हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
आनंद लहरि
भवानि
स्तोतुं
त्वां
प्रभवति
चतुर्भिर्न
वदनैः
प्रजानामीशानस्त्रिपुरमथनः
पंचभिरपि
।
न
षड्भिः
सेनानीर्दशशतमुखैरप्यहिपतिः
तदान्येषां
केषां
कथय
कथमस्मिन्नवसरः
॥
1
॥
घृतक्षीरद्राक्षामधुमधुरिमा
कैरपि
पदैः
विशिष्यानाख्येयो
भवति
रसनामात्र
विषयः
।
तथा
ते
सौंदर्यं
परमशिवदृङ्मात्रविषयः
कथंकारं
ब्रूमः
सकलनिगमागोचरगुणे
॥
2
॥
मुखे
ते
तांबूलं
नयनयुगले
कज्जलकला
ललाटे
काश्मीरं
विलसति
गले
मौक्तिकलता
।
स्फुरत्कांची
शाटी
पृथुकटितटे
हाटकमयी
भजामि
त्वां
गौरीं
नगपतिकिशोरीमविरतम्
॥
3
॥
विराजन्मंदारद्रुमकुसुमहारस्तनतटी
नदद्वीणानादश्रवणविलसत्कुंडलगुणा
नतांगी
मातंगी
रुचिरगतिभंगी
भगवती
सती
शंभोरंभोरुहचटुलचक्षुर्विजयते
॥
4
॥
नवीनार्कभ्राजन्मणिकनकभूषणपरिकरैः
वृतांगी
सारंगीरुचिरनयनांगीकृतशिवा
।
तडित्पीता
पीतांबरललितमंजीरसुभगा
ममापर्णा
पूर्णा
निरवधिसुखैरस्तु
सुमुखी
॥
5
॥
हिमाद्रेः
संभूता
सुललितकरैः
पल्लवयुता
सुपुष्पा
मुक्ताभिर्भ्रमरकलिता
चालकभरैः
।
कृतस्थाणुस्थाना
कुचफलनता
सूक्तिसरसा
रुजां
हंत्री
गंत्री
विलसति
चिदानंदलतिका
॥
6
॥
सपर्णामाकीर्णां
कतिपयगुणैः
सादरमिह
श्रयंत्यन्ये
वल्लीं
मम
तु
मतिरेवं
विलसति
।
अपर्णैका
सेव्या
जगति
सकलैर्यत्परिवृतः
पुराणोऽपि
स्थाणुः
फलति
किल
कैवल्यपदवीम्
॥
7
॥
विधात्री
धर्माणां
त्वमसि
सकलाम्नायजननी
त्वमर्थानां
मूलं
धनदनमनीयांघ्रिकमले
।
त्वमादिः
कामानां
जननि
कृतकंदर्पविजये
सतां
मुक्तेर्बीजं
त्वमसि
परमब्रह्ममहिषी
॥
8
॥
प्रभूता
भक्तिस्ते
यदपि
न
ममालोलमनसः
त्वया
तु
श्रीमत्या
सदयमवलोक्योऽहमधुना
।
पयोदः
पानीयं
दिशति
मधुरं
चातकमुखे
भृशं
शंके
कैर्वा
विधिभिरनुनीता
मम
मतिः
॥
9
॥
कृपापांगालोकं
वितर
तरसा
साधुचरिते
न
ते
युक्तोपेक्षा
मयि
शरणदीक्षामुपगते
।
न
चेदिष्टं
दद्यादनुपदमहो
कल्पलतिका
विशेषः
सामान्यैः
कथमितरवल्लीपरिकरैः
॥
10
॥
महांतं
विश्वासं
तव
चरणपंकेरुहयुगे
निधायान्यन्नैवाश्रितमिह
मया
दैवतमुमे
।
तथापि
त्वच्चेतो
यदि
मयि
न
जायेत
सदयं
निरालंबो
लंबोदरजननि
कं
यामि
शरणम्
॥
11
॥
अयः
स्पर्शे
लग्नं
सपदि
लभते
हेमपदवीं
यथा
रथ्यापाथः
शुचि
भवति
गंगौघमिलितम्
।
तथा
तत्तत्पापैरतिमलिनमंतर्मम
यदि
त्वयि
प्रेम्णासक्तं
कथमिव
न
जायेत
विमलम्
॥
12
॥
त्वदन्यस्मादिच्छाविषयफललाभे
न
नियमः
त्वमर्थानामिच्छाधिकमपि
समर्था
वितरणे
।
इति
प्राहुः
प्रांचः
कमलभवनाद्यास्त्वयि
मनः
त्वदासक्तं
नक्तं
दिवमुचितमीशानि
कुरु
तत्
॥
13
॥
स्फुरन्नानारत्नस्फटिकमयभित्तिप्रतिफल
त्त्वदाकारं
चंचच्छशधरकलासौधशिखरम्
।
मुकुंदब्रह्मेंद्रप्रभृतिपरिवारं
विजयते
तवागारं
रम्यं
त्रिभुवनमहाराजगृहिणि
॥
14
॥
निवासः
कैलासे
विधिशतमखाद्याः
स्तुतिकराः
कुटुंबं
त्रैलोक्यं
कृतकरपुटः
सिद्धिनिकरः
।
महेशः
प्राणेशस्तदवनिधराधीशतनये
न
ते
सौभाग्यस्य
क्वचिदपि
मनागस्ति
तुलना
॥
15
॥
वृषो
वृद्धो
यानं
विषमशनमाशा
निवसनं
श्मशानं
क्रीडाभूर्भुजगनिवहो
भूषणविधिः
समग्रा
सामग्री
जगति
विदितैव
स्मररिपोः
यदेतस्यैश्वर्यं
तव
जननि
सौभाग्यमहिमा
॥
16
॥
अशेषब्रह्मांडप्रलयविधिनैसर्गिकमतिः
श्मशानेष्वासीनः
कृतभसितलेपः
पशुपतिः
।
दधौ
कंठे
हालाहलमखिलभूगोलकृपया
भवत्याः
संगत्याः
फलमिति
च
कल्याणि
कलये
॥
17
॥
त्वदीयं
सौंदर्यं
निरतिशयमालोक्य
परया
भियैवासीद्गंगा
जलमयतनुः
शैलतनये
।
तदेतस्यास्तस्माद्वदनकमलं
वीक्ष्य
कृपया
प्रतिष्ठामातन्वन्निजशिरसिवासेन
गिरिशः
॥
18
॥
विशालश्रीखंडद्रवमृगमदाकीर्णघुसृण
प्रसूनव्यामिश्रं
भगवति
तवाभ्यंगसलिलम्
।
समादाय
स्रष्टा
चलितपदपांसून्निजकरैः
समाधत्ते
सृष्टिं
विबुधपुरपंकेरुहदृशाम्
॥
19
॥
वसंते
सानंदे
कुसुमितलताभिः
परिवृते
स्फुरन्नानापद्मे
सरसि
कलहंसालिसुभगे
।
सखीभिः
खेलंतीं
मलयपवनांदोलितजले
स्मरेद्यस्त्वां
तस्य
ज्वरजनितपीडापसरति
॥
20
॥ ॥
इति
श्रीमच्छंकराचार्यविरचिता
आनंदलहरी
संपूर्णा
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits