Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

नवग्रह कवचम्

शिरो मे पातु मार्ताण्डो कपालं रोहिणीपतिः मुखमङ्गारकः पातु कण्ठश्च शशिनन्दनः 1 बुद्धिं जीवः सदा पातु हृदयं भृगुनन्दनः जठरं शनिः पातु जिह्वां मे दितिनन्दनः 2 पादौ केतुः सदा पातु वाराः सर्वाङ्गमेव तिथयोऽष्टौ दिशः पान्तु नक्षत्राणि वपुः सदा 3 अंसौ राशिः सदा पातु योगाश्च स्थैर्यमेव गुह्यं लिङ्गं सदा पान्तु सर्वे ग्रहाः शुभप्रदाः 4 अणिमादीनि सर्वाणि लभते यः पठेद् धृवम् एतां रक्षां पठेद्यस्तु भक्त्या प्रयतः सुधीः 5 चिरायुः सुखी पुत्री रणे विजयी भवेत् अपुत्रो लभते पुत्रं धनार्थी धनमाप्नुयात् 6 दारार्थी लभते भार्यां सुरूपां सुमनोहराम् रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बन्धनात् 7 जले स्थले चान्तरिक्षे कारागारे विशेषतः यः करे धारयेन्नित्यं भयं तस्य विद्यते 8 ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः सर्वपापैः प्रमुच्येत कवचस्य धारणात् 9 नारी वामभुजे धृत्वा सुखैश्वर्यसमन्विता काकवन्ध्या जन्मवन्ध्या मृतवत्सा या भवेत् बह्वपत्या जीववत्सा कवचस्य प्रसादतः 10

Recite with devotion and pure heart

Regular practice brings spiritual benefits