हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
ऋण विमोचन अङ्गारक स्तोत्रम्
स्कन्द
उवाच
।
ऋणग्रस्तनराणां
तु
ऋणमुक्तिः
कथं
भवेत्
।
ब्रह्मोवाच
।
वक्ष्येऽहं
सर्वलोकानां
हितार्थं
हितकामदम्
॥
अस्य
श्री
अङ्गारक
स्तोत्र
महामन्त्रस्य
गौतम
ऋषिः,
अनुष्टुप्
छन्दः,
अङ्गारको
देवता
मम
ऋण
विमोचनार्थे
जपे
विनियोगः
।
ध्यानम्
–
धरणी
गर्भ
सम्भूतं
विद्युत्कान्ति
समप्रभम्
।
कुमारं
शक्तिहस्तं
तं
कुजं
प्रणमाम्यहम्
॥
1
॥
रक्तमाल्याम्बरधरः
शूलशक्तिगदाधरः
।
चतुर्भुजो
मेषगतो
वरदश्च
धरासुतः
॥
2
॥
अथ
स्तोत्रम्
–
मङ्गलो
भूमिपुत्रश्च
ऋणहर्ता
धनप्रदः
।
स्थिरासनो
महाकायः
सर्वकर्मावबोधकः
॥
3
॥
लोहितो
लोहिताङ्गश्च
सामगायी
कृपाकरः
।
धर्मराजः
कुजो
भौमो
भूमिजो
भूमिनन्दनः
॥
4
॥
अङ्गारको
यमश्चैव
सर्वरोगापहारकः
।
सृष्टिकर्ताऽपहर्ता
च
सर्वकामफलप्रदः
॥
5
॥
भूतिदो
ग्रहपूज्यश्च
वक्त्रो
रक्तवपुः
प्रभुः
।
एतानि
कुजनामानि
यो
नित्यं
प्रयतः
पठेत्
।
ऋणं
न
जायते
तस्य
धनं
प्राप्नोत्यसंशयम्
॥
6
॥
रक्तपुष्पैश्च
गन्धैश्च
दीपधूपादिभिस्तथा
।
मङ्गलं
पूजयित्वा
तु
मङ्गलेऽहनि
सर्वदा
॥
7
॥
ऋणरेखाः
प्रकर्तव्याः
दग्धाङ्गारैस्तदग्रतः
।
सप्तविंशतिनामानि
पठित्वा
तु
तदन्तिके
॥
8
॥
ताश्च
प्रमार्जयेत्पश्चाद्वामपादेन
संस्पृशन्
।
एवं
कृत्वा
न
सन्देहो
ऋणहीनो
धनी
भवेत्
॥
9
॥
भूमिजस्य
प्रसादेन
ग्रहपीडा
विनश्यति
।
येनार्जिता
जगत्कीर्तिर्भूमिपुत्रेण
शाश्वती
॥
10
॥
शत्रवश्च
हता
येन
भौमेन
महितात्मना
।
स
प्रीयतां
तु
भौमोऽद्य
तुष्टो
भूयात्
सदा
मम
॥
11
॥
मूलमन्त्रः
–
अङ्गारक
महीपुत्र
भगवन्
भक्तवत्सल
।
नमोऽस्तु
ते
ममाशेष
ऋणमाशु
विमोचय
॥
12
॥
अर्घ्यम्
–
भूमिपुत्र
महातेजः
स्वेदोद्भव
पिनाकिनः
।
ऋणार्तस्त्वां
प्रपन्नोऽस्मि
गृहाणार्घ्यं
नमोऽस्तु
ते
॥
13
॥
इति
ऋण
विमोचन
अङ्गारक
स्तोत्रम्
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits