Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

अङ्गारक अष्टोत्तर शत नामावली

ओं महीसुताय नमः ओं महाभागाय नमः ओं मङ्गलाय नमः ओं मङ्गलप्रदाय नमः ओं महावीराय नमः ओं महाशूराय नमः ओं महाबलपराक्रमाय नमः ओं महारौद्राय नमः ओं महाभद्राय नमः ओं माननीयाय नमः 10 ओं दयाकराय नमः ओं मानदाय नमः ओं अमर्षणाय नमः ओं क्रूराय नमः ओं तापपापविवर्जिताय नमः ओं सुप्रतीपाय नमः ओं सुताम्राक्षाय नमः ओं सुब्रह्मण्याय नमः ओं सुखप्रदाय नमः ओं वक्रस्तम्भादिगमनाय नमः 20 ओं वरेण्याय नमः ओं वरदाय नमः ओं सुखिने नमः ओं वीरभद्राय नमः ओं विरूपाक्षाय नमः ओं विदूरस्थाय नमः ओं विभावसवे नमः ओं नक्षत्रचक्रसञ्चारिणे नमः ओं क्षत्रपाय नमः ओं क्षात्रवर्जिताय नमः 30 ओं क्षयवृद्धिविनिर्मुक्ताय नमः ओं क्षमायुक्ताय नमः ओं विचक्षणाय नमः ओं अक्षीणफलदाय नमः ओं चक्षुर्गोचराय नमः ओं शुभलक्षणाय नमः ओं वीतरागाय नमः ओं वीतभयाय नमः ओं विज्वराय नमः ओं विश्वकारणाय नमः 40 ओं नक्षत्रराशिसञ्चाराय नमः ओं नानाभयनिकृन्तनाय नमः ओं कमनीयाय नमः ओं दयासाराय नमः ओं कनत्कनकभूषणाय नमः ओं भयघ्नाय नमः ओं भव्यफलदाय नमः ओं भक्ताभयवरप्रदाय नमः ओं शत्रुहन्त्रे नमः ओं शमोपेताय नमः 50 ओं शरणागतपोषकाय नमः ओं साहसिने नमः ओं सद्गुणाय नमः ओं अध्यक्षाय नमः ओं साधवे नमः ओं समरदुर्जयाय नमः ओं दुष्टदूराय नमः ओं शिष्टपूज्याय नमः ओं सर्वकष्टनिवारकाय नमः ओं दुश्चेष्टवारकाय नमः 60 ओं दुःखभञ्जनाय नमः ओं दुर्धराय नमः ओं हरये नमः ओं दुःस्वप्नहन्त्रे नमः ओं दुर्धर्षाय नमः ओं दुष्टगर्वविमोचकाय नमः ओं भरद्वाजकुलोद्भूताय नमः ओं भूसुताय नमः ओं भव्यभूषणाय नमः ओं रक्ताम्बराय नमः 70 ओं रक्तवपुषे नमः ओं भक्तपालनतत्पराय नमः ओं चतुर्भुजाय नमः ओं गदाधारिणे नमः ओं मेषवाहाय नमः ओं मिताशनाय नमः ओं शक्तिशूलधराय नमः ओं शक्ताय नमः ओं शस्त्रविद्याविशारदाय नमः ओं तार्किकाय नमः 80 ओं तामसाधाराय नमः ओं तपस्विने नमः ओं ताम्रलोचनाय नमः ओं तप्तकाञ्चनसङ्काशाय नमः ओं रक्तकिञ्जल्कसन्निभाय नमः ओं गोत्राधिदेवाय नमः ओं गोमध्यचराय नमः ओं गुणविभूषणाय नमः ओं असृजे नमः ओं अङ्गारकाय नमः 90 ओं अवन्तीदेशाधीशाय नमः ओं जनार्दनाय नमः ओं सूर्ययाम्यप्रदेशस्थाय नमः ओं यौवनाय नमः ओं याम्यदिङ्मुखाय नमः ओं त्रिकोणमण्डलगताय नमः ओं त्रिदशाधिपसन्नुताय नमः ओं शुचये नमः ओं शुचिकराय नमः ओं शूराय नमः 100 ओं शुचिवश्याय नमः ओं शुभावहाय नमः ओं मेषवृश्चिकराशीशाय नमः ओं मेधाविने नमः ओं मितभाषणाय नमः ओं सुखप्रदाय नमः ओं सुरूपाक्षाय नमः ओं सर्वाभीष्टफलप्रदाय नमः 108

Recite with devotion and pure heart

Regular practice brings spiritual benefits