Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

बिल्वाष्टकम्

त्रिदलं त्रिगुणाकारं त्रिनेत्रं त्रियायुधम् त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणम् त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः तवपूजां करिष्यामि एकबिल्वं शिवार्पणम् कोटि कन्या महादानं तिलपर्वत कोटयः कांचनं शैलदानेन एकबिल्वं शिवार्पणम् काशीक्षेत्र निवासं कालभैरव दर्शनम् प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणम् इंदुवारे व्रतं स्थित्वा निराहारो महेश्वराः नक्तं हौष्यामि देवेश एकबिल्वं शिवार्पणम् रामलिंग प्रतिष्ठा वैवाहिक कृतं तथा तटाकानिच संधानं एकबिल्वं शिवार्पणम् अखंड बिल्वपत्रं आयुतं शिवपूजनम् कृतं नाम सहस्रेण एकबिल्वं शिवार्पणम् उमया सहदेवेश नंदि वाहनमेव भस्मलेपन सर्वांगं एकबिल्वं शिवार्पणम् सालग्रामेषु विप्राणां तटाकं दशकूपयोः यज्ञ्नकोटि सहस्रस्य एकबिल्वं शिवार्पणम् दंति कोटि सहस्रेषु अश्वमेधशतक्रतौ कोटिकन्या महादानं एकबिल्वं शिवार्पणम् बिल्वाणां दर्शनं पुण्यं स्पर्शनं पापनाशनम् अघोर पापसंहारं एकबिल्वं शिवार्पणम् सहस्रवेद पाटेषु ब्रह्मस्तापनमुच्यते अनेकव्रत कोटीनां एकबिल्वं शिवार्पणम् अन्नदान सहस्रेषु सहस्रोपनयनं तधा अनेक जन्मपापानि एकबिल्वं शिवार्पणम् बिल्वाष्टकमिदं पुण्यं यः पठेश्शिव सन्निधौ शिवलोकमवाप्नोति एकबिल्वं शिवार्पणम् विकल्प संकर्पण त्रिदलं त्रिगुणाकारं त्रिनेत्रं त्रियायुधम् त्रिजन्म पापसंहारं एकबिल्वं शिवार्पितम् 1 त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः तवपूजां करिष्यामि एकबिल्वं शिवार्पितम् 2 दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् अघोरपापसंहारं एकबिल्वं शिवार्पितम् 3 सालग्रामेषु विप्रेषु तटाके वनकूपयोः यज्ञ्नकोटि सहस्राणां एकबिल्वं शिवार्पितम् 4 दंतिकोटि सहस्रेषु अश्वमेध शतानि कोटिकन्याप्रदानेन एकबिल्वं शिवार्पितम् 5 एकं बिल्वपत्रैश्च कोटियज्ञ्न फलं लभेत् महादेवैश्च पूजार्थं एकबिल्वं शिवार्पितम् 6 काशीक्षेत्रे निवासं कालभैरव दर्शनम् गयाप्रयाग मे दृष्ट्वा एकबिल्वं शिवार्पितम् 7 उमया सह देवेशं वाहनं नंदिशंकरम् मुच्यते सर्वपापेभ्यो एकबिल्वं शिवार्पितम् 8 इति श्री बिल्वाष्टकम्

Recite with devotion and pure heart

Regular practice brings spiritual benefits