हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
श्री ललिता त्रिशति नामावलिः
॥
ओं
ऐं
ह्रीं
श्रीम्
॥
ओं
ककाररूपायै
नमः
।
ओं
कल्याण्यै
नमः
।
ओं
कल्याणगुणशालिन्यै
नमः
।
ओं
कल्याणशैलनिलयायै
नमः
।
ओं
कमनीयायै
नमः
।
ओं
कलावत्यै
नमः
।
ओं
कमलाक्ष्यै
नमः
।
ओं
कल्मषघ्न्यै
नमः
।
ओं
करुणामृतसागरायै
नमः
।
ओं
कदम्बकाननावासायै
नमः
।
10
ओं
कदम्बकुसुमप्रियायै
नमः
।
ओं
कन्दर्पविद्यायै
नमः
।
ओं
कन्दर्पजनकापाङ्गवीक्षणायै
नमः
।
ओं
कर्पूरवीटिसौरभ्यकल्लोलितककुप्तटायै
नमः
।
ओं
कलिदोषहरायै
नमः
।
ओं
कञ्जलोचनायै
नमः
।
ओं
कम्रविग्रहायै
नमः
।
ओं
कर्मादिसाक्षिण्यै
नमः
।
ओं
कारयित्र्यै
नमः
।
ओं
कर्मफलप्रदायै
नमः
।
20
ओं
एकाररूपायै
नमः
।
ओं
एकाक्षर्यै
नमः
।
ओं
एकानेकाक्षराकृतये
नमः
।
ओं
एतत्तदित्यनिर्देश्यायै
नमः
।
ओं
एकानन्दचिदाकृतये
नमः
।
ओं
एवमित्यागमाबोध्यायै
नमः
।
ओं
एकभक्तिमदर्चितायै
नमः
।
ओं
एकाग्रचित्तनिर्ध्यातायै
नमः
।
ओं
एषणारहितादृतायै
नमः
।
ओं
एलासुगन्धिचिकुरायै
नमः
।
30
ओं
एनःकूटविनाशिन्यै
नमः
।
ओं
एकभोगायै
नमः
।
ओं
एकरसायै
नमः
।
ओं
एकैश्वर्यप्रदायिन्यै
नमः
।
ओं
एकातपत्रसाम्राज्यप्रदायै
नमः
।
ओं
एकान्तपूजितायै
नमः
।
ओं
एधमानप्रभायै
नमः
।
ओं
एजदनेकजगदीश्वर्यै
नमः
।
ओं
एकवीरादिसंसेव्यायै
नमः
।
ओं
एकप्राभवशालिन्यै
नमः
।
40
ओं
ईकाररूपायै
नमः
।
ओं
ईशित्र्यै
नमः
।
ओं
ईप्सितार्थप्रदायिन्यै
नमः
।
ओं
ईदृगित्यविनिर्देश्यायै
नमः
।
ओं
ईश्वरत्वविधायिन्यै
नमः
।
ओं
ईशानादिब्रह्ममय्यै
नमः
।
ओं
ईशित्वाद्यष्टसिद्धिदायै
नमः
।
ओं
ईक्षित्र्यै
नमः
।
ओं
ईक्षणसृष्टाण्डकोटये
नमः
।
ओं
ईश्वरवल्लभायै
नमः
।
ओं
ईडितायै
नमः
।
50
ओं
ईश्वरार्धाङ्गशरीरायै
नमः
।
ओं
ईशाधिदेवतायै
नमः
।
ओं
ईश्वरप्रेरणकर्यै
नमः
।
ओं
ईशताण्डवसाक्षिण्यै
नमः
।
ओं
ईश्वरोत्सङ्गनिलयायै
नमः
।
ओं
ईतिबाधाविनाशिन्यै
नमः
।
ओं
ईहाविरहितायै
नमः
।
ओं
ईशशक्तये
नमः
।
ओं
ईषत्स्मिताननायै
नमः
।
60
ओं
लकाररूपायै
नमः
।
ओं
ललितायै
नमः
।
ओं
लक्ष्मीवाणीनिषेवितायै
नमः
।
ओं
लाकिन्यै
नमः
।
ओं
ललनारूपायै
नमः
।
ओं
लसद्दाडिमपाटलायै
नमः
।
ओं
ललन्तिकालसत्फालायै
नमः
।
ओं
ललाटनयनार्चितायै
नमः
।
ओं
लक्षणोज्ज्वलदिव्याङ्ग्यै
नमः
।
ओं
लक्षकोट्यण्डनायिकायै
नमः
।
70
ओं
लक्ष्यार्थायै
नमः
।
ओं
लक्षणागम्यायै
नमः
।
ओं
लब्धकामायै
नमः
।
ओं
लतातनवे
नमः
।
ओं
ललामराजदलिकायै
नमः
।
ओं
लम्बिमुक्तालताञ्चितायै
नमः
।
ओं
लम्बोदरप्रसुवे
नमः
।
ओं
लभ्यायै
नमः
।
ओं
लज्जाढ्यायै
नमः
।
ओं
लयवर्जितायै
नमः
।
80
ओं
ह्रींकाररूपायै
नमः
।
ओं
ह्रींकारनिलयायै
नमः
।
ओं
ह्रींपदप्रियायै
नमः
।
ओं
ह्रींकारबीजायै
नमः
।
ओं
ह्रींकारमन्त्रायै
नमः
।
ओं
ह्रींकारलक्षणायै
नमः
।
ओं
ह्रींकारजपसुप्रीतायै
नमः
।
ओं
ह्रींमत्यै
नमः
।
ओं
ह्रींविभूषणायै
नमः
।
ओं
ह्रींशीलायै
नमः
।
90
ओं
ह्रींपदाराध्यायै
नमः
।
ओं
ह्रींगर्भायै
नमः
।
ओं
ह्रींपदाभिधायै
नमः
।
ओं
ह्रींकारवाच्यायै
नमः
।
ओं
ह्रींकारपूज्यायै
नमः
।
ओं
ह्रींकारपीठिकायै
नमः
।
ओं
ह्रींकारवेद्यायै
नमः
।
ओं
ह्रींकारचिन्त्यायै
नमः
।
ओं
ह्रीं
नमः
।
ओं
ह्रींशरीरिण्यै
नमः
।
100
ओं
हकाररूपायै
नमः
।
ओं
हलधृक्पूजितायै
नमः
।
ओं
हरिणेक्षणायै
नमः
।
ओं
हरप्रियायै
नमः
।
ओं
हराराध्यायै
नमः
।
ओं
हरिब्रह्मेन्द्रवन्दितायै
नमः
।
ओं
हयारूढासेविताङ्घ्र्यै
नमः
।
ओं
हयमेधसमर्चितायै
नमः
।
ओं
हर्यक्षवाहनायै
नमः
।
ओं
हंसवाहनायै
नमः
।
110
ओं
हतदानवायै
नमः
।
ओं
हत्यादिपापशमन्यै
नमः
।
ओं
हरिदश्वादिसेवितायै
नमः
।
ओं
हस्तिकुम्भोत्तुङ्गकुचायै
नमः
।
ओं
हस्तिकृत्तिप्रियाङ्गनायै
नमः
।
ओं
हरिद्राकुङ्कुमादिग्धायै
नमः
।
ओं
हर्यश्वाद्यमरार्चितायै
नमः
।
ओं
हरिकेशसख्यै
नमः
।
ओं
हादिविद्यायै
नमः
।
ओं
हालामदालसायै
नमः
।
120
ओं
सकाररूपायै
नमः
।
ओं
सर्वज्ञायै
नमः
।
ओं
सर्वेश्यै
नमः
।
ओं
सर्वमङ्गलायै
नमः
।
ओं
सर्वकर्त्र्यै
नमः
।
ओं
सर्वभर्त्र्यै
नमः
।
ओं
सर्वहन्त्र्यै
नमः
।
ओं
सनातनायै
नमः
।
ओं
सर्वानवद्यायै
नमः
।
ओं
सर्वाङ्गसुन्दर्यै
नमः
।
130
ओं
सर्वसाक्षिण्यै
नमः
।
ओं
सर्वात्मिकायै
नमः
।
ओं
सर्वसौख्यदात्र्यै
नमः
।
ओं
सर्वविमोहिन्यै
नमः
।
ओं
सर्वाधारायै
नमः
।
ओं
सर्वगतायै
नमः
।
ओं
सर्वावगुणवर्जितायै
नमः
।
ओं
सर्वारुणायै
नमः
।
ओं
सर्वमात्रे
नमः
।
ओं
सर्वभूषणभुषितायै
नमः
।
140
ओं
ककारार्थायै
नमः
।
ओं
कालहन्त्र्यै
नमः
।
ओं
कामेश्यै
नमः
।
ओं
कामितार्थदायै
नमः
।
ओं
कामसञ्जीवन्यै
नमः
।
ओं
कल्यायै
नमः
।
ओं
कठिनस्तनमण्डलायै
नमः
।
ओं
करभोरवे
नमः
।
ओं
कलानाथमुख्यै
नमः
।
ओं
कचजिताम्बुदायै
नमः
।
150
ओं
कटाक्षस्यन्दिकरुणायै
नमः
।
ओं
कपालिप्राणनायिकायै
नमः
।
ओं
कारुण्यविग्रहायै
नमः
।
ओं
कान्तायै
नमः
।
ओं
कान्तिधूतजपावल्यै
नमः
।
ओं
कलालापायै
नमः
।
ओं
कम्बुकण्ठ्यै
नमः
।
ओं
करनिर्जितपल्लवायै
नमः
।
ओं
कल्पवल्लीसमभुजायै
नमः
।
ओं
कस्तूरीतिलकाञ्चितायै
नमः
।
160
ओं
हकारार्थायै
नमः
।
ओं
हंसगत्यै
नमः
।
ओं
हाटकाभरणोज्ज्वलायै
नमः
।
ओं
हारहारिकुचाभोगायै
नमः
।
ओं
हाकिन्यै
नमः
।
ओं
हल्यवर्जितायै
नमः
।
ओं
हरित्पतिसमाराध्यायै
नमः
।
ओं
हठात्कारहतासुरायै
नमः
।
ओं
हर्षप्रदायै
नमः
।
ओं
हविर्भोक्त्र्यै
नमः
।
170
ओं
हार्दसन्तमसापहायै
नमः
।
ओं
हल्लीसलास्यसन्तुष्टायै
नमः
।
ओं
हंसमन्त्रार्थरूपिण्यै
नमः
।
ओं
हानोपादाननिर्मुक्तायै
नमः
।
ओं
हर्षिण्यै
नमः
।
ओं
हरिसोदर्यै
नमः
।
ओं
हाहाहूहूमुखस्तुत्यायै
नमः
।
ओं
हानिवृद्धिविवर्जितायै
नमः
।
ओं
हय्यङ्गवीनहृदयायै
नमः
।
ओं
हरिगोपारुणांशुकायै
नमः
।
180
ओं
लकाराख्यायै
नमः
।
ओं
लतापुज्यायै
नमः
।
ओं
लयस्थित्युद्भवेश्वर्यै
नमः
।
ओं
लास्यदर्शनसन्तुष्टायै
नमः
।
ओं
लाभालाभविवर्जितायै
नमः
।
ओं
लङ्घ्येतराज्ञायै
नमः
।
ओं
लावण्यशालिन्यै
नमः
।
ओं
लघुसिद्धिदायै
नमः
।
ओं
लाक्षारससवर्णाभायै
नमः
।
ओं
लक्ष्मणाग्रजपूजितायै
नमः
।
190
ओं
लभ्येतरायै
नमः
।
ओं
लब्धभक्तिसुलभायै
नमः
।
ओं
लाङ्गलायुधायै
नमः
।
ओं
लग्नचामरहस्तश्रीशारदापरिवीजितायै
नमः
।
ओं
लज्जापदसमाराध्यायै
नमः
।
ओं
लम्पटायै
नमः
।
ओं
लकुलेश्वर्यै
नमः
।
ओं
लब्धमानायै
नमः
।
ओं
लब्धरसायै
नमः
।
ओं
लब्धसम्पत्समुन्नत्यै
नमः
।
200
ओं
ह्रींकारिण्यै
नमः
।
ओं
ह्रींकाराद्यायै
नमः
।
ओं
ह्रींमध्यायै
नमः
।
ओं
ह्रींशिखामण्यै
नमः
।
ओं
ह्रींकारकुण्डाग्निशिखायै
नमः
।
ओं
ह्रींकारशशिचन्द्रिकायै
नमः
।
ओं
ह्रींकारभास्कररुचये
नमः
।
ओं
ह्रींकाराम्भोदचञ्चलायै
नमः
।
ओं
ह्रींकारकन्दाङ्कुरिकायै
नमः
।
ओं
ह्रींकारैकपरायणायै
नमः
।
210
ओं
ह्रींकारदीर्घिकाहंस्यै
नमः
।
ओं
ह्रींकारोद्यानकेकिन्यै
नमः
।
ओं
ह्रींकारारण्यहरिण्यै
नमः
।
ओं
ह्रींकारावालवल्लर्यै
नमः
।
ओं
ह्रींकारपञ्जरशुक्यै
नमः
।
ओं
ह्रींकाराङ्गणदीपिकायै
नमः
।
ओं
ह्रींकारकन्दरासिंह्यै
नमः
।
ओं
ह्रींकाराम्भोजभृङ्गिकायै
नमः
।
ओं
ह्रींकारसुमनोमाध्व्यै
नमः
।
ओं
ह्रींकारतरुमञ्जर्यै
नमः
।
220
ओं
सकाराख्यायै
नमः
।
ओं
समरसायै
नमः
।
ओं
सकलागमसंस्तुतायै
नमः
।
ओं
सर्ववेदान्ततात्पर्यभूमये
नमः
।
ओं
सदसदाश्रयायै
नमः
।
ओं
सकलायै
नमः
।
ओं
सच्चिदानन्दायै
नमः
।
ओं
साध्यायै
नमः
।
ओं
सद्गतिदायिन्यै
नमः
।
ओं
सनकादिमुनिध्येयायै
नमः
।
230
ओं
सदाशिवकुटुम्बिन्यै
नमः
।
ओं
सकलाधिष्ठानरूपायै
नमः
।
ओं
सत्यरूपायै
नमः
।
ओं
समाकृतये
नमः
।
ओं
सर्वप्रपञ्चनिर्मात्र्यै
नमः
।
ओं
समानाधिकवर्जितायै
नमः
।
ओं
सर्वोत्तुङ्गायै
नमः
।
ओं
सङ्गहीनायै
नमः
।
ओं
सगुणायै
नमः
।
ओं
सकलेष्टदायै
नमः
।
240
ओं
ककारिण्यै
नमः
।
ओं
काव्यलोलायै
नमः
।
ओं
कामेश्वरमनोहरायै
नमः
।
ओं
कामेश्वरप्राणनाड्यै
नमः
।
ओं
कामेशोत्सङ्गवासिन्यै
नमः
।
ओं
कामेश्वरालिङ्गिताङ्ग्यै
नमः
।
ओं
कामेश्वरसुखप्रदायै
नमः
।
ओं
कामेश्वरप्रणयिन्यै
नमः
।
ओं
कामेश्वरविलासिन्यै
नमः
।
ओं
कामेश्वरतपःसिद्ध्यै
नमः
।
250
ओं
कामेश्वरमनःप्रियायै
नमः
।
ओं
कामेश्वरप्राणनाथायै
नमः
।
ओं
कामेश्वरविमोहिन्यै
नमः
।
ओं
कामेश्वरब्रह्मविद्यायै
नमः
।
ओं
कामेश्वरगृहेश्वर्यै
नमः
।
ओं
कामेश्वराह्लादकर्यै
नमः
।
ओं
कामेश्वरमहेश्वर्यै
नमः
।
ओं
कामेश्वर्यै
नमः
।
ओं
कामकोटिनिलयायै
नमः
।
ओं
काङ्क्षितार्थदायै
नमः
।
260
ओं
लकारिण्यै
नमः
।
ओं
लब्धरूपायै
नमः
।
ओं
लब्धधिये
नमः
।
ओं
लब्धवाञ्छितायै
नमः
।
ओं
लब्धपापमनोदूरायै
नमः
।
ओं
लब्धाहङ्कारदुर्गमायै
नमः
।
ओं
लब्धशक्त्यै
नमः
।
ओं
लब्धदेहायै
नमः
।
ओं
लब्धैश्वर्यसमुन्नत्यै
नमः
।
ओं
लब्धवृद्ध्यै
नमः
।
270
ओं
लब्धलीलायै
नमः
।
ओं
लब्धयौवनशालिन्यै
नमः
।
ओं
लब्धातिशयसर्वाङ्गसौन्दर्यायै
नमः
।
ओं
लब्धविभ्रमायै
नमः
।
ओं
लब्धरागायै
नमः
।
ओं
लब्धपतये
नमः
।
ओं
लब्धनानागमस्थित्यै
नमः
।
ओं
लब्धभोगायै
नमः
।
ओं
लब्धसुखायै
नमः
।
ओं
लब्धहर्षाभिपूरितायै
नमः
।
280
ओं
ह्रींकारमूर्त्यै
नमः
।
ओं
ह्रींकारसौधशृङ्गकपोतिकायै
नमः
।
ओं
ह्रींकारदुग्धाब्धिसुधायै
नमः
।
ओं
ह्रींकारकमलेन्दिरायै
नमः
।
ओं
ह्रींकारमणिदीपार्चिषे
नमः
।
ओं
ह्रींकारतरुशारिकायै
नमः
।
ओं
ह्रींकारपेटकमणये
नमः
।
ओं
ह्रींकारादर्शबिम्बितायै
नमः
।
ओं
ह्रींकारकोशासिलतायै
नमः
।
ओं
ह्रींकारास्थाननर्तक्यै
नमः
।
290
ओं
ह्रींकारशुक्तिकामुक्तामणये
नमः
।
ओं
ह्रींकारबोधितायै
नमः
।
ओं
ह्रींकारमयसौवर्णस्तम्भविद्रुमपुत्रिकायै
नमः
।
ओं
ह्रींकारवेदोपनिषदे
नमः
।
ओं
ह्रींकाराध्वरदक्षिणायै
नमः
।
ओं
ह्रींकारनन्दनारामनवकल्पकवल्लर्यै
नमः
।
ओं
ह्रींकारहिमवद्गङ्गायै
नमः
।
ओं
ह्रींकारार्णवकौस्तुभायै
नमः
।
ओं
ह्रींकारमन्त्रसर्वस्वायै
नमः
।
ओं
ह्रींकारपरसौख्यदायै
नमः
।
300
इति
श्री
ललिता
त्रिशती
नामावली
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits