Haindavam Logo - Lord Ganesha
हैंदवम्
📍
Font Size:

ललिता अष्टोत्तर शत नामावलिः - 2

ओं शिवायै नमः । ओं भवान्यै नमः । ओं कल्याण्यै नमः । ओं गौर्यै नमः । ओं काल्यै नमः । ओं शिवप्रियायै नमः । ओं कात्यायन्यै नमः । ओं महादेव्यै नमः । ओं दुर्गायै नमः । ओं आर्यायै नमः । 10 ओं चण्डिकायै नमः । ओं भवायै नमः । ओं चन्द्रचूडायै नमः । ओं चन्द्रमुख्यै नमः । ओं चन्द्रमण्डलवासिन्यै नमः । ओं चन्द्रहासकरायै नमः । ओं चन्द्रहासिन्यै नमः । ओं चन्द्रकोटिभायै नमः । ओं चिद्रूपायै नमः । ओं चित्कलायै नमः । 20 ओं नित्यायै नमः । ओं निर्मलायै नमः । ओं निष्कलायै नमः । ओं कलायै नमः । ओं भव्यायै नमः । ओं भवप्रियायै नमः । ओं भव्यरूपिण्यै नमः । ओं कलभाषिण्यै नमः । ओं कविप्रियायै नमः । ओं कामकलायै नमः । 30 ओं कामदायै नमः । ओं कामरूपिण्यै नमः । ओं कारुण्यसागरायै नमः । ओं काल्यै नमः । ओं संसारार्णवतारकायै नमः । ओं दूर्वाभायै नमः । ओं दुष्टभयदायै नमः । ओं दुर्जयायै नमः । ओं दुरितापहायै नमः । ओं ललितायै नमः । 40 ओं राज्यदायै नमः । ओं सिद्धायै नमः । ओं सिद्धेश्यै नमः । ओं सिद्धिदायिन्यै नमः । ओं शर्मदायै नमः । ओं शान्त्यै नमः । ओं अव्यक्तायै नमः । ओं शङ्खकुण्डलमण्डितायै नमः । ओं शारदायै नमः । ओं शाङ्कर्यै नमः । 50 ओं साध्व्यै नमः । ओं श्यामलायै नमः । ओं कोमलाकृत्यै नमः । ओं पुष्पिण्यै नमः । ओं पुष्पबाणाम्बायै नमः । ओं कमलायै नमः । ओं कमलासनायै नमः । ओं पञ्चबाणस्तुतायै नमः । ओं पञ्चवर्णरूपायै नमः । ओं सरस्वत्यै नमः । 60 ओं पञ्चम्यै नमः । ओं परमायै नमः । ओं लक्ष्म्यै नमः । ओं पावन्यै नमः । ओं पापहारिण्यै नमः । ओं सर्वज्ञायै नमः । ओं वृषभारूढायै नमः । ओं सर्वलोकवशङ्कर्यै नमः । ओं सर्वस्वतन्त्रायै नमः । ओं सर्वेश्यै नमः । 70 ओं सर्वमङ्गलकारिण्यै नमः । ओं निरवद्यायै नमः । ओं नीरदाभायै नमः । ओं निर्मलायै नमः । ओं निश्चयात्मिकायै नमः । ओं निर्मदायै नमः । ओं नियताचारायै नमः । ओं निष्कामायै नमः । ओं निगमालयायै नमः । ओं अनादिबोधायै नमः । 80 ओं ब्रह्माण्यै नमः । ओं कौमार्यै नमः । ओं गुरुरूपिण्यै नमः । ओं वैष्णव्यै नमः । ओं समयाचारायै नमः । ओं कौलिन्यै नमः । ओं कुलदेवतायै नमः । ओं सामगानप्रियायै नमः । ओं सर्ववेदरूपायै नमः । ओं सरस्वत्यै नमः । 90 ओं अन्तर्यागप्रियायै नमः । ओं आनन्दायै नमः । ओं बहिर्यागपरार्चितायै नमः । ओं वीणागानरसानन्दायै नमः । ओं अर्धोन्मीलितलोचनायै नमः । ओं दिव्यचन्दनदिग्धाङ्ग्यै नमः । ओं सर्वसाम्राज्यरूपिण्यै नमः । ओं तरङ्गीकृतस्वापाङ्गवीक्षारक्षितसज्जनायै नमः । ओं सुधापानसमुद्वेलहेलामोहितधूर्जटये नमः । ओं मतङ्गमुनिसम्पूज्यायै नमः । 100 ओं मतङ्गकुलभूषणायै नमः । ओं मकुटाङ्गदमञ्जीरमेखलादामभूषितायै नमः । ओं ऊर्मिकाकिङ्किणीरत्नकङ्कणादिपरिष्कृतायै नमः । ओं मल्लिकामालतीकुन्दमन्दाराञ्चितमस्तकायै नमः । ओं ताम्बूलकवलोदञ्चत्कपोलतलशोभिन्यै नमः । ओं त्रिमूर्तिरूपायै नमः । ओं त्रैलोक्यसुमोहनतनुप्रभायै नमः । ओं श्रीमच्चक्राधिनगरीसाम्राज्यश्रीस्वरूपिण्यै नमः । 108 इति श्री ललिताष्टोत्तरशतनामावली ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits