनम्
।
त्रिशतीनामभिः
पश्चाद्ब्राह्मणान्क्रमशोऽर्चयेत्
॥
37
॥
तैलाभ्यंगादिकं
दत्वा
विभवे
सति
भक्तितः
।
शुक्लप्रतिपदारभ्य
पौर्णमास्यवधि
क्रमात्
॥
38
॥
दिवसे
दिवसे
विप्रा
भोज्या
विंशतिसंख्यया
।
दशभिः
पंचभिर्वापि
त्रिभिरेकेन
वा
दिनैः
॥
39
॥
त्रिंशत्षष्टिः
शतं
विप्राः
संभोज्यास्त्रिशतं
क्रमात्
।
एवं
यः
कुरुते
भक्त्या
जन्ममध्ये
सकृन्नरः
॥
40
॥
तस्यैव
सफलं
जन्म
मुक्तिस्तस्य
करे
स्थिरा
।
रहस्यनामसाहस्रभोजनेऽप्येवमेव
हि
॥
41
॥
आदौ
नित्यबलिं
कुर्यात्पश्चाद्ब्राह्मणभोजनम्
।
रहस्यनामसाहस्रमहिमा
यो
मयोदितः
॥
42
॥
स
शीकराणुरत्नैकनाम्नो
महिमवारिधेः
।
वाग्देवीरचिते
नामसाहस्रे
यद्यदीरितम्
॥
43
॥
तत्फलं
कोटिगुणितं
नाम्नोऽप्येकस्य
कीर्तनात्
।
एतदन्यैर्जपैः
स्तोत्रैरर्चनैर्यत्फलं
भवेत्
॥
44
॥
तत्फलं
कोटिगुणितं
भवेन्नामशतत्रयात्
।
वाग्देवीरचिते
स्तोत्रे
तादृशो
महिमा
यदि
॥
45
॥
साक्षात्कामेशकामेशीकृतेऽस्मिन्गृह्यतामिति
।
सकृत्संकीर्तनादेव
नाम्नामस्मिन्
शतत्रये
॥
46
॥
भवेच्चित्तस्य
पर्याप्तिर्न्यूनमन्यानपेक्षिणी
।
न
ज्ञातव्यमितोऽप्यन्यत्र
जप्तव्यं
च
कुंभज
॥
47
॥
यद्यत्साध्यतमं
कार्यं
तत्तदर्थमिदं
जपेत्
।
तत्तत्फलमवाप्नोति
पश्चात्कार्यं
परीक्षयेत्
॥
48
॥
ये
ये
प्रयोगास्तंत्रेषु
तैस्तैर्यत्साध्यते
फलम्
।
तत्सर्वं
सिध्यति
क्षिप्रं
नामत्रिशतकीर्तनात्
॥
49
॥
आयुष्करं
पुष्टिकरं
पुत्रदं
वश्यकारकम्
।
विद्याप्रदं
कीर्तिकरं
सुकवित्वप्रदायकम्
॥
50
॥
सर्वसंपत्प्रदं
सर्वभोगदं
सर्वसौख्यदम्
।
सर्वाभीष्टप्रदं
चैव
देव्या
नामशतत्रयम्
॥
51
॥
एतज्जपपरो
भूयान्नान्यदिच्छेत्कदाचन
।
एतत्कीर्तनसंतुष्टा
श्रीदेवी
ललितांबिका
॥
52
॥
भक्तस्य
यद्यदिष्टं
स्यात्तत्तत्पूरयते
ध्रुवम्
।
तस्मात्कुंभोद्भव
मुने
कीर्तय
त्वमिदं
सदा
॥
53
॥
नापरं
किंचिदपि
ते
बोद्धव्यमवशिष्यते
।
इति
ते
कथितं
स्तोत्रं
ललिताप्रीतिदायकम्
॥
54
॥
नाविद्यावेदिने
ब्रूयान्नाभक्ताय
कदाचन
।
न
शठाय
न
दुष्टाय
नाविश्वासाय
कर्हिचित्
॥
56
॥
यो
ब्रूयात्त्रिशतीं
नाम्नां
तस्यानर्थो
महान्भवेत्
।
इत्याज्ञा
शांकरी
प्रोक्ता
तस्माद्गोप्यमिदं
त्वया
॥
57
॥
ललिताप्रेरितेनैव
मयोक्तं
स्तोत्रमुत्तमम्
।
रहस्यनामसाहस्रादपि
गोप्यमिदं
मुने
॥
58
॥
सूत
उवाच
।
एवमुक्त्वा
हयग्रीवः
कुंभजं
तापसोत्तमम्
।
स्तोत्रेणानेन
ललितां
स्तुत्वा
त्रिपुरसुंदरीम्
।
आनंदलहरीमग्नमानसः
समवर्तत
॥
59
॥
इति
ब्रह्मांडपुराणे
उत्तरखंडे
हयग्रीवागस्त्यसंवादे
ललितोपाख्याने
स्तोत्रखंडे
श्रीललितात्रिशतीस्तोत्ररत्नम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits