शिव उवाच ।
पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः ।
सप्ताश्वः सप्तरज्जुश्च द्विभुजः स्यात् सदा रविः ॥ 1 ॥
श्वेतः श्वेताम्बरधरः श्वेताश्वः श्वेतवाहनः ।
गदापाणिर्द्विबाहुश्च कर्तव्यो वरदः शशी ॥ 2 ॥
रक्तमाल्याम्बरधरः शक्तिशूलगदाधरः ।
चतुर्भुजः रक्तरोमा वरदः स्याद्धरासुतः ॥ 3 ॥
पीतमाल्याम्बरधरः कर्णिकारसमद्युतिः ।
खड्गचर्मगदापाणिः सिंहस्थो वरदो बुधः ॥ 3 ॥
देवदैत्यगुरू तद्वत्पीतश्वेतौ चतुर्भुजौ ।
दण्डिनौ वरदौ कार्यौ साक्षसूत्रकमण्डलू ॥ 5 ॥
इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः ।
बाणबाणासनधरः कर्तव्योऽर्कसुतस्तथा ॥ 6 ॥
करालवदनः खड्गचर्मशूली वरप्रदः ।
नीलसिंहासनस्थश्च राहुरत्र प्रशस्यते ॥ 7 ॥
धूम्रा द्विबाहवः सर्वे गदिनो विकृताननाः ।
गृध्रासनगता नित्यं केतवः स्युर्वरप्रदाः ॥ 8 ॥
सर्वे किरीटिनः कार्या ग्रहा लोकहितावहाः ।
ह्यङ्गुलेनोच्छ्रिताः सर्वे शतमष्टोत्तरं सदा ॥ 9 ॥