हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
सिद्धलक्ष्मी स्तोत्रम्
अस्य
श्रीसिद्धलक्ष्मीस्तोत्रमन्त्रस्य
हिरण्यगर्भ
ऋषिः
अनुष्टुप्
छन्दः,
श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो
देवताः
श्रीं
बीजं
ह्रीं
शक्तिः
क्लीं
कीलकं
मम
सर्वक्लेशपीडापरिहारार्थं
सर्वदुःखदारिद्र्यनाशनार्थं
सर्वकार्यसिद्ध्यर्थं
श्रीसिद्धिलक्ष्मीस्तोत्र
पाठे
विनियोगः
॥
ऋष्यादिन्यासः
ओं
हिरण्यगर्भ
ऋषये
नमः
शिरसि
।
अनुष्टुप्छन्दसे
नमो
मुखे
।
श्रीमहाकालीमहालक्ष्मीमहासरस्वतीदेवताभ्यो
नमो
हृदिः
।
श्रीं
बीजाय
नमो
गुह्ये
।
ह्रीं
शक्तये
नमः
पादयोः
।
क्लीं
कीलकाय
नमो
नाभौ
।
विनियोगाय
नमः
सर्वाङ्गेषु
॥
करन्यासः
ओं
श्रीं
सिद्धलक्ष्म्यै
अङ्गुष्ठाभ्यां
नमः
।
ओं
ह्रीं
विष्णुतेजसे
तर्जनीभ्यां
नमः
।
ओं
क्लीं
अमृतानन्दायै
मध्यमाभ्यां
नमः
।
ओं
श्रीं
दैत्यमालिन्यै
अनामिकाभ्यां
नमः
।
ओं
ह्रीं
तेजः
प्रकाशिन्यै
कनिष्ठिकाभ्यां
नमः
।
ओं
क्लीं
ब्राह्म्यै
वैष्णव्यै
रुद्राण्यै
करतल
करपृष्ठाभ्यां
नमः
॥
अङ्गन्यासः
ओं
श्रीं
सिद्धलक्ष्म्यै
हृदयाय
नमः
।
ओं
ह्रीं
विष्णुतेजसे
शिरसे
स्वाहा
।
ओं
क्लीं
अमृतानन्दायै
शिखायै
वषट्
।
ओं
श्रीं
दैत्यमालिन्यै
कवचाय
हुम्
।
ओं
ह्रीं
तेजः
प्रकाशिन्यै
नेत्रत्रयाय
वौषट्
।
ओं
क्लीं
ब्राह्म्यै
वैष्णव्यै
रुद्राण्यै
अस्त्राय
फट्
॥
ओं
श्रीं
ह्रीं
क्लीं
श्रीं
सिद्धलक्ष्म्यै
नमः
इति
दिग्बन्धः
॥
अथ
ध्यानम्
ब्राह्मीं
च
वैष्णवीं
भद्रां
षड्भुजां
च
चतुर्मुखीम्
।
त्रिनेत्रां
खड्गत्रिशूलपद्मचक्रगदाधराम्
॥
1
॥
पीताम्बरधरां
देवीं
नानालङ्कारभूषिताम्
।
तेजःपुञ्जधरीं
श्रेष्ठां
ध्यायेद्बालकुमारिकाम्
॥
2
॥
अथ
स्तोत्रम्
ओङ्कारं
लक्ष्मीरूपं
तु
विष्णुं
वाग्भवमव्ययम्
।
विष्णुमानन्दमव्यक्तं
ह्रीङ्कारं
बीजरूपिणीम्
॥
3
॥
क्लीं
अमृतानन्दिनीं
भद्रां
सत्यानन्ददायिनीम्
।
श्रीं
दैत्यशमनीं
शक्तिं
मालिनीं
शत्रुमर्दिनीम्
॥
4
॥
तेजः
प्रकाशिनीं
देवीं
वरदां
शुभकारिणीम्
।
ब्राह्मीं
च
वैष्णवीं
रौद्रीं
कालिकारूपशोभिनीम्
॥
5
॥
अकारे
लक्ष्मीरूपं
तु
उकारे
विष्णुमव्ययम्
।
मकारः
पुरुषोऽव्यक्तो
देवी
प्रणव
उच्यते
॥
6
॥
सूर्यकोटिप्रतीकाशं
चन्द्रकोटिसमप्रभम्
।
तन्मध्ये
निकरं
सूक्ष्मं
ब्रह्मरुपं
व्यवस्थितम्
॥
7
॥
ओङ्कारं
परमानन्दं
सदैव
सुरसुन्दरीम्
।
सिद्धलक्ष्मी
मोक्षलक्ष्मी
आद्यलक्ष्मी
नमोऽस्तु
ते
॥
8
॥
श्रीङ्कारं
परमं
सिद्धं
सर्वबुद्धिप्रदायकम्
।
सौभाग्याऽमृता
कमला
सत्यलक्ष्मी
नमोऽस्तु
ते
॥
9
॥
ह्रीङ्कारं
परमं
शुद्धं
परमैश्वर्यदायकम्
।
कमला
