Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

राहु अष्टोत्तर शत नामावलिः

ओं राहवे नमः । ओं सैंहिकेयाय नमः । ओं विधुन्तुदाय नमः । ओं सुरशत्रवे नमः । ओं तमसे नमः । ओं फणिने नमः । ओं गार्ग्यायणाय नमः । ओं सुरागवे नमः । ओं नीलजीमूतसङ्काशाय नमः । ओं चतुर्भुजाय नमः । 10 ओं खड्गखेटकधारिणे नमः । ओं वरदायकहस्तकाय नमः । ओं शूलायुधाय नमः । ओं मेघवर्णाय नमः । ओं कृष्णध्वजपताकावते नमः । ओं दक्षिणाशामुखरताय नमः । ओं तीक्ष्णदंष्ट्रधराय नमः । ओं शूर्पाकारासनस्थाय नमः । ओं गोमेदाभरणप्रियाय नमः । ओं माषप्रियाय नमः । 20 ओं कश्यपर्षिनन्दनाय नमः । ओं भुजगेश्वराय नमः । ओं उल्कापातजनये नमः । ओं शूलिने नमः । ओं निधिपाय नमः । ओं कृष्णसर्पराजे नमः । ओं विषज्वलावृतास्याय नमः । ओं अर्धशरीराय नमः । ओं जाद्यसम्प्रदाय नमः । ओं रवीन्दुभीकराय नमः । 30 ओं छायास्वरूपिणे नमः । ओं कठिनाङ्गकाय नमः । ओं द्विषच्चक्रच्छेदकाय नमः । ओं करालास्याय नमः । ओं भयङ्कराय नमः । ओं क्रूरकर्मणे नमः । ओं तमोरूपाय नमः । ओं श्यामात्मने नमः । ओं नीललोहिताय नमः । ओं किरीटिणे नमः । 40 ओं नीलवसनाय नमः । ओं शनिसामान्तवर्त्मगाय नमः । ओं चाण्डालवर्णाय नमः । ओं अश्व्यर्क्षभवाय नमः । ओं मेषभवाय नमः । ओं शनिवत्फलदाय नमः । ओं शूराय नमः । ओं अपसव्यगतये नमः । ओं उपरागकराय नमः । ओं सूर्यहिमांशुच्छविहारकाय नमः । 50 ओं नीलपुष्पविहाराय नमः । ओं ग्रहश्रेष्ठाय नमः । ओं अष्टमग्रहाय नमः । ओं कबन्धमात्रदेहाय नमः । ओं यातुधानकुलोद्भवाय नमः । ओं गोविन्दवरपात्राय नमः । ओं देवजातिप्रविष्टकाय नमः । ओं क्रूराय नमः । ओं घोराय नमः । ओं शनेर्मित्राय नमः । 60 ओं शुक्रमित्राय नमः । ओं अगोचराय नमः । ओं माने गङ्गास्नानदात्रे नमः । ओं स्वगृहे प्रबलाढ्यकाय नमः । ओं सद्गृहेऽन्यबलधृते नमः । ओं चतुर्थे मातृनाशकाय नमः । ओं चन्द्रयुक्ते चण्डालजन्मसूचकाय नमः । ओं जन्मसिंहे नमः । ओं राज्यदात्रे नमः । ओं महाकायाय नमः । 70 ओं जन्मकर्त्रे नमः । ओं विधुरिपवे नमः । ओं मत्तको ज्ञानदाय नमः । ओं जन्मकन्याराज्यदात्रे नमः । ओं जन्महानिदाय नमः । ओं नवमे पितृहन्त्रे नमः । ओं पञ्चमे शोकदायकाय नमः । ओं द्यूने कलत्रहन्त्रे नमः । ओं सप्तमे कलहप्रदाय नमः । ओं षष्ठे वित्तदात्रे नमः । 80 ओं चतुर्थे वैरदायकाय नमः । ओं नवमे पापदात्रे नमः । ओं दशमे शोकदायकाय नमः । ओं आदौ यशः प्रदात्रे नमः । ओं अन्ते वैरप्रदायकाय नमः । ओं कालात्मने नमः । ओं गोचराचाराय नमः । ओं धने ककुत्प्रदाय नमः । ओं पञ्चमे धृषणाशृङ्गदाय नमः । ओं स्वर्भानवे नमः । 90 ओं बलिने नमः । ओं महासौख्यप्रदायिने नमः । ओं चन्द्रवैरिणे नमः । ओं शाश्वताय नमः । ओं सुरशत्रवे नमः । ओं पापग्रहाय नमः । ओं शाम्भवाय नमः । ओं पूज्यकाय नमः । ओं पाठीनपूरणाय नमः । ओं पैठीनसकुलोद्भवाय नमः । 100 ओं दीर्घ कृष्णाय नमः । ओं अशिरसे नमः । ओं विष्णुनेत्रारये नमः । ओं देवाय नमः । ओं दानवाय नमः । ओं भक्तरक्षाय नमः । ओं राहुमूर्तये नमः । ओं सर्वाभीष्टफलप्रदाय नमः । 108

Recite with devotion and pure heart

Regular practice brings spiritual benefits