(श्रीदेवीभागवतं, द्वादश स्कंधं, दशमोऽध्यायः, , मणिद्वीप वर्णन - 1)
व्यास उवाच –
ब्रह्मलोकादूर्ध्वभागे सर्वलोकोऽस्ति यः श्रुतः ।
मणिद्वीपः स एवास्ति यत्र देवी विराजते ॥ 1 ॥
सर्वस्मादधिको यस्मात्सर्वलोकस्ततः स्मृतः ।
पुरा परांबयैवायं कल्पितो मनसेच्छया ॥ 2 ॥
सर्वादौ निजवासार्थं प्रकृत्या मूलभूतया ।
कैलासादधिको लोको वैकुंठादपि चोत्तमः ॥ 3 ॥
गोलोकादपि सर्वस्मात्सर्वलोकोऽधिकः स्मृतः ।
नैतत्समं त्रिलोक्यां तु सुंदरं विद्यते क्वचित् ॥ 4 ॥
छत्रीभूतं त्रिजगतो भवसंतापनाशकम् ।
छायाभूतं तदेवास्ति ब्रह्मांडानां तु सत्तम ॥ 5 ॥
बहुयोजनविस्तीर्णो गंभीरस्तावदेव हि ।
मणिद्वीपस्य परितो वर्तते तु सुधोदधिः ॥ 6 ॥
मरुत्संघट्टनोत्कीर्णतरंग शतसंकुलः ।
रत्नाच्छवालुकायुक्तो झषशंखसमाकुलः ॥ 7 ॥
वीचिसंघर्षसंजातलहरीकणशीतलः ।
नानाध्वजसमायुक्ता नानापोतगतागतैः ॥ 8 ॥
विराजमानः परितस्तीररत्नद्रुमो महान् ।
तदुत्तरमयोधातुनिर्मितो गगने ततः ॥ 9 ॥
सप्तयोजनविस्तीर्णः प्राकारो वर्तते महान् ।
नानाशस्त्रप्रहरणा नानायुद्धविशारदाः ॥ 10 ॥
रक्षका निवसंत्यत्र मोदमानाः समंततः ।
चतुर्द्वारसमायुक्तो द्वारपालशतान्वितः ॥ 11 ॥
नानागणैः परिवृतो देवीभक्तियुतैर्नृप ।
दर्शनार्थं समायांति ये देवा जगदीशितुः ॥ 12 ॥
तेषां गणा वसंत्यत्र वाहनानि च तत्र हि ।
विमानशतसंघर्षघंटास्वनसमाकुलः ॥ 13 ॥
हयहेषाखुराघातबधिरीकृतदिंमुखः ।
गणैः किलकिलारावैर्वेत्रहस्तैश्च ताडिताः ॥ 14 ॥
सेवका देवसंगानां भ्राजंते तत्र भूमिप ।
तस्मिंकोलाहले राजन्नशब्दः केनचित्क्वचित् ॥ 15 ॥
कस्यचिच्छ्रूयतेऽत्यंतं नानाध्वनिसमाकुले ।
पदे पदे मिष्टवारिपरिपूर्णसरान्सि च ॥ 16 ॥
वाटिका विविधा राजन् रत्नद्रुमविराजिताः ।
तदुत्तरं महासारधातुनिर्मितमंडलः ॥ 17 ॥
सालोऽपरो महानस्ति गगनस्पर्शि यच्छिरः ।
तेजसा स्याच्छतगुणः पूर्वसालादयं परः ॥ 18 ॥
गोपुरद्वारसहितो बहुवृक्षसमन्वितः ।
या वृक्षजातयः संति सर्वास्तास्तत्र संति च ॥ 19 ॥
निरंतरं पुष्पयुताः सदा फलसमन्विताः ।
नवपल्लवसंयुक्ताः परसौरभसंकुलाः ॥ 20 ॥
पनसा बकुला लोध्राः कर्णिकाराश्च शिंशपाः ।
देवदारुकांचनारा आम्राश्चैव सुमेरवः ॥ 21 ॥
लिकुचा हिंगुलाश्चैला लवंगाः कट्फलास्तथा ।
पाटला मुचुकुंदाश्च फलिन्यो जघनेफलाः ॥ 22 ॥
तालास्तमालाः सालाश्च कंकोला नागभद्रकाः ।
पुन्नागाः पीलवः साल्वका वै कर्पूरशाखिनः ॥ 23 ॥
अश्वकर्णा हस्तिकर्णास्तालपर्णाश्च दाडिमाः ।
गणिका बंधुजीवाश्च जंबीराश्च कुरंडकाः ॥ 24 ॥
चांपेया बंधुजीवाश्च तथा वै कनकद्रुमाः ।
कालागुरुद्रुमाश्चैव तथा चंदनपादपाः ॥ 25 ॥
खर्जूरा यूथिकास्तालपर्ण्यश्चैव तथेक्षवः ।
क्षीरवृक्षाश्च खदिराश्चिंचाभल्लातकास्तथा ॥ 26 ॥
रुचकाः कुटजा वृक्षा बिल्ववृक्षास्तथैव च ।
तुलसीनां वनान्येवं मल्लिकानां तथैव च ॥ 27 ॥
इत्यादितरुजातीनां वनान्युपवनानि च ।
नानावापीशतैर्युक्तान्येवं संति धराधिप ॥ 28 ॥
कोकिलारावसंयुक्ता गुन्जद्भ्रमरभूषिताः ।
निर्यासस्राविणः सर्वे स्निग्धच्छायास्तरूत्तमाः ॥ 29 ॥
नानाऋतुभवा वृक्षा नानापक्षिसमाकुलाः ।
नानारसस्राविणीभिर्नदीभिरतिशोभिताः ॥ 30 ॥
पारावतशुकव्रातसारिकापक्षमारुतैः ।
हंसपक्षसमुद्भूत वातव्रातैश्चलद्द्रुमम् ॥ 31 ॥
सुगंधग्राहिपवनपूरितं तद्वनोत्तमम् ।
सहितं हरिणीयूथैर्धावमानैरितस्ततः ॥ 32 ॥
नृत्यद्बर्हिकदंबस्य केकारावैः सुखप्रदैः ।
नादितं तद्वनं दिव्यं मधुस्रावि समंततः ॥ 33 ॥
कांस्यसालादुत्तरे तु ताम्रसालः प्रकीर्तितः ।
चतुरस्रसमाकार उन्नत्या सप्तयोजनः ॥ 34 ॥
द्वयोस्तु सालयोर्मध्ये संप्रोक्ता कल्पवाटिका ।
येषां तरूणां पुष्पाणि कांचनाभानि भूमिप ॥ 35 ॥
पत्राणि कांचनाभानि रत्नबीजफलानि च ।
दशयोजनगंधो हि प्रसर्पति समंततः ॥ 36 ॥
तद्वनं रक्षितं राजन्वसंतेनर्तुनानिशम् ।