धनदा
लक्ष्मी
भोगलक्ष्मी
नमोऽस्तु
ते
॥
10
॥
क्लीङ्कारं
कामरूपिण्यं
कामनापरिपूर्तिदम्
।
चपला
चञ्चला
लक्ष्मी
कात्यायनी
नमोऽस्तु
ते
॥
11
॥
श्रीङ्कारं
सिद्धिरूपिण्यं
सर्वसिद्धिप्रदायकम्
।
पद्माननां
जगन्मात्रे
अष्टलक्ष्मीं
नमोऽस्तु
ते
॥
12
॥
सर्वमङ्गलमाङ्गल्ये
शिवे
सर्वार्थसाधिके
।
शरण्ये
त्र्यम्बके
गौरि
नारायणी
नमोऽस्तु
ते
॥
13
॥
प्रथमं
त्र्यम्बका
गौरी
द्वितीयं
वैष्णवी
तथा
।
तृतीयं
कमला
प्रोक्ता
चतुर्थं
सुन्दरी
तथा
॥
14
॥
पञ्चमं
विष्णुशक्तिश्च
षष्ठं
कात्यायनी
तथा
।
वाराही
सप्तमं
चैव
ह्यष्टमं
हरिवल्लभा
॥
15
॥
नवमं
खड्गिनी
प्रोक्ता
दशमं
चैव
देविका
।
एकादशं
सिद्धलक्ष्मीर्द्वादशं
हंसवाहिनी
॥
16
॥
उत्तरन्यासः
ओं
श्रीं
सिद्धलक्ष्म्यै
हृदयाय
नमः
।
ओं
ह्रीं
विष्णुतेजसे
शिरसे
स्वाहा
।
ओं
क्लीं
अमृतानन्दायै
शिखायै
वषट्
।
ओं
श्रीं
दैत्यमालिन्यै
कवचाय
हुम्
।
ओं
ह्रीं
तेजः
प्रकाशिन्यै
नेत्रत्रयाय
वौषट्
।
ओं
क्लीं
ब्राह्म्यै
वैष्णव्यै
रुद्राण्यै
अस्त्राय
फट्
॥
ओं
श्रीं
ह्रीं
क्लीं
श्रीं
सिद्धलक्ष्म्यै
नमः
इति
दिग्विमोकः
॥
अथ
फलशृतिः
एतत्
स्तोत्रवरं
देव्या
ये
पठन्ति
सदा
नराः
।
सर्वापद्भ्यो
विमुच्यन्ते
नात्र
कार्या
विचारणा
॥
17
॥
एकमासं
द्विमासं
च
त्रिमासं
च
चतुस्थथा
।
पञ्चमासं
च
षण्मासं
त्रिकालं
यः
सदा
पठेत्
॥
18
॥
ब्राह्मणः
क्लेशितो
दुःखी
दारिद्र्यभयपीडितः
।
जन्मान्तर
सहस्रोत्थैर्मुच्यते
सर्वकिल्बषैः
॥
19
॥
दरिद्रो
लभते
लक्ष्मीमपुत्रः
पुत्रवान्
भवेत्
।
धन्यो
यशस्वी
शत्रुघ्नो
वह्निचौरभयेषु
च
॥
20
॥
शाकिनी
भूत
वेताल
सर्प
व्याघ्र
निपातने
।
राजद्वारे
सभास्थाने
कारागृहनिबन्धने
॥
21
॥
ईश्वरेण
कृतं
स्तोत्रं
प्राणिनां
हितकारकम्
।
स्तुवन्तु
ब्राह्मणाः
नित्यं
दारिद्र्यं
न
च
बाधते
॥
22
॥
सर्वपापहरा
लक्ष्मीः
सर्वसिद्धिप्रदायिनीम्
।
साधकाः
लभते
सर्वं
पठेत्
स्तोत्रं
निरन्तरम्
॥
23
॥
प्रार्थना
या
श्रीः
पद्मवने
कदम्बशिखरे
राजगृहे
कुञ्जरे
श्वेते
चाश्वयुते
वृषे
च
युगले
यज्ञे
च
यूपस्थिते
।
शङ्खे
दैवकुले
नरेन्द्रभवने
गङ्गातटे
गोकुले
सा
श्रीस्तिष्ठतु
सर्वदा
मम
गृहे
भूयात्
सदा
निश्चला
॥
या
सा
पद्मासनस्था
विपुलकटितटी
पद्मपत्रायताक्षी
गम्भीरावर्तनाभिः
स्तनभरनमिता
शुद्धवस्त्रोत्तरीया
।
लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैः
स्नापिता
हेमकुम्भैः
नित्यं
सा
पद्महस्ता
मम
वसतु
गृहे
सर्वमाङ्गल्ययुक्ता
॥
इति
श्रीब्रह्मपुराणे
ईश्वरविष्णुसंवादे
श्री
सिद्धलक्ष्मी
स्तोत्रम्
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits