हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
आदित्य कवचम्
अस्य
श्री
आदित्यकवचस्तोत्रमहामन्त्रस्य
अगस्त्यो
भगवानृषिः
अनुष्टुप्छन्दः
आदित्यो
देवता
श्रीं
बीजं
णीं
शक्तिः
सूं
कीलकं
मम
आदित्यप्रसादसिद्ध्यर्थे
जपे
विनियोगः
।
ध्यानं
जपाकुसुमसङ्काशं
द्विभुजं
पद्महस्तकम्
सिन्दूराम्बरमाल्यं
च
रक्तगन्धानुलेपनम्
।
माणिक्यरत्नखचित-सर्वाभरणभूषितम्
सप्ताश्वरथवाहं
तु
मेरुं
चैव
प्रदक्षिणम्
॥
देवासुरवरैर्वन्द्यं
घृणिभिः
परिसेवितम्
।
ध्यायेत्पठेत्सुवर्णाभं
सूर्यस्य
कवचं
मुदा
॥
कवचं
घृणिः
पातु
शिरोदेशे
सूर्यः
पातु
ललाटकम्
।
आदित्यो
लोचने
पातु
श्रुती
पातु
दिवाकरः
॥
घ्राणं
पातु
सदा
भानुः
मुखं
पातु
सदारविः
।
जिह्वां
पातु
जगन्नेत्रः
कण्ठं
पातु
विभावसुः
॥
स्कन्धौ
ग्रहपतिः
पातु
भुजौ
पातु
प्रभाकरः
।
करावब्जकरः
पातु
हृदयं
पातु
नभोमणिः
॥
द्वादशात्मा
कटिं
पातु
सविता
पातु
सक्थिनी
।
ऊरू
पातु
सुरश्रेष्टो
जानुनी
पातु
भास्करः
॥
जङ्घे
मे
पातु
मार्ताण्डो
गुल्फौ
पातु
त्विषाम्पतिः
।
पादौ
दिनमणिः
पातु
पातु
मित्रोऽखिलं
वपुः
॥
आदित्यकवचं
पुण्यमभेद्यं
वज्रसन्निभम्
।
सर्वरोगभयादिभ्यो
मुच्यते
नात्र
संशयः
॥
संवत्सरमुपासित्वा
साम्राज्यपदवीं
लभेत्
।
अशेषरोगशान्त्यर्थं
ध्यायेदादित्यमण्डलम्
।
आदित्य
मण्डल
स्तुतिः
–
अनेकरत्नसंयुक्तं
स्वर्णमाणिक्यभूषणम्
।
कल्पवृक्षसमाकीर्णं
कदम्बकुसुमप्रियम्
॥
सिन्दूरवर्णाय
सुमण्डलाय
सुवर्णरत्नाभरणाय
तुभ्यम्
।
पद्मादिनेत्रे
च
सुपङ्कजाय
ब्रह्मेन्द्र-नारायण-शङ्कराय
॥
संरक्तचूर्णं
ससुवर्णतोयं
सकुङ्कुमाभं
सकुशं
सपुष्पम्
।
प्रदत्तमादाय
च
हेमपात्रे
प्रशस्तनादं
भगवन्
प्रसीद
॥
इति
आदित्यकवचम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits