Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

बुध अष्टोत्तर शत नामावलिः

ओं बुधाय नमः । ओं बुधार्चिताय नमः । ओं सौम्याय नमः । ओं सौम्यचित्ताय नमः । ओं शुभप्रदाय नमः । ओं दृढव्रताय नमः । ओं दृढफलाय नमः । ओं श्रुतिजालप्रबोधकाय नमः । ओं सत्यवासाय नमः । ओं सत्यवचसे नमः ॥ 10 ॥ ओं श्रेयसां पतये नमः । ओं अव्ययाय नमः । ओं सोमजाय नमः । ओं सुखदाय नमः । ओं श्रीमते नमः । ओं सोमवंशप्रदीपकाय नमः । ओं वेदविदे नमः । ओं वेदतत्त्वज्ञाय नमः । ओं वेदान्तज्ञानभास्वराय नमः । ओं विद्याविचक्षणाय नमः ॥ 20 ॥ ओं विभवे नमः । ओं विद्वत्प्रीतिकराय नमः । ओं ऋजवे नमः । ओं विश्वानुकूलसञ्चाराय नमः । ओं विशेषविनयान्विताय नमः । ओं विविधागमसारज्ञाय नमः । ओं वीर्यवते नमः । ओं विगतज्वराय नमः । ओं त्रिवर्गफलदाय नमः । ओं अनन्ताय नमः ॥ 30 ॥ ओं त्रिदशाधिपपूजिताय नमः । ओं बुद्धिमते नमः । ओं बहुशास्त्रज्ञाय नमः । ओं बलिने नमः । ओं बन्धविमोचकाय नमः । ओं वक्रातिवक्रगमनाय नमः । ओं वासवाय नमः । ओं वसुधाधिपाय नमः । ओं प्रसन्नवदनाय नमः । ओं वन्द्याय नमः ॥ 40 ॥ ओं वरेण्याय नमः । ओं वाग्विलक्षणाय नमः । ओं सत्यवते नमः । ओं सत्यसङ्कल्पाय नमः । ओं सत्यबन्धवे नमः । ओं सदादराय नमः । ओं सर्वरोगप्रशमनाय नमः । ओं सर्वमृत्युनिवारकाय नमः । ओं वाणिज्यनिपुणाय नमः । ओं वश्याय नमः ॥ 50 ॥ ओं वाताङ्गाय नमः । ओं वातरोगहृते नमः । ओं स्थूलाय नमः । ओं स्थैर्यगुणाध्यक्षाय नमः । ओं स्थूलसूक्ष्मादिकारणाय नमः । ओं अप्रकाशाय नमः । ओं प्रकाशात्मने नमः । ओं घनाय नमः । ओं गगनभूषणाय नमः । ओं विधिस्तुत्याय नमः ॥ 60 ॥ ओं विशालाक्षाय नमः । ओं विद्वज्जनमनोहराय नमः । ओं चारुशीलाय नमः । ओं स्वप्रकाशाय नमः । ओं चपलाय नमः । ओं जितेन्द्रियाय नमः । ओं उदङ्मुखाय नमः । ओं मखासक्ताय नमः । ओं मगधाधिपतये नमः । ओं हरये नमः ॥ 70 ओं सौम्यवत्सरसञ्जाताय नमः । ओं सोमप्रियकराय नमः । ओं सुखिने नमः । ओं सिंहाधिरूढाय नमः । ओं सर्वज्ञाय नमः । ओं शिखिवर्णाय नमः । ओं शिवङ्कराय नमः । ओं पीताम्बराय नमः । ओं पीतवपुषे नमः । ओं पीतच्छत्रध्वजाङ्किताय नमः ॥ 80 ॥ ओं खड्गचर्मधराय नमः । ओं कार्यकर्त्रे नमः । ओं कलुषहारकाय नमः । ओं आत्रेयगोत्रजाय नमः । ओं अत्यन्तविनयाय नमः । ओं विश्वपावनाय नमः । ओं चाम्पेयपुष्पसङ्काशाय नमः । ओं चारणाय नमः । ओं चारुभूषणाय नमः । ओं वीतरागाय नमः ॥ 90 ॥ ओं वीतभयाय नमः । ओं विशुद्धकनकप्रभाय नमः । ओं बन्धुप्रियाय नमः । ओं बन्धमुक्ताय नमः । ओं बाणमण्डलसंश्रिताय नमः । ओं अर्केशानप्रदेशस्थाय नमः । ओं तर्कशास्त्रविशारदाय नमः । ओं प्रशान्ताय नमः । ओं प्रीतिसंयुक्ताय नमः । ओं प्रियकृते नमः ॥ 100 ॥ ओं प्रियभाषणाय नमः । ओं मेधाविने नमः । ओं माधवसक्ताय नमः । ओं मिथुनाधिपतये नमः । ओं सुधिये नमः । ओं कन्याराशिप्रियाय नमः । ओं कामप्रदाय नमः । ओं घनफलाश्रयाय नमः ॥ 108 ॥

Recite with devotion and pure heart

Regular practice brings spiritual benefits