हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
चन्द्र कवचम्
अस्य
श्री
चन्द्र
कवचस्य
।
गौतम
ऋषिः
।
अनुष्टुप्
छन्दः
।
श्री
चन्द्रो
देवता
।
चन्द्र
प्रीत्यर्थे
जपे
विनियोगः
॥
ध्यानं:
समं
चतुर्भुजं
वन्दे
केयूर
मकुटोज्वलम्
।
वासुदेवस्य
नयनं
शङ्करस्य
च
भूषणम्
॥
एवं
ध्यात्वा
जपेन्नित्यं
शशिनः
कवचं
शुभम्
॥
अथ
चन्द्र
कवचम्
शशी
पातु
शिरोदेशं
भालं
पातु
कलानिधिः
।
चक्षुषी
चन्द्रमाः
पातु
श्रुती
पातु
निशापतिः
॥
1
॥
प्राणं
क्षपकरः
पातु
मुखं
कुमुदबान्धवः
।
पातु
कण्ठं
च
मे
सोमः
स्कन्धे
जैवातृकस्तथा
॥
2
॥
करौ
सुधाकरः
पातु
वक्षः
पातु
निशाकरः
।
हृदयं
पातु
मे
चन्द्रो
नाभिं
शङ्करभूषणः
॥
3
॥
मध्यं
पातु
सुरश्रेष्ठः
कटिं
पातु
सुधाकरः
।
ऊरू
तारापतिः
पातु
मृगाङ्को
जानुनी
सदा
॥
4
॥
अब्धिजः
पातु
मे
जङ्घे
पातु
पादौ
विधुः
सदा
।
सर्वाण्यन्यानि
चाङ्गानि
पातु
चन्द्रोखिलं
वपुः
॥
5
॥
फलश्रुतिः
एतद्धि
कवचं
दिव्यं
भुक्ति
मुक्ति
प्रदायकम्
।
यः
पठेच्छृणुयाद्वापि
सर्वत्र
विजयी
भवेत्
॥
6
॥ ॥
इति
श्रीचन्द्र
कवचं
सम्पूर्णम्
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits