हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
शिवानन्द लहरि
कलाभ्यां
चूडालङ्कृत-शशिकलाभ्यां
निजतपः-
-फलाभ्यां
भक्तेषु
प्रकटित-फलाभ्यां
भवतु
मे
।
शिवाभ्या-मस्तोक-त्रिभुवन-शिवाभ्यां
हृदि
पुन-
-र्भवाभ्या-मानन्द-स्फुरदनुभवाभ्यां
नतिरियम्
॥
1
॥
गलन्ती
शम्भो
त्वच्चरित-सरितः
किल्बिषरजो
दलन्ती
धीकुल्या-सरणिषु
पतन्ती
विजयताम्
।
दिशन्ती
संसार-भ्रमण-परितापोपशमनं
वसन्ती
मच्चेतोह्रदभुवि
शिवानन्दलहरी
॥
2
॥
त्रयीवेद्यं
हृद्यं
त्रिपुर-हरमाद्यं
त्रिनयनं
जटाभारोदारं
चलदुरगहारं
मृगधरम्
।
महादेवं
देवं
मयि
सदयभावं
पशुपतिं
चिदालम्बं
साम्बं
शिवमति-विडम्बं
हृदि
भजे
॥
3
॥
सहस्रं
वर्तन्ते
जगति
विबुधाः
क्षुद्रफलदा
न
मन्ये
स्वप्ने
वा
तदनुसरणं
तत्कृतफलम्
।
हरि-ब्रह्मादीना-मपि
निकट-भाजामसुलभं
चिरं
याचे
शम्भो
शिव
तव
पदाम्भोज-भजनम्
॥
4
॥
स्मृतौ
शास्त्रे
वैद्ये
शकुन-कविता-गानफणितौ
पुराणे
मन्त्रे
वा
स्तुति-नटन-हास्येष्वचतुरः
।
कथं
राज्ञां
प्रीतिर्भवति
मयि
कोऽहं
पशुपते
पशुं
मां
सर्वज्ञ
प्रथित
कृपया
पालय
विभो
॥
5
॥
घटो
वा
मृत्पिण्डो-ऽप्यणुरपि
च
धूमोऽग्निरचलः
पटो
वा
तन्तुर्वा
परिहरति
किं
घोरशमनम्
।
वृथा
कण्ठक्षोभं
वहसि
तरसा
तर्कवचसा
पदाम्भोजं
शम्भोर्भज
परमसौख्यं
व्रज
सुधीः
॥
6
॥
मनस्ते
पादाब्जे
निवसतु
वचः
स्तोत्रफणितौ
करौ
चाभ्यर्चायां
श्रुतिरपि
कथा
कर्णनविधौ
।
तव
ध्याने
बुद्धिर्नयनयुगलं
मूर्तिविभवे
[बुद्धिः
नयनयुगलं]
पर-ग्रन्थान्कैर्वा
परमशिव
जाने
परमतः
॥
7
॥
यथा
बुद्धिः
शुक्तौ
रजतमिति
काचाश्मनि
मणि-
[मणिः
जले]
-र्जले
पैष्टे
क्षीरं
भवति
मृगतृष्णा-सु
सलिलम्
।
तथा
देवभ्रान्त्या
भजति
भवदन्यं
जडजनो
महादेवेशं
त्वां
मनसि
च
न
मत्वा
पशुपते
॥
8
॥
गभीरे
कासारे
विशति
विजने
घोरविपिने
विशाले
शैले
च
भ्रमति
कुसुमार्थं
जडमतिः
।
समर्प्यैकं
चेतः
सरसिजमु-मानाथ
भवते
सुखे-नावस्थातुं
जन
इह
न
जानाति
किमहो
॥
9
॥
नरत्वं
देवत्वं
नगवन-मृगत्वं
मशकता
पशुत्वं
कीटत्वं
भवतु
विहगत्वादि
जननम्
।
सदा
त्वत्पादाब्ज-स्मरण-परमानन्दलहरी-
-विहारासक्तं
चेद्धृदयमिह
किं
तेन
वपुषा
॥
10
॥
वटुर्वा
गेही
वा
यतिरपि
जटी
वा
तदितरो
नरो
वा
यः
कश्चिद्भवतु
भव
किं
तेन
भवति
।
यदीयं
हृत्पद्मं
यदि
भवदधीनं
पशुपते
तदीयस्त्वं
शम्भो
भवसि
भवभारं
च
वहसि
॥
11
॥
गुहायां
गेहे
वा
बहिरपि
वने
वाऽद्रिशिखरे
जले
वा
वह्नौ
वा
वसतु
वसतेः
किं
वद
फलम्
।
सदा
यस्यैवान्तः-करणमपि
शम्भो
तव
पदे
स्थितं
चेद्योगोऽसौ
स
च
परमयोगी
स
च
सुखी
॥
12
॥
असारे
संसारे
निज-भजनदूरे
जडधिया
भ्रमन्तं
मामन्धं
परमकृपया
पातुमुचितम्
।
मदन्यः
को
दीनस्तव
कृपण-रक्षातिनिपुण-
[रक्षातिनिपुणः
त्वदन्यः]
-स्त्वदन्यः
को
वा
मे
त्रिजगति
शरण्यः
पशुपते
॥
13
॥
प्रभुस्त्वं
दीनानां
खलु
परमबन्धुः
पशुपते
प्रमुख्योऽहं
तेषामपि
किमुत
बन्धुत्वमनयोः
।
त्वयैव
क्षन्तव्याः
शिव
मदपराधाश्च
सकलाः
प्रयत्ना-त्कर्तव्यं
मदवनमियं
बन्धुसरणिः
॥
14
॥
उपेक्षा
नो
चेत्किं
न
हरसि
भवद्ध्यान-विमुखां
दुराशा-भूयिष्ठां
विधिलिपि-मशक्तो
यदि
भवान्
।
शिरस्तद्वैधात्रं
ननखलु
सुवृत्तं
पशुपते
कथं
वा
निर्यत्नं
करनख-मुखेनैव
लुलितम्
॥
15
॥
विरिञ्चि-र्दीर्घायु-र्भवतु
भवता
तत्परशिर-
[तत्परशिरः
चतुष्कं]
-श्चतुष्कं
संरक्ष्यं
स
खलु
भुवि
दैन्यं
लिखितवान्
।
विचारः
को
वा
मां
विशद
कृपया
पाति
शिव
ते
कटाक्षव्यापारः
स्वयमपि
च
दीनावनपरः
॥
16
॥
फलाद्वा
पुण्यानां
मयि
करुणया
वा
त्वयि
विभो
प्रसन्नेऽपि
स्वामिन्
भवदमल-पादाब्ज-युगलम्
।
कथं
पश्येयं
मां
स्थगयति
नमः
सम्भ्रमजुषां
निलिम्पानां
श्रेणि-र्निज-कनक-माणिक्य-मकुटैः
॥
17
॥
त्वमेको
लोकानां
परमफलदो
दिव्यपदवीं
वहन्तस्त्वन्मूलां
पुनरपि
भजन्ते
हरिमुखाः
।
कियद्वा
दाक्षिण्यं
तव
शिव
मदाशा
च
कियती
कदा
वा
मद्रक्षां
वहसि
करुणा-पूरितदृशा
॥
18
॥
दुराशा-भूयिष्ठे
दुरधिप-गृहद्वार-घटके
दुरन्ते
संसारे
दुरितनिलये
दुःखजनके
।
मदायासं
किं
न
व्यपनयसि
कस्योप-कृतये
वदेयं
प्रीतिश्चेत्तव
शिव
कृतार्थाः
खलु
वयम्
॥
19
॥
सदा
मोहाटव्यां
चरति
युवतीनां
कुचगिरौ
नटत्याशा-शाखा-स्वटति
झटिति
स्वैरमभितः
।
कपालिन्
भिक्षो
मे
हृदय-कपिमत्यन्त-चपलं
दृढं
भक्त्या
बद्ध्वा
शिव
भवदधीनं
कुरु
विभो
॥
20
॥
धृति-स्तम्भाधारां
दृढ-गुण-निबद्धां
सगमनां
विचित्रां
पद्माढ्यां
प्रतिदिवस-सन्मार्ग-घटिताम्
।
स्मरारे
मच्चेतः-स्फुट-पटकुटीं
प्राप्य
विशदां
जय
स्वामिन्
शक्त्या
सह
शिव
गणैः
सेवित
विभो
॥
21
॥
प्रलोभाद्यैरर्थाहरण-परतन्त्रो
धनिगृहे
[प्रलोभाद्यैः
अर्थाहरण-परतन्त्रो]
प्रवेशोद्युक्तः
सन्
भ्रमति
बहुधा
तस्करपते
।
इमं
चेतश्चोरं
कथमिह
सहे
शङ्कर
विभो
तवाधीनं
कृत्वा
मयि
निरपराधे
कुरु
कृपाम्
॥
22
॥
करोमि
त्वत्पूजां
सपदि
सुखदो
मे
भव
विभो
विधित्वं
विष्णुत्वं
दिशसि
खलु
तस्याः
फलमिति
।
पुनश्च
त्वां
द्रष्टुं
दिवि
भुवि
वहन्पक्षि-मृगता-
-मदृष्ट्वा
तत्खेदं
कथमिह
सहे
शङ्कर
विभो
॥
23
॥
कदा
वा
कैलासे
कनकमणिसौधे
सह
गणै-
[सह
गणैः
वसन्]
-र्वसन्
शम्भोरग्रे
स्फुट-घटित-मूर्धाञ्जलिपुटः
।
विभो
साम्ब
स्वामि-न्परमशिव
पाहीति
निगद-
-न्विधातॄणां
कल्पान्
क्षणमिव
विनेष्यामि
सुखतः
॥
24
॥
स्तवै-र्ब्रह्मादीनां
जयजय-वचोभिर्नियमिनां
गणानां
केलीभिर्मदकलमहोक्षस्य
ककुदि
।
[केलीभिः
मदकल-महोक्षस्य]
स्थितं
नीलग्रीवं
त्रिनयन-मुमाश्लिष्ट-वपुषं
कदा
त्वां
पश्येयं
करधृत-मृगं
खण्ड-परशुम्
॥
25
॥
कदा
वा
त्वां
दृष्ट्वा
गिरिश
तव
भव्याङ्घ्रि
युगलं
गृहीत्वा
हस्ताभ्यां
शिरसि
नयने
वक्षसि
वहन्
।
समा
श्लिष्या
घ्राय
स्फुट
जलज
गन्धान्
परिमला-
-नलाभ्यां
ब्रह्माद्यैर्मुदमनुभविष्यामि
हृदये
॥
26
॥
[ब्रह्माद्यैः
मुद-मनुभविष्यामि]
करस्थे
हेमाद्रौ
गिरिश
निकटस्थे
धनपतौ
गृहस्थे
स्वर्भूजा
मर
सुरभि
चिन्तामणिगणे
।
शिरःस्थे
शीतांशौ
चरणयुगलस्थेऽखिलशुभे
कमर्थं
दास्येऽहं
भवतु
भवदर्थं
मम
मनः
॥
27
॥
सारूप्यं
तव
पूजने
शिव
महादेवेति
सङ्कीर्तने
सामीप्यं
शिवभक्ति-धुर्यजनता-साङ्गत्य-सम्भाषणे
॥
सालोक्यं
च
चराचरात्मकतनुध्याने
भवानीपते
सायुज्यं
मम
सिद्धमत्र
भवति
स्वामिन्
कृतार्थोऽस्म्यहम्
॥
28
॥
त्वत्पादाम्बुजमर्चयामि
परमं
त्वां
चिन्तयाम्यन्वहं
त्वामीशं
शरणं
व्रजामि
वचसा
त्वामेव
याचे
विभो
।
वीक्षां
मे
दिश
चाक्षुषीं
सकरुणां
दिव्यैश्चिरं
प्रार्थितां
शम्भो
लोकगुरो
मदीयमनसः
सौख्योपदेशं
कुरु
॥
29
॥
वस्त्रोद्धूतविधौ
सहस्रकरता
पुष्पार्चने
विष्णुता
गन्धे
गन्धवहात्मताऽन्नपचने
बर्हिर्मुखाध्यक्षता
।
पात्रे
काञ्चनगर्भतास्ति
मयि
चेद्बालेन्दुचूडामणे
शुश्रूषां
करवाणि
ते
पशुपते
स्वामिंस्त्रिलोकीगुरो
॥
30
॥
नालं
वा
परमोपकारकमिदं
त्वेकं
पशूनां
पते
पश्यन्
कुक्षिगतांश्चराचरगणान्
बाह्यस्थितान्
रक्षितुम्
।
सर्वामर्त्यपलायनौषधमतिज्वालाकरं
भीकरं
निक्षिप्तं
गरलं
गले
न
गिलितं
नोद्गीर्णमेव
त्वया
॥
31
॥
ज्वालोग्रः
सकलामरातिभयदः
क्ष्वेलः
कथं
वा
त्वया
दृष्टः
किं
च
करे
धृतः
करतले
किं
पक्वजम्बूफलम्
।
जिह्वायां
निहितश्च
सिद्धघुटिका
वा
कण्ठदेशे
भृतः
किं
ते
नीलमणिर्विभूषणमयं
शम्भो
महात्मन्
वद
॥
32
॥
नालं
वा
सकृदेव
देव
भवतः
सेवा
नतिर्वा
नुतिः
पूजा
वा
स्मरणं
कथाश्रवणमप्यालोकनं
मादृशाम्
।
स्वामिन्नस्थिरदेवतानुसरणायासेन
किं
लभ्यते
का
वा
मुक्तिरितः
कुतो
भवति
चेत्किं
प्रार्थनीयं
तदा
॥
33
॥
किं
ब्रूमस्तव
साहसं
पशुपते
कस्यास्ति
शम्भो
भव-
-द्धैर्यं
चेदृशमात्मनः
स्थितिरियं
चान्यैः
कथं
लभ्यते
।
भ्रश्यद्देवगणं
त्रसन्मुनिगणं
नश्यत्प्रपञ्चं
लयं
पश्यन्निर्भय
एक
एव
विहरत्यानन्दसान्द्रो
भवान्
॥
34
॥
योगक्षेमधुरन्धरस्य
सकलश्रेयःप्रदोद्योगिनो
दृष्टादृष्टमतोपदेशकृतिनो
बाह्यान्तरव्यापिनः
।
सर्वज्ञस्य
दयाकरस्य
भवतः
किं
वेदितव्यं
मया
शम्भो
त्वं
परमान्तरङ्ग
इति
मे
चित्ते
स्मराम्यन्वहम्
॥
35
॥
भक्तो
भक्तिगुणावृते
मुदमृतापूर्णे
प्रसन्ने
मनः
कुम्भे
साम्ब
तवाङ्घ्रिपल्लवयुगं
संस्थाप्य
संवित्फलम्
।
सत्वं
मन्त्रमुदीरयन्निजशरीरागारशुद्धिं
वहन्