पुष्पसिंहासनासीनः पुष्पच्छत्रविराजितः ॥ 37 ॥
पुष्पभूषाभूषितश्च पुष्पासवविघूर्णितः ।
मधुश्रीर्माधवश्रीश्च द्वे भार्ये तस्य सम्मते ॥ 38 ॥
क्रीडतः स्मेरवदने सुमस्तबककंदुकैः ।
अतीव रम्यं विपिनं मधुस्रावि समंततः ॥ 39 ॥
दशयोजनपर्यंतं कुसुमामोदवायुना ।
पूरितं दिव्यगंधर्वैः सांगनैर्गानलोलुपैः ॥ 40 ॥
शोभितं तद्वनं दिव्यं मत्तकोकिलनादितम् ।
वसंतलक्ष्मीसंयुक्तं कामिकामप्रवर्धनम् ॥ 41 ॥
ताम्रसालादुत्तरत्र सीससालः प्रकीर्तितः ।
समुच्छ्रायः स्मृतोऽप्यस्य सप्तयोजनसंख्यया ॥ 42 ॥
संतानवाटिकामध्ये सालयोस्तु द्वयोर्नृप ।
दशयोजनगंधस्तु प्रसूनानां समंततः ॥ 43 ॥
हिरण्याभानि कुसुमान्युत्फुल्लानि निरंतरम् ।
अमृतद्रवसंयुक्तफलानि मधुराणि च ॥ 44 ॥
ग्रीष्मर्तुर्नायकस्तस्या वाटिकाया नृपोत्तम ।
शुक्रश्रीश्च शुचिश्रीश्च द्वे भार्ये तस्य सम्मते ॥ 45 ॥
संतापत्रस्तलोकास्तु वृक्षमूलेषु संस्थिताः ।
नानासिद्धैः परिवृतो नानादेवैः समन्वितः ॥ 46 ॥
विलासिनीनां बृंदैस्तु चंदनद्रवपंकिलैः ।
पुष्पमालाभूषितैस्तु तालवृंतकरांबुजैः ॥ 47 ॥
[पाठभेदः- प्राकारः]
प्रकारः शोभितो एजच्छीतलांबुनिषेविभिः ।
सीससालादुत्तरत्राप्यारकूटमयः शुभः ॥ 48 ॥
प्राकारो वर्तते राजन्मुनियोजनदैर्घ्यवान् ।
हरिचंदनवृक्षाणां वाटी मध्ये तयोः स्मृता ॥ 49 ॥
सालयोरधिनाथस्तु वर्षर्तुर्मेघवाहनः ।
विद्युत्पिंगलनेत्रश्च जीमूतकवचः स्मृतः ॥ 50 ॥
वज्रनिर्घोषमुखरश्चेंद्रधन्वा समंततः ।
सहस्रशो वारिधारा मुंचन्नास्ते गणावृतः ॥ 51 ॥
नभः श्रीश्च नभस्यश्रीः स्वरस्या रस्यमालिनी ।
अंबा दुला निरत्निश्चाभ्रमंती मेघयंतिका ॥ 52 ॥
वर्षयंती चिबुणिका वारिधारा च सम्मताः ।
वर्षर्तोर्द्वादश प्रोक्ताः शक्तयो मदविह्वलाः ॥ 53 ॥
नवपल्लववृक्षाश्च नवीनलतिकान्विताः ।
हरितानि तृणान्येव वेष्टिता यैर्धराऽखिला ॥ 54 ॥
नदीनदप्रवाहाश्च प्रवहंति च वेगतः ।
सरांसि कलुषांबूनि रागिचित्तसमानि च ॥ 55 ॥
वसंति देवाः सिद्धाश्च ये देवीकर्मकारिणः ।
वापीकूपतडागाश्च ये देव्यर्थं समर्पिताः ॥ 56 ॥
ते गणा निवसंत्यत्र सविलासाश्च सांगनाः ।
आरकूटमयादग्रे सप्तयोजनदैर्घ्यवान् ॥ 57 ॥
पंचलोहात्मकः सालो मध्ये मंदारवाटिका ।
नानापुष्पलताकीर्णा नानापल्लवशोभिता ॥ 58 ॥
अधिष्ठाताऽत्र संप्रोक्तः शरदृतुरनामयः ।
इषलक्ष्मीरूर्जलक्ष्मीर्द्वे भार्ये तस्य सम्मते ॥ 59 ॥
नानासिद्धा वसंत्यत्र सांगनाः सपरिच्छदाः ।
पंचलोहमयादग्रे सप्तयोजनदैर्घ्यवान् ॥ 60 ॥
दीप्यमानो महाशृंगैर्वर्तते रौप्यसालकः ।
पारिजाताटवीमध्ये प्रसूनस्तबकान्विता ॥ 61 ॥
दशयोजनगंधीनि कुसुमानि समंततः ।
मोदयंति गणान्सर्वान्ये देवीकर्मकारिणः ॥ 62 ॥
तत्राधिनाथः संप्रोक्तो हेमंतर्तुर्महोज्ज्वलः ।
सगणः सायुधः सर्वान् रागिणो रंजयन्नपः ॥ 63 ॥
सहश्रीश्च सहस्यश्रीर्द्वे भार्ये तस्य सम्मते ।
वसंति तत्र सिद्धाश्च ये देवीव्रतकारिणः ॥ 64 ॥
रौप्यसालमयादग्रे सप्तयोजनदैर्घ्यवान् ।
सौवर्णसालः संप्रोक्तस्तप्तहाटककल्पितः ॥ 65 ॥
मध्ये कदंबवाटी तु पुष्पपल्लवशोभिता ।
कदंबमदिराधाराः प्रवर्तंते सहस्रशः ॥ 66 ॥
याभिर्निपीतपीताभिर्निजानंदोऽनुभूयते ।
तत्राधिनाथः संप्रोक्तः शैशिरर्तुर्महोदयः ॥ 67 ॥
तपःश्रीश्च तपस्यश्रीर्द्वे भार्ये तस्य सम्मते ।
मोदमानः सहैताभ्यां वर्तते शिशिराकृतिः ॥ 68 ॥
नानाविलाससंयुक्तो नानागणसमावृतः ।
निवसंति महासिद्धा ये देवीदानकारिणः ॥ 69 ॥
नानाभोगसमुत्पन्नमहानंदसमन्विताः ।
सांगनाः परिवारैस्तु संघशः परिवारिताः ॥ 70 ॥
स्वर्णसालमयादग्रे मुनियोजनदैर्घ्यवान् ।
पुष्परागमयः सालः कुंकुमारुणविग्रहः ॥ 71 ॥
पुष्परागमयी भूमिर्वनान्युपवनानि च ।
रत्नवृक्षालवालाश्च पुष्परागमयाः स्मृताः ॥ 72 ॥
प्राकारो यस्य रत्नस्य तद्रत्नरचिता द्रुमाः ।
