Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

राहु कवचम्

ध्यानम् प्रणमामि सदा राहुं शूर्पाकारं किरीटिनम् सैंहिकेयं करालास्यं लोकानामभयप्रदम् 1 अथ राहु कवचम् नीलाम्बरः शिरः पातु ललाटं लोकवन्दितः चक्षुषी पातु मे राहुः श्रोत्रे त्वर्धशरिरवान् 2 नासिकां मे धूम्रवर्णः शूलपाणिर्मुखं मम जिह्वां मे सिंहिकासूनुः कण्ठं मे कठिनाङ्घ्रिकः 3 भुजङ्गेशो भुजौ पातु नीलमाल्याम्बरः करौ पातु वक्षःस्थलं मन्त्री पातु कुक्षिं विधुन्तुदः 4 कटिं मे विकटः पातु ऊरू मे सुरपूजितः स्वर्भानुर्जानुनी पातु जङ्घे मे पातु जाड्यहा 5 गुल्फौ ग्रहपतिः पातु पादौ मे भीषणाकृतिः सर्वाण्यङ्गानि मे पातु नीलचन्दनभूषणः 6 फलश्रुतिः राहोरिदं कवचमृद्धिदवस्तुदं यो भक्त्या पठत्यनुदिनं नियतः शुचिः सन् प्राप्नोति कीर्तिमतुलां श्रियमृद्धि- मायुरारोग्यमात्मविजयं हि तत्प्रसादात् 7 इति श्रीमहाभारते धृतराष्ट्रसञ्जयसंवादे द्रोणपर्वणि राहुकवचं सम्पूर्णम्

Recite with devotion and pure heart

Regular practice brings spiritual benefits