पुण्याहं
प्रकटीकरोमि
रुचिरं
कल्याणमापादयन्
॥
36
॥
आम्नायाम्बुधिमादरेण
सुमनःसङ्घाः
समुद्यन्मनो
[समुद्यन्मनः]
मन्थानं
दृढभक्तिरज्जुसहितं
कृत्वा
मथित्वा
ततः
।
सोमं
कल्पतरुं
सुपर्वसुरभिं
चिन्तामणिं
धीमतां
नित्यानन्दसुधां
निरन्तररमासौभाग्यमातन्वते
॥
37
॥
प्राक्पुण्याचलमार्गदर्शितसुधामूर्तिः
प्रसन्नः
शिवः
सोमः
सद्गणसेवितो
मृगधरः
पूर्णस्तमोमोचकः
।
चेतः
पुष्करलक्षितो
भवति
चेदानन्दपाथोनिधिः
प्रागल्भ्येन
विजृम्भते
सुमनसां
वृत्तिस्तदा
जायते
॥
38
॥
धर्मो
मे
चतुरङ्घ्रिकः
सुचरितः
पापं
विनाशं
गतं
कामक्रोधमदादयो
विगलिताः
कालाः
सुखाविष्कृताः
।
ज्ञानानन्दमहौषधिः
सुफलिता
कैवल्यनाथे
सदा
मान्ये
मानसपुण्डरीकनगरे
राजावतंसे
स्थिते
॥
39
॥
धीयन्त्रेण
वचोघटेन
कविताकुल्योपकुल्याक्रमै-
[कविताकुल्योपकुल्याक्रमैः]
-रानीतैश्च
सदाशिवस्य
चरिताम्भोराशिदिव्यामृतैः
।
हृत्केदारयुताश्च
भक्तिकलमाः
साफल्यमातन्वते
दुर्भिक्षान्मम
सेवकस्य
भगवन्विश्वेश
भीतिः
कुतः
॥
40
॥
पापोत्पातविमोचनाय
रुचिरैश्वर्याय
मृत्युञ्जय
स्तोत्रध्याननतिप्रदक्षिणसपर्यालोकनाकर्णने
।
जिह्वाचित्तशिरोङ्घ्रिहस्तनयनश्रोत्रैरहं
प्रार्थितो
मामाज्ञापय
तन्निरूपय
मुहुर्मामेव
मा
मेऽवचः
॥
41
॥
गाम्भीर्यं
परिखापदं
घनधृतिः
प्राकार
उद्यद्गुण-
[उद्यद्गुणस्तॊमः]
-स्तोमश्चाप्तबलं
घनेन्द्रियचयो
द्वाराणि
देहे
स्थितः
।
विद्या
वस्तुसमृद्धिरित्यखिलसामग्रीसमेते
सदा
दुर्गातिप्रियदेव
मामकमनोदुर्गे
निवासं
कुरु
॥
42
॥
मा
गच्छ
त्वमितस्ततो
गिरिश
भो
मय्येव
वासं
कुरु
स्वामिन्नादिकिरात
मामकमनःकान्तारसीमान्तरे
।
वर्तन्ते
बहुशो
मृगा
मदजुषो
मात्सर्यमोहादय-
[
मात्सर्यमोहादयः]
-स्तान्हत्वा
मृगयाविनोदरुचिता
लाभं
च
सम्प्राप्स्यसि
॥
43
॥
करलग्नमृगः
करीन्द्रभङ्गो
घनशार्दूलविखण्डनोऽस्तजन्तुः
।
गिरिशो
विशदाकृतिश्च
चेतः-
-कुहरे
पञ्चमुखोऽस्ति
मे
कुतो
भीः
॥
44
॥
छन्दः
शाखिशिखान्वितैर्
[शाखिशिखान्वितैरः]
द्विजवरैः
संसेविते
शाश्वते
सौख्यापादिनि
खेदभेदिनि
सुधासारैः
फलैर्दीपिते
।
चेतःपक्षिशिखामणे
त्यज
वृथा
अञ्चारमन्यैरलं
नित्यं
शङ्कर
पादपद्मयुगलीनीडे
विहारं
कुरु
॥
45
॥
आकीर्णे
नखराजिकान्तिविभवै
[नखराजिकान्तिविभवैः]
रुद्यत्सुधावैभवै-[रुद्यत्सुधावैभवैः]
-राधौतेऽपि
च
पद्मरागललिते
हंसव्रजैराश्रिते
।
नित्यं
भक्तिवधूगणैश्च
रहसि
स्वेच्छाविहारं
कुरु
स्थित्वा
मानसराजहंस
गिरिजानाथाङ्घ्रिसौधान्तरे
॥
46
॥
शम्भुध्यान
वसन्तसङ्गिनि
हृदारामेऽघजीर्णच्छदाः
स्रस्ता
भक्तिलताच्छटा
विलसिताः
पुण्यप्रवालश्रिताः
।
दीप्यन्ते
गुणकोरका
जपवचःपुष्पाणि
सद्वासना
ज्ञानानन्द
सुधामरन्दलहरी
संवित्फलाभ्युन्नतिः
॥
47
॥
नित्यानन्दरसालयं
सुरमुनिस्वान्ताम्बुजाताश्रयं
स्वच्छं
सद्द्विजसेवितं
कलुषहृत्सद्वासना
विष्कृतम्
।
शम्भुध्यान
सरोवरं
व्रज
मनोहं
सावतंस
स्थिरं
किं
क्षुद्रा
श्रयपल्वल
भ्रमण
सञ्जातश्रमं
प्राप्स्यसि
॥
48
॥
आनन्दामृत
पूरिता
हरपदां
भोजा
लवालोद्यता
स्थैर्योपघ्नमुपेत्य
भक्तिलतिका
शाखोप
शाखान्विता
।
उच्छैर्
मानस
कायमान
पटलीमाक्रम्य
निष्कल्मषा
नित्याभीष्ट
फलप्रदा
भवतु
मे
सत्कर्म
संवर्धिता
॥
49
॥
सन्ध्या
रम्भ
विजृम्भितं
श्रुतिशिरः
स्थानान्तराधि
ष्ठितं
सप्रेम
भ्रमराभिरामं
असकृत्
सद्वासना
शोभितम्
।
भोगीन्द्रा
भरणं
समस्तसुमनः
पूज्यं
गुणाविष्कृतं
सेवे
श्रीगिरि
मल्लिकार्जुन
महालिङ्गं
शिवालिङ्गितम्
॥
50
॥
भृङ्गीच्छा
नटनोत्कटः
करमदग्राही
स्फुरन्
माधवा-
[स्फुरन्
माधवाव्ह्लादो]
-ह्लादो
नादयुतो
महासितवपुः
पञ्चेषुणा
चादृतः
।
सत्पक्षः
सुमनो
वनेषु
स
पुनः
साक्षान्मदीये
मनो-
-राजीवे
भ्रमराधिपो
विहरतां
श्रीशैलवासी
विभुः
॥
51
॥
कारुण्यामृत
वर्षिणं
घनविपद्ग्रीष्मच्
छिदाकर्मठं
विद्यासस्य
फलोदयाय
सुमनः
संसेव्य
मिच्छाकृतिम्
।
नृत्यद्
भक्त
मयूरमद्रि
निलयं
चञ्चज्जटामण्डलं
शम्भो
वाञ्छति
नीलकन्धर
सदा
त्वां
मे
मनश्चातकः
॥
52
॥
आकाशेन
शिखी
समस्तफणिनां
नेत्रा
कलापी
नता-[नतानुग्राहि]
-नुग्राहि
प्रणवोपदे
शनिनदैः
केकीति
यो
गीयते
।
श्यामां
शैलसमुद्भवां
घनरुचिं
दृष्ट्वा
नटन्तं
मुदा
वेदान्तोपवने
विहाररसिकं
तं
नीलकण्ठं
भजे
॥
53
॥
सन्ध्या
घर्मदिनात्ययो
हरिकराघात
प्रभूतानक-
[प्रभूतानकध्वानो
]
-ध्वानो
वारिदगर्जितं
दिविषदां
दृष्टिच्छटा
चञ्चला
।
भक्तानां
परितोषबाष्प
विततिर्
वृष्टिर्
मयूरी
शिवा
यस्मिन्नुज्ज्वल
ताण्डवं
विजयते
तं
नीलकण्ठं
भजे
॥
54
॥
आद्यायामित
तेजसे
श्रुतिपदैर्वेद्याय
साध्याय
ते
विद्यानन्दमयात्मने
त्रिजगतः
संरक्षणोद्योगिने
।
ध्येयायाखिलयोगिभिः
सुरगणैर्गेयाय
मायाविने
सम्यक्ताण्डव
सम्भ्रमाय
जटिने
सेयं
नतिः
शम्भवे
॥
55
॥
नित्याय
त्रिगुणात्मने
पुरजिते
कात्यायनी
श्रेयसे
सत्यायादि
कुटुम्बिने
मुनिमनः
प्रत्यक्ष
चिन्मूर्तये
।
मायासृष्ट
जगत्त्रयाय
सकलाम्नायान्तसञ्चारिणे
सायं
ताण्डव
सम्भ्रमाय
जटिने
सेयं
नतिः
शम्भवे
॥
56
॥
नित्यं
स्वोदरपोषणाय
सकलानुद्दिश्य
वित्ताशया
व्यर्थं
पर्यटनं
करोमि
भवतः
सेवां
न
जाने
विभो
।
मज्जन्मान्तर
पुण्य
पाक
बलतस्त्वं
शर्व
सर्वान्तर-
[सर्वान्तरः]
-स्तिष्ठस्येव
हि
तेन
वा
पशुपते
ते
रक्षणीयोऽस्म्यहम्
॥
57
॥
एको
वारिज
बान्धवः
क्षितिनभो
व्याप्तं
तमो
मण्डलं
भित्त्वा
लोचन
गोचरोऽपि
भवति
त्वं
कोटि
सूर्यप्रभः
।
वेद्यः
किं
न
भवस्यहो
घनतरं
कीदृग्भवेन्मत्तम-
[कीदृग्भवेन्मत्तमः]
-स्तत्सर्वं
[तत्सर्वं]
व्यपनीय
मे
पशुपते
साक्षात्प्रसन्नो
भव
॥
58
॥
हंसः
पद्मवनं
समिच्छति
यथा
नीलाम्बुदं
चातकः
कोकः
कोकनदप्रियं
प्रतिदिनं
चन्द्रं
चकोरस्तथा
।
चेतो
वाञ्छति
मामकं
पशुपते
चिन्मार्गमृग्यं
विभो
गौरीनाथ
भवत्पदाब्ज
युगलं
कैवल्य
सौख्यप्रदम्
॥
59
॥
रोधस्तोयहृतः
श्रमेण
पथिकश्छायां
तरोर्वृष्टितो
[तरोर्वृष्टितः]
भीतः
स्वस्थगृहं
गृहस्थमतिथिर्
दीनः
प्रभुं
धार्मिकम्
।
दीपं
सन्तमसाकुलश्च
शिखिनं
शीता
वृतस्त्वं
तथा
चेतः
सर्वभयापहं
व्रज
सुखं
शम्भोः
पदाम्भोरुहम्
॥
60
॥
अङ्कोलं
निज-बीज-सन्ततिरयस्कान्तोपलं
[सन्ततिः
अयस्कान्तोपलं]
सूचिका
साध्वी
नैजविभुं
लता
क्षितिरुहं
सिन्धुः
सरिद्
वल्लभम्
।
प्राप्नोतीह
यथा
तथा
पशुपतेः
पादारविन्द
द्वयं
चेतोवृत्ति
रुपेत्य
तिष्ठति
सदा
सा
भक्ति
रित्युच्यते
॥
61
॥
आनन्दाश्रुभिरातनोति
पुलकं
नैर्मल्यतश्छादनं
वाचा-शङ्खमुखे
स्थितैश्च
जठरापूर्तिं
चरित्रामृतैः
।
रुद्राक्षैर्
हसितेन
देव
वपुषो
रक्षां
भवद्भावना-
-पर्यङ्के
विनिवेश्य
भक्तिजननी
भक्तार्भकं
रक्षति
॥
62
॥
मार्गावर्तितपादुका
पशुपतेरङ्गस्य
कूर्चायते
गण्डूषाम्बुनिषेचनं
पुररिपोर्दिव्याभिषेकायते
।
किञ्चि-द्भक्षित-मांस-शेषकबलं
नव्योपहारायते
भक्तिः
किं
न
करोत्यहो
वनचरो
भक्तावतंसायते
॥
63
॥
वक्षस्ताडनमन्तकस्य
कठिनापस्मारसम्मर्दनं
भूभृत्पर्यटनं
नमत्सुरशिरःकोटीरसङ्घर्षणम्
।
कर्मेदं
मृदुलस्य
तावकपदद्वन्द्वस्य
किं
वोचितं
मच्चेतोमणिपादुकाविहरणं
शम्भो
सदाङ्गीकुरु
॥
64
॥
वक्षस्ताडनशङ्कया
विचलितो
वैवस्वतो
निर्जराः
कोटीरोज्ज्वलरत्नदीपकलिकानीराजनं
कुर्वते
।
दृष्ट्वा
मुक्तिवधूस्तनोति
निभृताश्लेषं
भवानीपते
यच्चेतस्तव
पादपद्मभजनं
तस्येह
किं
दुर्लभम्
॥
65
॥
क्रीडार्थं
सृजसि
प्रपञ्चमखिलं
क्रीडामृगास्ते
जनाः
यत्कर्माचरितं
मया
च
भवतः
प्रीत्यै
भवत्येव
तत्
।
शम्भो
स्वस्य
कुतूहलस्य
करणं
मच्चेष्टितं
निश्चितं
तस्मान्मामकरक्षणं
पशुपते
कर्तव्यमेव
त्वया
॥
66
॥
बहुविधपरितोषबाष्पपूर-
-स्फुटपुलकाङ्कितचारुभोगभूमिम्
।
चिरपदफलकाङ्क्षिसेव्यमानां
परमसदाशिवभावनां
प्रपद्ये
॥
67
॥
अमितमुदमृतं
मुहुर्दुहन्तीं
विमलभवत्पदगोष्ठमावसन्तीम्
।
सदय
पशुपते
सुपुण्यपाकां
मम
परिपालय
भक्तिधेनुमेकाम्
॥
68
॥
जडता
पशुता
कलङ्किता
कुटिलचरत्वं
च
नास्ति
मयि
देव
।
अस्ति
यदि
राजमौले
भवदाभरणस्य
नास्मि
किं
पात्रम्
॥
69
॥
अरहसि
रहसि
स्वतन्त्रबुद्ध्या
वरिवसितुं
सुलभः
प्रसन्नमूर्तिः
।
अगणितफलदायकः
प्रभुर्मे
जगदधिको
हृदि
राजशेखरोऽस्ति
॥
70
॥
आरूढभक्तिगुणकुञ्चितभावचाप-