वनभूः पक्षिनश्चैव रत्नवर्णजलानि च ॥ 73 ॥
मंडपा मंडपस्तंभाः सरान्सि कमलानि च ।
प्राकारे तत्र यद्यत्स्यात्तत्सर्वं तत्समं भवेत् ॥ 74 ॥
परिभाषेयमुद्दिष्टा रत्नसालादिषु प्रभो ।
तेजसा स्याल्लक्षगुणः पूर्वसालात्परो नृप ॥ 75 ॥
दिक्पाला निवसंत्यत्र प्रतिब्रह्मान्डवर्तिनाम् ।
दिक्पालानां समष्ट्यात्मरूपाः स्फूर्जद्वरायुधाः ॥ 76 ॥
पूर्वाशायां समुत्तुंगशृंगा पूरमरावती ।
नानोपवनसंयुक्ता महेंद्रस्तत्र राजते ॥ 77 ॥
स्वर्गशोभा च या स्वर्गे यावती स्यात्ततोऽधिका ।
समष्टिशतनेत्रस्य सहस्रगुणतः स्मृता ॥ 78 ॥
ऐरावतसमारूढो वज्रहस्तः प्रतापवान् ।
देवसेनापरिवृतो राजतेऽत्र शतक्रतुः ॥ 79 ॥
देवांगनागणयुता शची तत्र विराजते ।
वह्निकोणे वह्निपुरी वह्निपूः सदृशी नृप ॥ 80 ॥
स्वाहास्वधासमायुक्तो वह्निस्तत्र विराजते ।
निजवाहनभूषाढ्यो निजदेवगणैर्वृतः ॥ 81 ॥
याम्याशायां यमपुरी तत्र दंडधरो महान् ।
स्वभटैर्वेष्टितो राजन् चित्रगुप्तपुरोगमैः ॥ 82 ॥
निजशक्तियुतो भास्वत्तनयोऽस्ति यमो महान् ।
नैरृत्यां दिशि राक्षस्यां राक्षसैः परिवारितः ॥ 83 ॥
खड्गधारी स्फुरन्नास्ते निरृतिर्निजशक्तियुक् ।
वारुण्यां वरुणो राजा पाशधारी प्रतापवान् ॥ 84 ॥
महाझशसमारूढो वारुणीमधुविह्वलः ।
निजशक्तिसमायुक्तो निजयादोगणान्वितः ॥ 85 ॥
समास्ते वारुणे लोके वरुणानीरताकुलः ।
वायुकोणे वायुलोको वायुस्तत्राधितिष्ठति ॥ 86 ॥
वायुसाधनसंसिद्धयोगिभिः परिवारितः ।
ध्वजहस्तो विशालाक्षो मृगवाहनसंस्थितः ॥ 87 ॥
मरुद्गणैः परिवृतो निजशक्तिसमन्वितः ।
उत्तरस्यां दिशि महान्यक्षलोकोऽस्ति भूमिप ॥ 88 ॥
यक्षाधिराजस्तत्राऽऽस्ते वृद्धिऋद्ध्यादिशक्तिभिः ।
नवभिर्निधिभिर्युक्तस्तुंदिलो धननायकः ॥ 89 ॥
मणिभद्रः पूर्णभद्रो मणिमान्मणिकंधरः ।
मणिभूषो मणिस्रग्वी मणिकार्मुकधारकः ॥ 90 ॥
इत्यादियक्षसेनानीसहितो निजशक्तियुक् ।
ईशानकोणे संप्रोक्तो रुद्रलोको महत्तरः ॥ 91 ॥
अनर्घ्यरत्नखचितो यत्र रुद्रोऽधिदैवतम् ।
मन्युमांदीप्तनयनो बद्धपृष्ठमहेषुधिः ॥ 92 ॥
स्फूर्जद्धनुर्वामहस्तोऽधिज्यधन्वभिरावृतः ।
स्वसमानैरसंख्यातरुद्रैः शूलवरायुधैः ॥ 93 ॥
विकृतास्यैः करालास्यैर्वमद्वह्निभिरास्यतः ।
दशहस्तैः शतकरैः सहस्रभुजसंयुतैः ॥ 94 ॥
दशपादैर्दशग्रीवैस्त्रिनेत्रैरुग्रमूर्तिभिः ।
अंतरिक्षचरा ये च ये च भूमिचराः स्मृताः ॥ 95 ॥
रुद्राध्याये स्मृता रुद्रास्तैः सर्वैश्च समावृतः ।
रुद्राणीकोटिसहितो भद्रकाल्यादिमातृभिः ॥ 96 ॥
नानाशक्तिसमाविष्टडामर्यादिगणावृतः ।
वीरभद्रादिसहितो रुद्रो राजन्विराजते ॥ 97 ॥
मुंडमालाधरो नागवलयो नागकंधरः ।
व्याघ्रचर्मपरीधानो गजचर्मोत्तरीयकः ॥ 98 ॥
चिताभस्मांगलिप्तांगः प्रमथादिगणावृतः ।
निनदड्डमरुध्वानैर्बधिरीकृतदिंमुखः ॥ 99 ॥
अट्टहासास्फोटशब्दैः संत्रासितनभस्तलः ।
भूतसंघसमाविष्टो भूतावासो महेश्वरः ॥ 100 ॥
ईशानदिक्पतिः सोऽयं नाम्ना चेशान एव च ॥ 101 ॥
इति श्रीदेवीभागवते महापुराणे द्वादशस्कंधे मणिद्वीपवर्णनं नाम दशमोऽध्यायः ॥
(श्रीदेवीभागवतं, द्वादश स्कंधं, एकादशोऽध्यायः, मणिद्वीप वर्णन - 2)
व्यास उवाच –
पुष्परागमयादग्रे कुंकुमारुणविग्रहः ।
पद्मरागमयः सालो मध्ये भूश्चैवतादृशी ॥ 1 ॥
दशयोजनवांदैर्घ्ये गोपुरद्वारसंयुतः ।
तन्मणिस्तंभसंयुक्ता मंडपाः शतशो नृप ॥ 2 ॥
मध्ये भुविसमासीनाश्चतुःषष्टिमिताः कलाः ।
नानायुधधरावीरा रत्नभूषणभूषिताः ॥ 3 ॥
प्रत्येकलोकस्तासां तु तत्तल्लोकस्यनायकाः ।
समंतात्पद्मरागस्य परिवार्यस्थिताः सदा ॥ 4 ॥
स्वस्वलोकजनैर्जुष्टाः स्वस्ववाहनहेतिभिः ।
तासां नामानि वक्ष्यामि शृणु त्वं जनमेजय ॥ 5 ॥
पिंगलाक्षी विशालाक्षी समृद्धि वृद्धिरेव च ।
श्रद्धा स्वाहा स्वधाभिख्या माया संज्ञा वसुंधरा ॥ 6 ॥
त्रिलोकधात्री सावित्री गायत्री त्रिदशेश्वरी ।
