Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

मातृ पञ्चकम्

आस्तां तावदियं प्रसूतिसमये दुर्वारशूलव्यथा
नैरुज्यं तनुशोषणं मलमयी शय्या च सांवत्सरी ।
एकस्यापि न गर्भभारभरणक्लेशस्य यस्य क्षमः
दातुं निष्कृतिमुन्नतोऽपि तनयस्तस्यै जनन्यै नमः ॥ 1 ॥
गुरुकुलमुपसृत्य स्वप्नकाले तु दृष्ट्वा
यतिसमुचितवेषं प्रारुदो मां त्वमुच्चैः ।
गुरुकुलमथ सर्वं प्रारुदत्ते समक्षं
सपदि चरणयोस्ते मातरस्तु प्रणामः ॥ 2 ॥
न दत्तं मातस्ते मरणसमये तोयमपि वा
स्वधा वा नो दत्ता मरणदिवसे श्राद्धविधिना ।
न जप्तो मातस्ते मरणसमये तारकमनुः
अकाले सम्प्राप्ते मयि कुरु दयां मातरतुलाम् ॥ 3 ॥
मुक्तामणिस्त्वं नयनं ममेति
राजेति जीवेति चिरं सुत त्वम् ।
इत्युक्तवत्यास्तव वाचि मातः
ददाम्यहं तण्डुलमेष शुष्कम् ॥ 4 ॥
अम्बेति तातेति शिवेति तस्मिन्
प्रसूतिकाले यदवोच उच्चैः ।
कृष्णेति गोविन्द हरे मुकुन्दे-
-त्यहो जनन्यै रचितोऽयमञ्जलिः ॥ 5 ॥
इति श्रीमच्छङ्कराचार्य विरचितं मातृ पञ्चकम् ॥

Recite with devotion and pure heart

Regular practice brings spiritual benefits