Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

काश्यष्टकम्

स्वर्गतः सुखकरी दिवौकसां शैलराजतनयाऽतिवल्लभा ।
ढुण्ढिभैरवविदारितविघ्ना विश्वनाथनगरी गरीयसी ॥ 1 ॥
यत्र देहपतनेन देहिनां मुक्तिरेव भवतीति निश्चितम् ।
पूर्वपुण्य निचयेन लभ्यते विश्वनाथनगरी गरीयसी ॥ 2 ॥
सर्वदाऽमरगणैश्चवन्दिता या गजेन्द्रमुखवारितविघ्ना ।
कालभैरवकृतैकशासना विश्वनाथनगरी गरीयसी ॥ 3 ॥
यत्र तीर्थममला मणिकर्णिका या सदाशिव सुखप्रदायिनी ।
या शिवेन रचिता निजायुधैः विश्वनाथनगरी गरीयसी ॥ 4 ॥
सर्वतीर्थकृतमज्जनपुण्यैर्जन्मजन्मसुकृतैः खलु लभ्या ।
प्राप्यते भव भवार्तिनाशिनि विश्वनाथनगरी गरीयसी ॥ 5 ॥
यत्र मुक्तिरखिलैस्तु जन्तुभिर्लभ्यते मरणमात्रतः सदा ।
नाखिलामरगणैश्चवन्दिता विश्वनाथनगरी गरीयसी ॥ 6 ॥
यत्र शक्रनगरी तनीयसी यत्र धातृनगरी कनीयसी ।
यत्र केशवपुरी लघीयसी विश्वनाथनगरी गरीयसी ॥ 7 ॥
यत्र देवतटिनी प्रथीयसी यत्र विश्वजननी पटीयसी ।
यत्र भैरवकृतिर्बलीयसी विश्वनाथनगरी गरीयसी ॥ 8 ॥
विश्वनाथनगरीस्तवं शुभं
यः पठेत् प्रयतमानसः सदा ।
पुत्रदारगृहलाभमव्ययं
मुक्तिमार्गमनघं लभेत्सदा ॥ 9 ॥

Recite with devotion and pure heart

Regular practice brings spiritual benefits