सुरूपा बहुरूपा च स्कंदमाताऽच्युतप्रिया ॥ 7 ॥
विमला चामला तद्वदरुणी पुनरारुणी ।
प्रकृतिर्विकृतिः सृष्टिः स्थितिः संहृतिरेव च ॥ 8 ॥
संध्यामाता सती हंसी मर्दिका वज्रिका परा ।
देवमाता भगवती देवकी कमलासना ॥ 9 ॥
त्रिमुखी सप्तमुख्यन्या सुरासुरविमर्दिनी ।
लंबोष्टी चोर्ध्वकेशी च बहुशीर्षा वृकोदरी ॥ 10 ॥
रथरेखाह्वया पश्चाच्छशिरेखा तथा परा ।
गगनवेगा पवनवेगा चैव ततः परम् ॥ 11 ॥
अग्रे भुवनपाला स्यात्तत्पश्चान्मदनातुरा ।
अनंगानंगमथना तथैवानंगमेखला ॥ 12 ॥
अनंगकुसुमा पश्चाद्विश्वरूपा सुरादिका ।
क्षयंकरी भवेच्छक्ति रक्षोभ्या च ततः परम् ॥ 13 ॥
सत्यवादिन्यथ प्रोक्ता बहुरूपा शुचिव्रता ।
उदाराख्या च वागीशी चतुष्षष्टिमिताः स्मृताः ॥ 14 ॥
ज्वलज्जिह्वाननाः सर्वावमंत्यो वह्निमुल्बणम् ।
जलं पिबामः सकलं संहरामोविभावसुम् ॥ 15 ॥
पवनं स्तंभयामोद्य भक्षयामोऽखिलं जगत् ।
इति वाचं संगिरते क्रोध संरक्तलोचनाः ॥ 16 ॥
चापबाणधराः सर्वायुद्धायैवोत्सुकाः सदा ।
दंष्ट्रा कटकटारावैर्बधिरीकृत दिङ्मुखाः ॥ 17 ॥
पिंगोर्ध्वकेश्यः संप्रोक्ताश्चापबाणकराः सदा ।
शताक्षौहिणिका सेनाप्येकैकस्याः प्रकीर्तिता ॥ 18 ॥
एकैक शक्तेः सामर्थ्यं लक्षब्रह्मांडनाशने ।
शताक्षौहिणिकासेना तादृशी नृप सत्तम ॥ 19 ॥
किं न कुर्याज्जगत्यस्मिन्नशक्यं वक्तुमेव तत् ।
सर्वापि युद्धसामग्री तस्मिन्साले स्थिता मुने ॥ 20 ॥
रथानां गणना नास्ति हयानां करिणां तथा ॥
शस्त्राणां गणना तद्वद्गणानां गणना तथा ॥ 21 ॥
पद्मरागमयादग्रे गोमेदमणिनिर्मितः ।
दशयोजनदैर्घ्येण प्राकारो वर्तते महान् ॥ 22 ॥
भास्वज्जपाप्रसूनाभो मध्यभूस्तस्य तादृशी ।
गोमेदकल्पितान्येव तद्वासि सदनानि च ॥ 23 ॥
पक्षिणः स्तंभवर्याश्च वृक्षावाप्यः सरांसि च ।
गोमेदकल्पिता एव कुंकुमारुणविग्रहाः ॥ 24 ॥
तन्मध्यस्था महादेव्यो द्वात्रिंशच्छक्तयः स्मृताः ।
नाना शस्त्रप्रहरणा गोमेदमणिभूषिताः ॥ 25 ॥
प्रत्येक लोक वासिन्यः परिवार्य समंततः ।
गोमेदसाले सन्नद्धा पिशाचवदना नृप ॥ 26 ॥
स्वर्लोकवासिभिर्नित्यं पूजिताश्चक्रबाहवः ।
क्रोधरक्तेक्षणा भिंधि पच च्छिंधि दहेति च ॥ 27 ॥
वदंति सततं वाचं युद्धोत्सुकहृदंतराः ।
एकैकस्या महाशक्तेर्दशाक्षौहिणिका मता ॥ 28 ॥
सेना तत्राप्येकशक्तिर्लक्षब्रह्मांडनाशिनी ।
तादृशीनां महासेना वर्णनीया कथं नृप ॥ 29 ॥
रथानां नैव गणाना वाहनानां तथैव च ।
सर्वयुद्धसमारंभस्तत्र देव्या विराजते ॥ 30 ॥
तासां नामानि वक्ष्यामि पापनाशकराणि च ।
विद्या ह्री पुष्ट यः प्रज्ञा सिनीवाली कुहूस्तथा ॥ 31 ॥
रुद्रावीर्या प्रभानंदा पोषिणी ऋद्धिदा शुभा ।
कालरात्रिर्महारात्रिर्भद्रकाली कपर्दिनी ॥ 32 ॥
विकृतिर्दंडिमुंडिन्यौ सेंदुखंडा शिखंडिनी ।
निशुंभशुंभमथिनी महिषासुरमर्दिनी ॥ 33 ॥
इंद्राणी चैव रुद्राणी शंकरार्धशरीरिणी ।
नारी नारायणी चैव त्रिशूलिन्यपि पालिनी ॥ 34 ॥
अंबिकाह्लादिनी पश्चादित्येवं शक्तयः स्मृताः ।
यद्येताः कुपिता देव्यस्तदा ब्रह्मांडनाशनम् ॥ 35 ॥
पराजयो न चैतासां कदाचित्क्वचिदस्ति हि ।
गोमेदकमयादग्रे सद्वज्रमणिनिर्मितः ॥ 36 ॥
दशयोजन तुंगोऽसौ गोपुरद्वारसंयुतः ।
कपाटशृंखलाबद्धो नववृक्ष समुज्ज्वलः ॥ 37 ॥
सालस्तन्मध्यभूम्यादि सर्वं हीरमयं स्मृतम् ।
गृहाणिवीथयो रथ्या महामार्गां गणानि च ॥ 38 ॥
वृक्षालवाल तरवः सारंगा अपि तादृशाः ।
दीर्घिकाश्रेणयोवाप्यस्तडागाः कूप संयुताः ॥ 39 ॥
तत्र श्रीभुवनेश्वर्या वसंति परिचारिकाः ।
एकैका लक्षदासीभिः सेविता मदगर्विताः ॥ 40 ॥
तालवृंतधराः काश्चिच्चषकाढ्य करांबुजाः ।
काश्चित्तांबूलपात्राणि धारयंत्योऽतिगर्विताः ॥ 41 ॥
काश्चित्तच्छत्रधारिण्यश्चामराणां विधारिकाः ।
नाना वस्त्रधराः काश्चित्काश्चित्पुष्प करांबुजाः ॥ 42 ॥
नानादर्शकराः काश्चित्काश्चित्कुंकुमलेपनम् ।
धारयंत्यः कज्जलं च सिंदूर चषकं पराः ॥ 43 ॥
काश्चिच्चित्रक निर्मात्र्यः पाद संवाहने रताः ।
काश्चित्तु भूषाकारिण्यो नाना भूषाधराः पराः ॥ 44 ॥
पुष्पभूषण निर्मात्र्यः पुष्पशृंगारकारिकाः ।
नाना विलासचतुरा बह्व्य एवं विधाः पराः ॥ 45 ॥
निबद्ध परिधानीया युवत्यः सकला अपि ।
देवी कृपा लेशवशात्तुच्छीकृत जगत्त्रयाः ॥ 46 ॥
एता दूत्यः स्मृता देव्यः शृंगारमदगर्विताः ।
तासां नामानि वक्ष्यामि शृणु मे नृपसत्तम ॥ 47 ॥
अनंगरूपा प्रथमाप्यनंगमदना परा ।
तृतीयातु ततः प्रोक्ता सुंदरी मदनातुरा ॥ 48 ॥
ततो भुवनवेगास्यात्तथा भुवनपालिका ।
स्यात्सर्वशिशिरानंगवेदनानंगमेखला ॥ 49 ॥
विद्युद्दामसमानांग्यः क्वणत्कांचीगुणान्विताः ।
रणन्मंजीरचरणा बहिरंतरितस्ततः ॥ 50 ॥
धावमानास्तु शोभंते सर्वा विद्युल्लतोपमाः ।
कुशलाः सर्वकार्येषु वेत्रहस्ताः समंततः ॥ 51 ॥
अष्टदिक्षुतथैतासां प्राकाराद्बहिरेव च ।
सदनानि विराजंते नाना वाहनहेतिभिः ॥ 52 ॥
वज्रसालादग्रभागे सालो वैदूर्यनिर्मितः ।
दशयोजनतुंगोऽसौ गोपुरद्वारभूषितः ॥ 53 ॥
वैदूर्यभूमिः सर्वापिगृहाणि विविधानि च ।
वीथ्यो रथ्या महामार्गाः सर्वे वेदूर्यनिर्मिताः ॥ 54 ॥
वापी कूप तडागाश्च स्रवंतीनां तटानि च ।
वालुका चैव सर्वाऽपि वैदूर्यमणिनिर्मिता ॥ 55 ॥
तत्राष्टदिक्षुपरितो ब्राह्म्यादीनां च मंडलम् ।
निजैर्गणैः परिवृतं भ्राजते नृपसत्तम ॥ 56 ॥
प्रतिब्रह्मांडमातृणां ताः समष्टय ईरिताः ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥57 ॥
वाराही च तथेंद्राणी चामुंडाः सप्तमातरः ।
अष्टमी तु महालक्ष्मीर्नाम्ना प्रोक्तास्तु मातरः ॥ 58 ॥
ब्रह्मरुद्रादिदेवानां समाकारा स्तुताः स्मृताः ।
जगत्कल्याणकारिण्यः स्वस्वसेनासमावृताः ॥ 59 ॥
तत्सालस्य चतुर्द्वार्षु वाहनानि महेशितुः ।
सज्जानि नृपते संति सालंकाराणि नित्यशः ॥ 60 ॥
दंतिनः कोटिशो वाहाः कोटिशः शिबिकास्तथा ।
हंसाः सिंहाश्च गरुडा मयूरा वृषभास्तथा ॥ 61 ॥
तैर्युक्ताः स्यंदनास्तद्वत्कोटिशो नृपनंदन ।
पार्ष्णिग्राहसमायुक्ता ध्वजैराकाशचुंबिनः ॥ 62 ॥
कोटिशस्तु विमानानि नाना चिह्नान्वितानि च ।
नाना वादित्रयुक्तानि महाध्वजयुतानि च ॥ 63 ॥
वैदूर्यमणि सालस्याप्यग्रे सालः परः स्मृतः ।
दशयोजन तुंगोऽसाविंद्रनीलाश्मनिर्मितः ॥ 64 ॥
तन्मध्य भूस्तथा वीथ्यो महामार्गा गृहाणि च ।
वापी कूप तडागाश्च सर्वे तन्मणिनिर्मिताः ॥ 65 ॥
तत्र पद्म तु संप्रोक्तं बहुयोजन विस्तृतम् ।
षोडशारं दीप्यमानं सुदर्शनमिवापरम् ॥ 66 ॥
तत्र षोडशशक्तीनां स्थानानि विविधानि च ।
सर्वोपस्करयुक्तानि समृद्धानि वसंति हि ॥ 67 ॥
तासां नामानि वक्ष्यामि शृणु मे नृपसत्तम ।
कराली विकराली च तथोमा च सरस्वती ॥ 68 ॥
श्री दुर्गोषा तथा लक्ष्मीः श्रुतिश्चैव स्मृतिर्धृतिः ।
श्रद्धा मेधा मतिः कांतिरार्या षोडशशक्तयः ॥ 69 ॥
नीलजीमूतसंकाशाः करवाल करांबुजाः ।
समाः खेटकधारिण्यो युद्धोपक्रांत मानसाः ॥ 70 ॥
सेनान्यः सकला एताः श्रीदेव्या जगदीशितुः ।
प्रतिब्रह्मांडसंस्थानां शक्तीनां नायिकाः स्मृताः ॥ 71 ॥
ब्रह्मांडक्षोभकारिण्यो देवी शक्त्युपबृंहिताः ।
नाना रथसमारूढा नाना शक्तिभिरन्विताः ॥ 72 ॥
एतत्पराक्रमं वक्तुं सहस्रास्योऽपि न क्षमः ।
इंद्रनीलमहासालादग्रे तु बहुविस्तृतः ॥ 73 ॥
मुक्ताप्राकार उदितो दशयोजन दैर्घ्यवान् ।
मध्यभूः पूर्ववत्प्रोक्ता तन्मध्येऽष्टदलांबुजम् ॥ 74 ॥
मुक्तामणिगणाकीर्णं विस्तृतं तु सकेसरम् ।
तत्र देवीसमाकारा देव्यायुधधराः सदा ॥ 75 ॥
संप्रोक्ता अष्टमंत्रिण्यो जगद्वार्ताप्रबोधिकाः ।
देवीसमानभोगास्ता इंगितज्ञास्तुपंडिताः ॥ 76 ॥
कुशलाः सर्वकार्येषु स्वामिकार्यपरायणाः ।
देव्यभिप्राय बोध्यस्ताश्चतुरा अतिसुंदराः ॥ 77 ॥
नाना शक्तिसमायुक्ताः प्रतिब्रह्मांडवर्तिनाम् ।
