हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
शुक्र कवचम्
ध्यानम्
मृणालकुन्देन्दुपयोजसुप्रभं
पीताम्बरं
प्रसृतमक्षमालिनम्
।
समस्तशास्त्रार्थविधिं
महान्तं
ध्यायेत्कविं
वाञ्छितमर्थसिद्धये
॥
1
॥
अथ
शुक्रकवचम्
शिरो
मे
भार्गवः
पातु
भालं
पातु
ग्रहाधिपः
।
नेत्रे
दैत्यगुरुः
पातु
श्रोत्रे
मे
चन्दनद्युतिः
॥
2
॥
पातु
मे
नासिकां
काव्यो
वदनं
दैत्यवन्दितः
।
वचनं
चोशनाः
पातु
कण्ठं
श्रीकण्ठभक्तिमान्
॥
3
॥
भुजौ
तेजोनिधिः
पातु
कुक्षिं
पातु
मनोव्रजः
।
नाभिं
भृगुसुतः
पातु
मध्यं
पातु
महीप्रियः
॥
4
॥
कटिं
मे
पातु
विश्वात्मा
उरू
मे
सुरपूजितः
।
जानुं
जाड्यहरः
पातु
जङ्घे
ज्ञानवतां
वरः
॥
5
॥
गुल्फौ
गुणनिधिः
पातु
पातु
पादौ
वराम्बरः
।
सर्वाण्यङ्गानि
मे
पातु
स्वर्णमालापरिष्कृतः
॥
6
॥
फलश्रुतिः
य
इदं
कवचं
दिव्यं
पठति
श्रद्धयान्वितः
।
न
तस्य
जायते
पीडा
भार्गवस्य
प्रसादतः
॥
7
॥ ॥
इति
श्रीब्रह्माण्डपुराणे
शुक्रकवचं
सम्पूर्णम्
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits