Haindavam Logo - Lord Ganesha
हैंदवम्
📍
Font Size:

रुद्र त्रिशति नामावलिः

ध्यानम् - ब्रह्माण्डव्याप्तदेहा भसितहिमरुचा भासमाना भुजङ्गैः कण्ठे कालाः कपर्दाकलित शशिकलाश्चण्डकोदण्डहस्ताः । त्र्यक्षा रुद्राक्षमालाः सुललितवपुषः शाम्भवा मूर्तिभेदाः रुद्राः श्रीरुद्रसूक्तप्रकटितविभवाः नः प्रयच्छन्तु सौख्यम् । नमो भगवते रुद्राय । ओं हिरण्यबाहवे नमः । सेनान्ये नमः । दिशां च पतये नमः । वृक्षेभ्यो नमः । हरिकेशेभ्यो नमः । पशूनां पतये नमः । सस्पिञ्जराय नमः । त्विषीमते नमः । पथीनां पतये नमः । बभ्लुशाय नमः । विव्याधिने नमः । अन्नानां पतये नमः । हरिकेशाय नमः । उपवीतिने नमः । पुष्टानां पतये नमः । भवस्य हेत्यै नमः । जगतां पतये नमः । रुद्राय नमः । आतताविने नमः । क्षेत्राणां पतये नमः । 20 सूताय नमः । अहन्त्याय नमः । वनानां पतये नमः । रोहिताय नमः । स्थपतये नमः । वृक्षाणं पतये नमः । मन्त्रिणे नमः । वाणिजाय नमः । कक्षाणां पतये नमः । भुवन्तये नमः । वारिवस्कृताय नमः । ओषधीनां पतये नमः । उच्चैर्घोषाय नमः । आक्रन्दयते नमः । पत्तीनां पतये नमः । कृत्स्नवीताय नमः । धावते नमः । सत्त्वनां पतये नमः । सहमानाय नमः । निव्याधिने नमः । 40 आव्याधिनीनां पतये नमः । ककुभाय नमः । निषङ्गिणे नमः । स्तेनानां पतये नमः । निषङ्गिणे नमः । इषुधिमते नमः । तस्कराणां पतये नमः । वञ्चते नमः । परिवञ्चते नमः । स्तायूनां पतये नमः । निचेरवे नमः । परिचराय नमः । अरण्यानां पतये नमः । सृकाविभ्यो नमः । जिघाग्ंसद्भ्यो नमः । मुष्णतां पतये नमः । असिमद्भ्यो नमः । नक्तञ्चरद्भ्यो नमः । प्रकृन्तानां पतये नमः । उष्णीषिणे नमः । 60 गिरिचराय नमः । कुलुञ्चानां पतये नमः । इषुमद्भ्यो नमः । धन्वाविभ्यश्च नमः । वो नमः । आतन्वानेभ्यो नमः। प्रतिदधानेभ्यो नमः । वो नमः । आयच्छद्भ्यो नमः । विसृजद्भ्यो नमः । वो नमः । अस्यद्भ्यो नमः । विध्यद्भ्यो नमः । वो नमः । आसीनेभ्यो नमः । शयानेभ्यो नमः । वो नमः । स्वपद्भ्यो नमः । जाग्रद्भ्यो नमः । वो नमः । 80 तिष्ठद्भ्यो नमः । धावद्भ्यो नमः । वो नमः । सभाभ्यो नमः । सभापतिभ्यो नमः । वो नमः । अश्वेभ्यो नमः । अश्वपतिभ्यो नमः । वो नमः । आव्याधिनीभ्यो नमः । विविध्यन्तीभ्यो नमः । वो नमः । उगणाभ्यो नमः । तृंहतीभ्यो नमः । वो नमः । गृत्सेभ्यो नमः । गृत्सपतिभ्यो नमः । वो नमः । व्रातेभ्यो नमः । व्रातपतिभ्यो नमः । 100 वो नमः । गणेभ्यो नमः । गणपतिभ्यो नमः । वो नमः । विरूपेभ्यो नमः । विश्वरूपेभ्यो नमः । वो नमः । महद्भ्यो नमः । क्षुल्लकेभ्यो नमः । वो नमः । रथिभ्यो नमः । अरथेभ्यो नमः । वो नमः । रथेभ्यो नमः । रथपतिभ्यो नमः । वो नमः । सेनाभ्यो नमः । सेनानिभ्यो नमः । वो नमः । क्षत्तृभ्यो नमः । 120 सङ्ग्रहीतृभ्यो नमः । वो नमः । तक्षभ्यो नमः । रथकारेभ्यो नमः । वो नमः । कुलालेभ्यो नमः । कर्मारेभ्यो नमः । वो नमः । पुञ्जिष्टेभ्यो नमः । निषादेभ्यो नमः । वो नमः । इषुकृद्भ्यो नमः । धन्वकृद्भ्यो नमः । वो नमः । मृगयुभ्यो नमः । श्वनिभ्यो नमः । वो नमः । श्वभ्यो नमः । श्वपतिभ्यो नमः । वो नमः । 140 भवाय नमः । रुद्राय नमः । शर्वाय नमः । पशुपतये नमः । नीलग्रीवाय नमः । शितिकण्ठाय नमः । कपर्दिने नमः । व्युप्तकेशाय नमः । सहस्राक्षाय नमः । शतधन्वने नमः । गिरिशाय नमः । शिपिविष्टाय नमः । मीढुष्टमाय नमः । इषुमते नमः । ह्रस्वाय नमः । वामनाय नमः । बृहते नमः । वर्षीयसे नमः । वृद्धाय नमः । संवृध्वने नमः । 160 अग्रियाय नमः । प्रथमाय नमः । आशवे नमः । अजिराय नमः । शीघ्रियाय नमः । शीभ्याय नमः । ऊर्म्याय नमः । अवस्वन्याय नमः । स्रोतस्याय नमः । द्वीप्याय नमः । ज्येष्ठाय नमः । कनिष्ठाय नमः । पूर्वजाय नमः । अपरजाय नमः । मध्यमाय नमः । अपगल्भाय नमः । जघन्याय नमः । बुध्नियाय नमः । सोभ्याय नमः । प्रतिसर्याय नमः । 180 याम्याय नमः । क्षेम्याय नमः । उर्वर्याय नमः । खल्याय नमः । श्लोक्याय नमः । अवसान्याय नमः । वन्याय नमः । कक्ष्याय नमः । श्रवाय नमः । प्रतिश्रवाय नमः । आशुषेणाय नमः । आशुरथाय नमः । शूराय नमः । अवभिन्दते नमः । वर्मिणे नमः । वरूथिने नमः । बिल्मिने नमः । कवचिने नमः । श्रुताय नमः । श्रुतसेनाय नमः । 200 दुन्दुभ्याय नमः । आहनन्याय नमः । धृष्णवे नमः । प्रमृशाय नमः । दूताय नमः । प्रहिताय नमः । निषङ्गिणे नमः । इषुधिमते नमः । तीक्ष्णेषवे नमः । आयुधिने नमः । स्वायुधाय नमः । सुधन्वने नमः । स्रुत्याय नमः । पथ्याय नमः । काट्याय नमः । नीप्याय नमः । सूद्याय नमः । सरस्याय नमः । नाद्याय नमः । वैशन्ताय नमः । 220 कूप्याय नमः । अवट्याय नमः । वर्ष्याय नमः । अवर्ष्याय नमः । मेघ्याय नमः । विद्युत्याय नमः । ईध्रियाय नमः । आतप्याय नमः । वात्याय नमः । रेष्मियाय नमः । वास्तव्याय नमः । वास्तुपाय नमः । सोमाय नमः । रुद्राय नमः । ताम्राय नमः । अरुणाय नमः । शङ्गाय नमः । पशुपतये नमः । उग्राय नमः । भीमाय नमः । 240 अग्रेवधाय नमः । दूरेवधाय नमः । हन्त्रे नमः । हनीयसे नमः । वृक्षेभ्यो नमः । हरिकेशेभ्यो नमः । ताराय नमः । शम्भवे नमः । मयोभवे नमः । शङ्कराय नमः । मयस्कराय नमः । शिवाय नमः । शिवतराय नमः । तीर्थ्याय नमः । कूल्याय नमः । पार्याय नमः । अवार्याय नमः । प्रतरणाय नमः । उत्तरणाय नमः । आतार्याय नमः । 260 आलाद्याय नमः । शष्प्याय नमः । फेन्याय नमः । सिकत्याय नमः । प्रवाह्याय नमः । इरिण्याय नमः । प्रपथ्याय नमः । किंशिलाय नमः । क्षयणाय नमः । कपर्दिने नमः । पुलस्तये नमः । गोष्ठ्याय नमः । गृह्याय नमः । तल्प्याय नमः । गेह्याय नमः । काट्याय नमः । गह्वरेष्ठाय नमः । ह्रदय्याय नमः । निवेष्प्याय नमः । पांसव्याय नमः । 280 रजस्याय नमः । शुष्क्याय नमः । हरित्याय नमः । लोप्याय नमः । उलप्याय नमः । ऊर्व्याय नमः । सूर्म्याय नमः । पर्ण्याय नमः । पर्णशद्याय नमः । अपगुरमाणाय नमः । अभिघ्नते नमः । आक्खिदते नमः । प्रक्खिदते नमः । वो नमः । किरिकेभ्यो नमः । देवानां हृदयेभ्यो नमः । विक्षीणकेभ्यो नमः । विचिन्वत्केभ्यो नमः । आनिर्हतेभ्यो नमः । आमीवत्केभ्यो नमः । 300

Recite with devotion and pure heart

Regular practice brings spiritual benefits