प्राणिनां ताः समाचारं ज्ञानशक्त्याविदंति च ॥ 78 ॥
तासां नामानि वक्ष्यामि मत्तः शृणु नृपोत्तम ।
अनंगकुसुमा प्रोक्ताप्यनंगकुसुमातुरा ॥ 79 ॥
अनंगमदना तद्वदनंगमदनातुरा ।
भुवनपाला गगनवेगा चैव ततः परम् ॥ 80 ॥
शशिरेखा च गगनरेखा चैव ततः परम् ।
पाशांकुशवराभीतिधरा अरुणविग्रहाः ॥ 81 ॥
विश्वसंबंधिनीं वार्तां बोधयंति प्रतिक्षणम् ।
मुक्तासालादग्रभागे महामारकतो परः ॥ 82 ॥
सालोत्तमः समुद्दिष्टो दशयोजन दैर्घ्यवान् ।
नाना सौभाग्यसंयुक्तो नाना भोगसमन्वितः ॥ 83 ॥
मध्यभूस्तादृशी प्रोक्ता सदनानि तथैव च ।
षट्कोणमत्रविस्तीर्णं कोणस्था देवताः शृणुः ॥ 84 ॥
पूर्वकोणे चतुर्वक्त्रो गायत्री सहितो विधिः ।
कुंडिकाक्षगुणाभीति दंडायुधधरः परः ॥ 85 ॥
तदायुधधरा देवी गायत्री परदेवता ।
वेदाः सर्वे मूर्तिमंतः शास्त्राणि विविधानि च ॥ 86 ॥
स्मृतयश्च पुराणानि मूर्तिमंति वसंति हि ।
ये ब्रह्मविग्रहाः संति गायत्रीविग्रहाश्च ये ॥ 87 ॥
व्याहृतीनां विग्रहाश्च ते नित्यं तत्र संति हि ।
रक्षः कोणे शंखचक्रगदांबुज करांबुजा ॥ 88 ॥
सावित्री वर्तते तत्र महाविष्णुश्च तादृशः ।
ये विष्णुविग्रहाः संति मत्स्यकूर्मादयोखिलाः ॥ 89 ॥
सावित्री विग्रहा ये च ते सर्वे तत्र संति हि ।
वायुकोणे परश्वक्षमालाभयवरान्वितः ॥ 90 ॥
महारुद्रो वर्ततेऽत्र सरस्वत्यपि तादृशी ।
ये ये तु रुद्रभेदाः स्युर्दक्षिणास्यादयो नृप ॥ 91 ॥
गौरी भेदाश्च ये सर्वे ते तत्र निवसंति हि ।
चतुःषष्ट्यागमा ये च ये चान्येप्यागमाः स्मृताः ॥ 92 ॥
ते सर्वे मूर्तिमंतश्च तत्र वै निवसंति हि ।
अग्निकोणे रत्नकुंभं तथा मणिकरंडकम् ॥ 93 ॥
दधानो निजहस्ताभ्यां कुबेरो धनदायकः ।
नाना वीथी समायुक्तो महालक्ष्मीसमन्वितः ॥ 94 ॥
देव्या निधिपतिस्त्वास्ते स्वगुणैः परिवेष्टितः ।
वारुणे तु महाकोणे मदनो रतिसंयुतः ॥ 95 ॥
पाशांकुशधनुर्बाणधरो नित्यं विराजते ।
शृंगारमूर्तिमंतस्तु तत्र सन्निहिताः सदा ॥ 96 ॥
ईशानकोणे विघ्नेशो नित्यं पुष्टिसमन्वितः ।
पाशांकुशधरो वीरो विघ्नहर्ता विराजते ॥ 97 ॥
विभूतयो गणेशस्य यायाः संति नृपोत्तम ।
ताः सर्वा निवसंत्यत्र महैश्वर्यसमन्विताः ॥ 98 ॥
प्रतिब्रह्मांडसंस्थानां ब्रह्मादीनां समष्टयः ।
एते ब्रह्मादयः प्रोक्ताः सेवंते जगदीश्वरीम् ॥ 99 ॥
महामारकतस्याग्रे शतयोजन दैर्घ्यवान् ।
प्रवालशालोस्त्यपरः कुंकुमारुणविग्रहः ॥ 100 ॥
मध्यभूस्तादृशी प्रोक्ता सदनानि च पूर्ववत् ।
तन्मध्ये पंचभूतानां स्वामिन्यः पंच संति च ॥ 101 ॥
हृल्लेखा गगना रक्ता चतुर्थी तु करालिका ।
महोच्छुष्मा पंचमी च पंचभूतसमप्रभाः ॥ 102 ॥
पाशांकुशवराभीतिधारिण्योमितभूषणाः ।
देवी समानवेषाढ्या नवयौवनगर्विताः ॥ 103 ॥
प्रवालशालादग्रे तु नवरत्न विनिर्मितः ।
बहुयोजनविस्तीर्णो महाशालोऽस्ति भूमिप ॥ 104 ॥
तत्र चाम्नायदेवीनां सदनानि बहून्यपि ।
नवरत्नमयान्येव तडागाश्च सरांसि च ॥ 105 ॥
श्रीदेव्या येऽवताराः स्युस्ते तत्र निवसंति हि ।
महाविद्या महाभेदाः संति तत्रैव भूमिप ॥ 106 ॥
निजावरणदेवीभिर्निजभूषणवाहनैः ।
सर्वदेव्यो विराजंते कोटिसूर्यसमप्रभाः ॥ 107 ॥
सप्तकोटि महामंत्रदेवताः संति तत्र हि ।
नवरत्नमयादग्रे चिंतामणिगृहं महत् ॥ 108 ॥
तत्र त्यं वस्तु मात्रं तु चिंतामणि विनिर्मितम् ।
सूर्योद्गारोपलैस्तद्वच्चंद्रोद्गारोपलैस्तथा ॥ 109 ॥
विद्युत्प्रभोपलैः स्तंभाः कल्पितास्तु सहस्रशः ।
येषां प्रभाभिरंतस्थं वस्तु किंचिन्न दृश्यते ॥ 110 ॥
इति श्रीदेवीभागवते महापुराणे द्वादशस्कंधे एकादशोऽध्यायः ।
(श्रीदेवीभागवतं, द्वादश स्कंधं, द्वादशोऽध्यायः, मणिद्वीप वर्णन - 3)
व्यास उवाच –
तदेव देवीसदनं मध्यभागे विराजते ।
सहस्र स्तंभसंयुक्ताश्चत्वारस्तेषु मंडपाः ॥ 1 ॥
शृंगारमंडपश्चैको मुक्तिमंडप एव च ।
ज्ञानमंडप संज्ञस्तु तृतीयः परिकीर्तितः ॥ 2 ॥
एकांतमंडपश्चैव चतुर्थः परिकीर्तितः ।
नाना वितानसंयुक्ता नाना धूपैस्तु धूपिताः ॥ 3 ॥
कोटिसूर्यसमाः कांत्या भ्रांजंते मंडपाः शुभाः ।
तन्मंडपानां परितः काश्मीरवनिका स्मृता ॥ 4 ॥
मल्लिकाकुंदवनिका यत्र पुष्कलकाः स्थिताः ।
असंख्याता मृगमदैः पूरितास्तत्स्रवा नृप ॥ 5 ॥
महापद्माटवी तद्वद्रत्नसोपाननिर्मिता ।
सुधारसेनसंपूर्णा गुंजन्मत्तमधुव्रता ॥ 6 ॥
हंसकारंडवाकीर्णा गंधपूरित दिक्तटा ।
वनिकानां सुगंधैस्तु मणिद्वीपं सुवासितम् ॥ 7 ॥
शृंगारमंडपे देव्यो गायंति विविधैः स्वरैः ।
सभासदो देववशा मध्ये श्रीजगदंबिका ॥ 8 ॥
मुक्तिमंडपमध्ये तु मोचयत्यनिशं शिवा ।
ज्ञानोपदेशं कुरुते तृतीये नृप मंडपे ॥ 9 ॥
चतुर्थमंडपे चैव जगद्रक्षा विचिंतनम् ।
मंत्रिणी सहिता नित्यं करोति जगदंबिका ॥ 10 ॥
चिंतामणिगृहे राजंछक्ति तत्त्वात्मकैः परैः ।
सोपानैर्दशभिर्युक्तो मंचकोप्यधिराजते ॥ 11 ॥
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
एते मंचखुराः प्रोक्ताः फलकस्तु सदाशिवः ॥ 12 ॥
तस्योपरि महादेवो भुवनेशो विराजते ।
या देवी निजलीलार्थं द्विधाभूता बभूवह ॥ 13 ॥
सृष्ट्यादौ तु स एवायं तदर्धांगो महेश्वरः ।
कंदर्प दर्पनाशोद्यत्कोटि कंदर्पसुंदरः ॥ 14 ॥
पंचवक्त्रस्त्रिनेत्रश्च मणिभूषण भूषितः ।
हरिणाभीतिपरशून्वरं च निजबाहुभिः ॥ 15 ॥
दधानः षोडशाब्दोऽसौ देवः सर्वेश्वरो महान् ।
कोटिसूर्य प्रतीकाशश्चंद्रकोटि सुशीतलः ॥ 16 ॥
शुद्धस्फटिक संकाशस्त्रिनेत्रः शीतल द्युतिः ।
वामांके सन्निषण्णाऽस्य देवी श्रीभुवनेश्वरी ॥ 17 ॥
नवरत्नगणाकीर्ण कांचीदाम विराजिता ।
तप्तकांचनसन्नद्ध वैदूर्यांगदभूषणा ॥ 18 ॥
कनच्छ्रीचक्रताटंक विटंक वदनांबुजा ।
ललाटकांति विभव विजितार्धसुधाकरा ॥ 19 ॥
बिंबकांति तिरस्कारिरदच्छद विराजिता ।
लसत्कुंकुमकस्तूरीतिलकोद्भासितानना ॥ 20 ॥
दिव्य चूडामणि स्फार चंचच्चंद्रकसूर्यका ।
उद्यत्कविसमस्वच्छ नासाभरण भासुरा ॥ 21 ॥
चिंताकलंबितस्वच्छ मुक्तागुच्छ विराजिता ।
पाटीर पंक कर्पूर कुंकुमालंकृत स्तनी ॥ 22 ॥
विचित्र विविधा कल्पा कंबुसंकाश कंधरा ।
दाडिमीफलबीजाभ दंतपंक्ति विराजिता ॥ 23 ॥
अनर्घ्य रत्नघटित मुकुटांचित मस्तका ।
मत्तालिमालाविलसदलकाढ्य मुखांबुजा ॥ 24 ॥
कलंककार्श्यनिर्मुक्त शरच्चंद्रनिभानना ।
जाह्नवीसलिलावर्त शोभिनाभिविभूषिता ॥ 25 ॥
माणिक्य शकलाबद्ध मुद्रिकांगुलिभूषिता ।
पुंडरीकदलाकार नयनत्रयसुंदरी ॥ 26 ॥
कल्पिताच्छ महाराग पद्मरागोज्ज्वलप्रभा ।
रत्नकिंकिणिकायुक्त रत्नकंकणशोभिता ॥ 27 ॥
मणिमुक्तासरापार लसत्पदकसंततिः ।
रत्नांगुलिप्रवितत प्रभाजाललसत्करा ॥ 28 ॥
कंचुकीगुंफितापार नाना रत्नततिद्युतिः ।
मल्लिकामोदि धम्मिल्ल मल्लिकालिसरावृता ॥ 29 ॥
सुवृत्तनिबिडोत्तुंग कुचभारालसा शिवा ।
वरपाशांकुशाभीति लसद्बाहु चतुष्टया ॥ 30 ॥
सर्वशृंगारवेषाढ्या सुकुमारांगवल्लरी ।
सौंदर्यधारासर्वस्वा निर्व्याजकरुणामयी ॥ 31 ॥
निजसंलापमाधुर्य विनिर्भर्त्सितकच्छपी ।
कोटिकोटिरवींदूनां कांतिं या बिभ्रती परा ॥ 32 ॥
नाना सखीभिर्दासीभिस्तथा देवांगनादिभिः ।
सर्वाभिर्देवताभिस्तु समंतात्परिवेष्टिता ॥ 33 ॥
इच्छाशक्त्या ज्ञानशक्त्या क्रियाशक्त्या समन्विता ।
लज्जा तुष्टिस्तथा पुष्टिः कीर्तिः कांतिः क्षमा दया ॥ 34 ॥
बुद्धिर्मेधास्मृतिर्लक्ष्मीर्मूर्तिमत्योंगनाः स्मृताः ।
जया च विजया चैवाप्यजिता चापराजिता ॥ 35 ॥
नित्या विलासिनी दोग्ध्री त्वघोरा मंगला नवा ।
पीठशक्तय एतास्तु सेवंते यां परांबिकाम् ॥ 36 ॥
यस्यास्तु पार्श्वभागेस्तोनिधीतौ शंखपद्मकौ ।
नवरत्न वहानद्यस्तथा वै कांचनस्रवाः ॥ 37 ॥
सप्तधातुवहानद्यो निधिभ्यां तु विनिर्गताः ।
सुधासिंध्वंतगामिन्यस्ताः सर्वा नृपसत्तम ॥ 38 ॥
सा देवी भुवनेशानी तद्वामांके विराजते ।
सर्वेश त्वं महेशस्य यत्संगा देव नान्यथा ॥ 39 ॥
चिंतामणि गृहस्याऽस्य प्रमाणं शृणु भूमिप ।
सहस्रयोजनायामं महांतस्तत्प्रचक्षते ॥ 40 ॥
तदुत्तरे महाशालाः पूर्वस्माद् द्विगुणाः स्मृताः ।
अंतरिक्षगतं त्वेतन्निराधारं विराजते ॥ 41 ॥
संकोचश्च विकाशश्च जायतेऽस्य निरंतरम् ।
पटवत्कार्यवशतः प्रलये सर्जने तथा ॥ 42 ॥
शालानां चैव सर्वेषां सर्वकांतिपरावधि ।
चिंतामणिगृहं प्रोक्तं यत्र देवी महोमयी ॥ 43 ॥
येये उपासकाः संति प्रतिब्रह्मांडवर्तिनः ।
देवेषु नागलोकेषु मनुष्येष्वितरेषु च ॥ 44 ॥
श्रीदेव्यास्ते च सर्वेपि व्रजंत्यत्रैव भूमिप ।
देवीक्षेत्रे ये त्यजंति प्राणांदेव्यर्चने रताः ॥ 45 ॥
ते सर्वे यांति तत्रैव यत्र देवी महोत्सवा ।
घृतकुल्या दुग्धकुल्या दधिकुल्या मधुस्रवाः ॥ 46 ॥
स्यंदंति सरितः सर्वास्तथामृतवहाः पराः ।
द्राक्षारसवहाः काश्चिज्जंबूरसवहाः पराः ॥ 47 ॥
आम्रेक्षुरसवाहिन्यो नद्यस्तास्तु सहस्रशः ।
मनोरथफलावृक्षावाप्यः कूपास्तथैव च ॥ 48 ॥
यथेष्टपानफलदान न्यूनं किंचिदस्ति हि ।
न रोगपलितं वापि जरा वापि कदाचन ॥ 49 ॥
न चिंता न च मात्सर्यं कामक्रोधादिकं तथा ।
सर्वे युवानः सस्त्रीकाः सहस्रादित्यवर्चसः ॥ 50 ॥
भजंति सततं देवीं तत्र श्रीभुवनेश्वरीम् ।
केचित्सलोकतापन्नाः केचित्सामीप्यतां गताः ॥ 51 ॥
सरूपतां गताः केचित्सार्ष्टितां च परेगताः ।
यायास्तु देवतास्तत्र प्रतिब्रह्मांडवर्तिनाम् ॥ 52 ॥
समष्टयः स्थितास्तास्तु सेवंते जगदीश्वरीम् ।
सप्तकोटिमहामंत्रा मूर्तिमंत उपासते ॥ 53 ॥
महाविद्याश्च सकलाः साम्यावस्थात्मिकां शिवाम् ।
कारणब्रह्मरूपां तां माया शबलविग्रहाम् ॥ 54 ॥
इत्थं राजन्मया प्रोक्तं मणिद्वीपं महत्तरम् ।
न सूर्यचंद्रौ नो विद्युत्कोटयोग्निस्तथैव च ॥ 55 ॥
एतस्य भासा कोट्यंश कोट्यंशो नापि ते समाः ।
क्वचिद्विद्रुमसंकाशं क्वचिन्मरकतच्छवि ॥ 56 ॥
विद्युद्भानुसमच्छायं मध्यसूर्यसमं क्वचित् ।
विद्युत्कोटिमहाधारा सारकांतिततं क्वचित् ॥ 57 ॥
क्वचित्सिंदूर नीलेंद्रं माणिक्य सदृशच्छवि ।
हीरसार महागर्भ धगद्धगित दिक्तटम् ॥ 58 ॥
कांत्या दावानलसमं तप्तकांचन सन्निभम् ।
क्वचिच्चंद्रोपलोद्गारं सूर्योद्गारं च कुत्र चित् ॥ 59 ॥
रत्नशृंगि समायुक्तं रत्नप्राकार गोपुरम् ।
रत्नपत्रै रत्नफलैर्वृक्षैश्च परिमंडितम् ॥ 60 ॥
नृत्यन्मयूरसंघैश्च कपोतरणितोज्ज्वलम् ।
कोकिलाकाकलीलापैः शुकलापैश्च शोभितम् ॥ 61 ॥
सुरम्य रमणीयांबु लक्षावधि सरोवृतम् ।
तन्मध्यभाग विलसद्विकचद्रत्न पंकजैः ॥ 62 ॥
सुगंधिभिः समंतात्तु वासितं शतयोजनम् ।
मंदमारुत संभिन्न चलद्द्रुम समाकुलम् ॥ 63 ॥
चिंतामणि समूहानां ज्योतिषा विततांबरम् ।
रत्नप्रभाभिरभितो धगद्धगित दिक्तटम् ॥ 64 ॥
वृक्षव्रात महागंधवातव्रात सुपूरितम् ।
धूपधूपायितं राजन्मणिदीपायुतोज्ज्वलम् ॥ 65 ॥
मणिजालक सच्छिद्र तरलोदरकांतिभिः ।
दिङ्मोहजनकं चैतद्दर्पणोदर संयुतम् ॥ 66 ॥
ऐश्वर्यस्य समग्रस्य शृंगारस्याखिलस्य च ।
सर्वज्ञतायाः सर्वायास्तेजसश्चाखिलस्य च ॥ 67 ॥
पराक्रमस्य सर्वस्य सर्वोत्तमगुणस्य च ।
सकला या दयायाश्च समाप्तिरिह भूपते ॥ 68 ॥
राज्ञ आनंदमारभ्य ब्रह्मलोकांत भूमिषु ।
आनंदा ये स्थिताः सर्वे तेऽत्रैवांतर्भवंति हि ॥ 69 ॥
इति ते वर्णितं राजन्मणिद्वीपं महत्तरम् ।
महादेव्याः परंस्थानं सर्वलोकोत्तमोत्तमम् ॥ 70 ॥
एतस्य स्मरणात्सद्यः सर्वपापं विनश्यति ।
प्राणोत्क्रमणसंधौ तु स्मृत्वा तत्रैव गच्छति ॥ 71 ॥
अध्याय पंचकं त्वेतत्पठेन्नित्यं समाहितः ।
भूतप्रेतपिशाचादि बाधा तत्र भवेन्न हि ॥ 72 ॥
नवीन गृह निर्माणे वास्तुयागे तथैव च ।
पठितव्यं प्रयत्नेन कल्याणं तेन जायते ॥ 73 ॥
॥ इति श्रीदेवीभागवते महापुराणे द्वादशस्कंधे द्वादशोध्यायः ॥