Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

केतु कवचम्

ध्यानं केतुं करालवदनं चित्रवर्णं किरीटिनम् प्रणमामि सदा केतुं ध्वजाकारं ग्रहेश्वरम् 1 अथ केतु कवचम् चित्रवर्णः शिरः पातु भालं धूम्रसमद्युतिः पातु नेत्रे पिङ्गलाक्षः श्रुती मे रक्तलोचनः 2 घ्राणं पातु सुवर्णाभश्चिबुकं सिंहिकासुतः पातु कण्ठं मे केतुः स्कन्धौ पातु ग्रहाधिपः 3 हस्तौ पातु सुरश्रेष्ठः कुक्षिं पातु महाग्रहः सिंहासनः कटिं पातु मध्यं पातु महासुरः 4 ऊरू पातु महाशीर्षो जानुनी मेऽतिकोपनः पातु पादौ मे क्रूरः सर्वाङ्गं नरपिङ्गलः 5 फलश्रुतिः इदं कवचं दिव्यं सर्वरोगविनाशनम् सर्वशत्रुविनाशं धारणाद्विजयी भवेत् 6 इति श्रीब्रह्माण्डपुराणे केतुकवचं सम्पूर्णम्

Recite with devotion and pure heart

Regular practice brings spiritual benefits