-युक्तैः
शिवस्मरणबाणगणैरमोघैः
।
निर्जित्य
किल्बिषरिपून्विजयी
सुधीन्द्रः
सानन्दमावहति
सुस्थिरराजलक्ष्मीम्
॥
71
॥
ध्यानाञ्जनेन
समवेक्ष्य
तमःप्रदेशं
भित्त्वा
महाबलिभिरीश्वरनाममन्त्रैः
।
दिव्याश्रितं
भुजगभूषणमुद्वहन्ति
ये
पादपद्ममिह
ते
शिव
ते
कृतार्थाः
॥
72
॥
भूदारतामुदवहद्यदपेक्षया
श्री-
-भूदार
एव
किमतः
सुमते
लभस्व
।
केदारमाकलितमुक्तिमहौषधीनां
पादारविन्दभजनं
परमेश्वरस्य
॥
73
॥
आशापाशक्लेशदुर्वासनादि-
-भेदोद्युक्तैर्दिव्यगन्धैरमन्दैः
।
आशाशाटीकस्य
पादारविन्दं
चेतःपेटीं
वासितां
मे
तनोतु
॥
74
॥
कल्याणिनं
सरसचित्रगतिं
सवेगं
सर्वेङ्गितज्ञमनघं
ध्रुवलक्षणाढ्यम्
।
चेतस्तुरङ्गमधिरुह्य
चर
स्मरारे
नेतः
समस्तजगतां
वृषभाधिरूढ
॥
75
॥
भक्तिर्महेशपदपुष्करमावसन्ती
कादम्बिनीव
कुरुते
परितोषवर्षम्
।
सम्पूरितो
भवति
यस्य
मनस्तटाक-
-स्तज्जन्मसस्यमखिलं
सफलं
च
नान्यत्
॥
76
॥
बुद्धिः
स्थिरा
भवितुमीश्वरपादपद्म-
-सक्ता
वधूर्विरहिणीव
सदा
स्मरन्ती
।
सद्भावनास्मरणदर्शनकीर्तनादि
सम्मोहितेव
शिवमन्त्रजपेन
विन्ते
॥
77
॥
सदुपचारविधिष्वनुबोधितां
सविनयां
सुहृदं
समुपाश्रिताम्
।
मम
समुद्धर
बुद्धिमिमां
प्रभो
वरगुणेन
नवोढवधूमिव
॥
78
॥
नित्यं
योगिमनः
सरोजदलसञ्चारक्षमस्त्वत्क्रमः
शम्भो
तेन
कथं
कठोरयमराड्वक्षःकवाटक्षतिः
।
अत्यन्तं
मृदुलं
त्वदङ्घ्रियुगलं
हा
मे
मनश्चिन्तय-
-त्येतल्लोचनगोचरं
कुरु
विभो
हस्तेन
संवाहये
॥
79
॥
एष्यत्येष
जनिं
मनोऽस्य
कठिनं
तस्मिन्नटानीति
म-
-द्रक्षायै
गिरिसीम्नि
कोमलपदन्यासः
पुराभ्यासितः
।
नो
चेद्दिव्यगृहान्तरेषु
सुमनस्तल्पेषु
वेद्यादिषु
प्रायः
सत्सु
शिलातलेषु
नटनं
शम्भो
किमर्थं
तव
॥
80
॥
कञ्चित्कालमुमामहेश
भवतः
पादारविन्दार्चनैः
कञ्चिद्ध्यानसमाधिभिश्च
नतिभिः
कञ्चित्कथाकर्णनैः
।
कञ्चित्कञ्चिदवेक्षणैश्च
नुतिभिः
कञ्चिद्दशामीदृशीं
यः
प्राप्नोति
मुदा
त्वदर्पितमना
जीवन्
स
मुक्तः
खलु
॥
81
॥
बाणत्वं
वृषभत्वमर्धवपुषा
भार्यात्वमार्यापते
घोणित्वं
सखिता
मृदङ्गवहता
चेत्यादि
रूपं
दधौ
।
त्वत्पादे
नयनार्पणं
च
कृतवांस्त्वद्देहभागो
हरिः
पूज्यात्पूज्यतरः
स
एव
हि
न
चेत्को
वा
तदन्योऽधिकः
॥
82
॥
जननमृतियुतानां
सेवया
देवतानां
न
भवति
सुखलेशः
संशयो
नास्ति
तत्र
।
अजनिममृतरूपं
साम्बमीशं
भजन्ते
य
इह
परमसौख्यं
ते
हि
धन्या
लभन्ते
॥
83
॥
शिव
तव
परिचर्यासन्निधानाय
गौर्या
भव
मम
गुणधुर्यां
बुद्धिकन्यां
प्रदास्ये
।
सकलभुवनबन्धो
सच्चिदानन्दसिन्धो
सदय
हृदयगेहे
सर्वदा
संवस
त्वम्
॥
84
॥
जलधिमथनदक्षो
नैव
पातालभेदी
न
च
वनमृगयायां
नैव
लुब्धः
प्रवीणः
।
अशनकुसुमभूषावस्त्रमुख्यां
सपर्यां
कथय
कथमहं
ते
कल्पयानीन्दुमौले
॥
85
॥
पूजाद्रव्यसमृद्धयो
विरचिताः
पूजां
कथं
कुर्महे
पक्षित्वं
न
च
वा
किटित्वमपि
न
प्राप्तं
मया
दुर्लभम्
।
जाने
मस्तकमङ्घ्रिपल्लवमुमाजाने
न
तेऽहं
विभो
न
ज्ञातं
हि
पितामहेन
हरिणा
तत्त्वेन
तद्रूपिणा
॥
86
॥
अशनं
गरलं
फणी
कलापो
वसनं
चर्म
च
वाहनं
महोक्षः
।
मम
दास्यसि
किं
किमस्ति
शम्भो
तव
पादाम्बुजभक्तिमेव
देहि
॥
87
॥
यदा
कृताम्भोनिधिसेतुबन्धनः
करस्थलाधःकृतपर्वताधिपः
।
भवानि
ते
लङ्घितपद्मसम्भव-
-स्तदा
शिवार्चास्तवभावनक्षमः
॥
88
॥
नतिभिर्नुतिभिस्त्वमीश
पूजा-
-विधिभिर्ध्यानसमाधिभिर्न
तुष्टः
।
धनुषा
मुसलेन
चाश्मभिर्वा
वद
ते
प्रीतिकरं
तथा
करोमि
॥
89
॥
वचसा
चरितं
वदामि
शम्भो-
-रहमुद्योगविधासु
तेऽप्रसक्तः
।
मनसाकृतिमीश्वरस्य
सेवे
शिरसा
चैव
सदाशिवं
नमामि
॥
90
॥
आद्याविद्या
हृद्गता
निर्गतासी-
-द्विद्या
हृद्या
हृद्गता
त्वत्प्रसादात्
।
सेवे
नित्यं
श्रीकरं
त्वत्पदाब्जं
भावे
मुक्तेर्भाजनं
राजमौले
॥
91
॥
दूरीकृतानि
दुरितानि
दुरक्षराणि
दौर्भाग्यदुःखदुरहङ्कृतिदुर्वचांसि
।
सारं
त्वदीयचरितं
नितरां
पिबन्तं
गौरीश
मामिह
समुद्धर
सत्कटाक्षैः
॥
92
॥
सोमकलाधरमौलौ
कोमलघनकन्धरे
महामहसि
।
स्वामिनि
गिरिजानाथे
मामकहृदयं
निरन्तरं
रमताम्
॥
93
॥
सा
रसना
ते
नयने
तावेव
करौ
स
एव
कृतकृत्यः
।
या
ये
यौ
यो
भर्गं
वदतीक्षेते
सदार्चतः
स्मरति
॥
94
॥
अतिमृदुलौ
मम
चरणा-
-वतिकठिनं
ते
मनो
भवानीश
।
इति
विचिकित्सां
सन्त्यज
शिव
कथमासीद्गिरौ
तथा
वेशः
॥
95
॥
धैर्याङ्कुशेन
निभृतं
रभसादाकृष्य
भक्तिशृङ्खलया
।
पुरहर
चरणालाने
हृदयमदेभं
बधान
चिद्यन्त्रैः
॥
96
॥
प्रचरत्यभितः
प्रगल्भवृत्त्या
मदवानेष
मनः
करी
गरीयान्
।
रिगृह्य
नयेन
भक्तिरज्वा
परम
स्थाणु
पदं
दृढं
नयामुम्
॥
97
॥
सर्वालङ्कारयुक्तां
सरलपदयुतां
साधुवृत्तां
सुवर्णां
सद्भिः
संस्तूयमानां
सरसगुणयुतां
लक्षितां
लक्षणाढ्याम्
।
उद्यद्भूषाविशेषामुपगतविनयां
द्योतमानार्थरेखां
कल्याणीं
देव
गौरीप्रिय
मम
कविताकन्यकां
त्वं
गृहाण
॥
98
॥
इदं
ते
युक्तं
वा
परमशिव
कारुण्यजलधे
गतौ
तिर्यग्रूपं
तव
पदशिरोदर्शनधिया
।
हरिब्रह्माणौ
तौ
दिवि
भुवि
चरन्तौ
श्रमयुतौ
कथं
शम्भो
स्वामिन्कथय
मम
वेद्योऽसि
पुरतः
॥
99
॥
स्तोत्रेणालमहं
प्रवच्मि
न
मृषा
देवा
विरिञ्चादयः
स्तुत्यानां
गणनाप्रसङ्गसमये
त्वामग्रगण्यं
विदुः
।
माहात्म्याग्रविचारणप्रकरणे
धानातुषस्तोमव-
-द्धूतास्त्वां
विदुरुत्तमोत्तमफलं
शम्भो
भवत्सेवकाः
॥
100
॥
इति
श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः
कृतौ
शिवानन्दलहरी
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits